केतकच्छदप्राथनावर्णनम्
नंदिकेश्वर उवाच
केतकीबर्हमप्येनं विहस्य पुनरब्रवीत् ॥
केतक्युवाच ॥
अपि मूढ न किंचित्त्वं वेत्सि कस्त्वं कुतो न तत्
॥१॥ईदृश्यः परितो लग्ना यस्मिन्ब्रह्मांडकोटयः ॥
तस्य प्रमाणमेतावदिति को वेदितुं क्षमः
॥२॥चतुर्युगायुतैर्यातं ततो निपततो मम ॥
इदानीमपि नाप्रोति तन्मध्यं किल भूतलम्
॥३॥इति ब्रुवाणमेनं च नमस्कृत्य सरोजभूः ॥
हित्वा निजमहंकारमभाषत कृतांजलिः
॥४॥ब्रह्मोवाच
महात्मन्सत्यमेवास्मि मूढोऽहं केतकच्छद ॥
ब्रह्मणा हि मया स्पर्द्धा विष्णुना सह निर्मिता
॥५॥द्वाभ्यामपीदमावाभ्यां विस्मृतं शिववैभवम् ॥
यन्नौ महानभूद्गर्वस्सर्गसंत्राणमात्रतः
॥६॥ह्रेपणी संकथा तावदास्तामद्याप्यहं यतः ॥
स्पर्द्धया न विमुक्तोऽस्मि बद्धया गरुडध्वजे
॥७॥सख्यं साप्तपदीनं हि कथ्यते तद्भवान्मयि
॥८॥असंस्तुतधियं हित्वा कर्तुमर्हस्यनुग्रहम् ॥
अहं विष्णुश्च मोहांधौ तेजःस्तंभस्य वीक्षणात्
॥९॥हंसकोलाकृती दध्वो मिथः साम्यं व्यपोहितुम् ॥
मूलं दिदृक्षुः स दशां कीदृशीं यातवानिति
॥१०॥न जाने मम चास्याग्रं दिदृक्षोरीदृक्षी दशा ॥
गतमुड्डीयमानस्य मे सहस्रेण हायनेः
॥११॥जातश्रमोऽस्मि नितरां वियुज्य इव चासुभिः ॥
दिष्ट्याद्य भद्र लब्धस्त्वं मयाऽऽलंबोवसीदताम्
॥१२॥तन्मे कुरुष्व मित्रस्य सफलां याचनामिमाम् ॥
सखाहं सहसंजल्पादस्मि दासोनुषंजनात्
॥१३॥तत्त्वया करणीयैवं प्रार्थनैषा कृतांजलिः ॥
यदि पश्यति मूलं स जितोऽहममुना तदा
॥१४॥यद्वा न पश्यति तदाप्यस्मि साम्यमुपेयिवान् ॥
इदं द्वयमपि प्रायो ममातिह्रेपणं सखे
॥१५॥त्वयैव परिहार्यत्वमिदानीं समुपागतम् ॥
अनृतामभिभाष त्वमुचितां च सुहृत्कृते
॥१६॥गिरमेकामिमामग्रे चक्रपाणेरुदीरय ॥
एष हंसाकृतिर्ब्रह्मा तेजःस्तंभस्वरूपिणः
॥१७॥अत्युच्चं दृष्टवानग्रमत्र साक्ष्ये स्थितोऽस्म्यहम् ॥
तेनापि तेजःस्तम्भत्वमेयुषा चन्द्रमौलिना
॥१८॥संभावितोयं सुतरां पित्रेव हि पितामहः ॥
अतोऽयमेवाभ्यधिको भवतो विष्टरश्रवाः
॥१९॥इत्युक्त्वा मम साहाय्यं सुमहत्क्रियतां त्वया
॥२०॥नंदिकेश्वर उवाच
एवं भूयः प्रार्थितोऽयं विधात्रा दाक्षिण्यार्द्रः केतकीबर्हकोपि ॥
तेजःस्तंभाभ्यर्णभाजे तथैव प्राहाशेषं विष्णवे ब्रह्मवाक्यम्
॥२१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मणाऽसत्यसाक्ष्यार्थं केतकच्छदप्राथनावर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥