मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (उत्तरार्धम्), अध्याय ६

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (उत्तरार्धम्) · 6

पापापनोदकप्रायश्चित्तवर्णनम्

नंदिकेश्वर उवाच

विस्तरात्कथयाम्यद्य प्रायश्चित्तं महांहसाम् ॥

सर्वेषामवधत्स्व त्वमवलंब्यास्तिकीं धियम्

॥१॥

ब्रह्महा प्राप्य शोणाद्रिं निमग्नः खड्गतीर्थके ॥

जपन्पंचाक्षरं मंत्रं भस्मरुद्राक्षधारकः

॥२॥

कृतोपवासः संपूज्य प्रयतः परमेश्वरम् ॥

ब्राह्मणान्भोजयेद्वर्षं भिक्षाशी नियतेंद्रियः

॥३॥

विशेषपूजाशुश्रूषां कुर्याद्देवस्य भक्तितः ॥

ब्रह्महत्या विनिर्मुक्तो ब्रह्मलोके महीयते

॥४॥

सुरापोऽप्यरुणक्षेत्रे वर्षमेकं वसन्प्रति ॥

प्राग्वत्कृतसमाचारः संपूज्यैवं महेश्वरम्

॥५॥

क्षीरेण स्नापयेद्देवं शतरुद्रीयमुच्चरन् ॥

सुरापानोद्भवेनाशु पापेन परिमुच्यते

॥६॥

सुवर्णस्तेयकृच्छोणक्षेत्रे बिल्वदलैर्हरम् ॥

अभ्यर्च्य भोजयेद्विप्रान्पापान्मुच्येत दुष्करात्

॥७॥

गुरुदाररतिर्गत्वा कृत्तिकास्वरुणाचलम् ॥

यथापूर्वं व्रती भूत्वा सहस्रेण प्रदीपकैः

॥८॥

मासत्रयं समाराध्य श्रीशोणाचलशंकरम् ॥

प्रदद्याद्भूषितां कन्यां ब्राह्मणाय सुधीमते

॥९॥

षडक्षरं जपेन्नित्यं तेन मुच्येत पाप्मना ॥

शिवलोके च निवसेदासंसारं न संशयः

॥१०॥

परदारापहर्त्ता च क्षेत्रेस्मिन्नियतेंद्रियः ॥

मासमेकं नवैः पुष्पैरभ्यर्च्यारुणशंकरम्

॥११॥

माहेश्वराय वितरेद्धनं शक्त्यानुगुण्यतः ॥

तत्क्षणेन विनिर्मुक्तस्तस्मात्पापाद्भविष्यति

॥१२॥

गरदोऽप्यरुणक्षेत्रे व्रती भूत्वा यथापुरा ॥

क्षीरोपहारं देवाय दत्त्वा दोषेण मुच्यते

॥१३॥

पिशुनोऽप्यरुणक्षेत्रे व्रती वेदरतो नरः ॥

अध्यापयेद्द्विजान्मुख्यांस्ततो निष्कल्मषो भवेत्

॥१४॥

अग्निदोऽप्यरुणक्षेत्रे त्रीन्मासान्पूर्ववद्व्रती ॥

दद्याच्छैवाय निर्माय्य गृहं तत्पापशांतये

॥१५॥

धर्मनिंदाकरः शोणक्षेत्रे वर्षं व्रती वसन् ॥

सत्रादिकं प्रकुर्वीत यथाशक्त्यघशांतये

॥१६॥

पितृद्रोह्यरुणक्षेत्रे तिष्ठन्मासमतंद्रितः ॥

गिरीशाय द्विजेभ्योपि प्रदद्याद्गाः सहस्रशः

॥१७॥

ग्रहोपरागकालेषु भोजयित्वा द्विजान्बहून् ॥

विमुंचेद्वृषभं नीलं विमुच्येत ततोंऽहसः

॥१८॥

स्त्रीघ्नश्चापि शिशुघ्नोऽपि शोणक्षेत्रमुपेयिवान् ॥

व्यतीपाते तिलान्दद्याद्द्विजभ्यो दुरितच्छिदे

॥१९॥

प्रच्छन्नपापकृच्छोणक्षेत्रेऽस्मिन्नियतेंद्रियः ॥

गुप्तदानानि कुर्वीत भवेद्वै गतकल्मषः

॥२०॥

मृषाभाष्यरुणक्षेत्रे षण्मासान्निवसन्व्रती ॥

शोणाचलेश्वरस्तोत्रपाठेन स्यादकल्मषः

॥२१॥

कूपादिभेदकृच्छोणक्षेत्रमासाद्य भक्तितः ॥

तटाकान्खानयेत्तत्र ध्रुवं निर्वृजिनो भवेत्

॥२२॥

क्षेत्रापहारी देवाय क्षेत्रं दद्यान्महाफलम् ॥

आरामकंटकोप्यस्मै दद्यादुद्यानमुत्तमम्

॥२३॥

गृहापहारी कुर्वीत देवस्यायतनं नवम् ॥

अंहसा तेन निर्मुक्तः शिवसायुज्यमाप्नुयात्

॥२४॥

परद्रोही वसञ्छोणक्षेत्रे माहेश्वरान्धनैः ॥

प्रीणयित्वा पराँल्लोकान्निःसंशयमवाप्नुयात्

॥२५॥

पश्वादिमांसभुक्छोणक्षेत्रे पक्षत्रयं व्रती ॥

प्रीणयेदरुणेशानं सोपहारैर्मनोहरैः

॥२६॥

त्रिःशोणाचलनाथेति निनदन्ननघो भवेत् ॥

निवसन्नरुणक्षेत्रे पूजयेदरुणेश्वरम्

॥२७॥

अरुणेश्वरमंत्रं च जपेन्मोक्षेच्छुरादरात् ॥

यद्यस्याभिहितं तेन पद्भ्यामेव प्रदक्षिणाम्

॥२८॥

कुर्वतारुणशैलस्य तत्प्राप्यं शुभमंजसा ॥

श्रुतेषु स्खलितेष्वत्याहिते दुःस्वप्नदर्शने

॥२९॥

प्रीत्युत्कर्षेऽपि च बुधैरुच्चार्योऽरुणशंकरः ॥

अपि वर्णाश्रमभ्रष्टः शिवद्रोहरतोऽपि वा

॥३०॥

त्रीण्यहान्यरुणक्षेत्रे वसन्मुच्येत पातकैः ॥

पार्थिवः शिवलोकोऽयं मूर्त्तमेतत्त्रयीशिरः

॥३१॥

एष दक्षिणकैलासो योसावरुणपर्वतः ॥

अन्येषु सिद्धक्षेत्रेषु तपोभिः सिद्धयो नृणाम्

॥३२॥

अस्मिन्स्मरणमात्रेण तारतम्यं विचिंत्यताम् ॥

यद्गंगायां प्रयागे यत्काश्यां वै पुष्करेषु यत्

॥३३॥

कर्म सेतौ च यत्पुंसां शोणक्षेत्रे ततोऽधिकम् ॥

अग्निष्टोमं वाजपेयं वैराजं सर्वतोमुखम्

॥३४॥

राजसूयाश्वमेधौ च कुर्याच्छोणाचले बुधः ॥

एकाहं वारुणक्षेत्रे नरो यत्स्यादुपोषितः

॥३५॥

तस्य चांद्रायणशतं भवेत्सांतपनायुतम् ॥

षोडशापि महादानान्यरुणक्षेत्रसंनिधौ

॥३६॥

अनुष्ठितानि कल्पोक्तं कुर्वंति द्विगुणं फलम्

॥३७॥

इति नंदिकेश्वरमुखेन शुश्रुवान्मुनिनंदनोथ निरयप्रतिक्रियाम् ॥

अभिनंद्य तं वद दिनर्तुवत्सरप्रमुखार्हणक्रममिति व्यजिज्ञपत्

॥३८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे पापापनोदकप्रायश्चित्तवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥