मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय २३

3
काशीखण्डः · 23

चतुर्भुजाभिषेकः

शिवशर्मोवाच

सत्यलोकेश्वर विधे सर्वेषां प्रपितामह ॥

किंचिद्विज्ञप्तुकामोस्मि न भयाद्वक्तुमुत्सहे

॥१॥

ब्रह्मोवाच

यत्त्वं प्रष्टुमना विप्र ज्ञातं ते तन्मनोगतम् ॥

पिपृच्छिषुस्त्वं निर्वाणं गणौ तत्कथयिष्यतः

॥२॥

नेतयोर्विष्णुगणयोरगोचरमिहास्ति हि ॥

सर्वमेतौ विजानीतो यत्किंचिद्ब्रह्मगो लके

॥३॥

इत्युक्त्वा सत्कृतास्ते वै ब्रह्मणा भगवद्गणाः ॥

प्रणम्य लोककर्तारं तेऽपि हृष्टाः प्रतस्थिरे

॥४॥

पुनः स्वयानमारुह्य वैकुंठमभितो ययुः ॥

गच्छतापि पुनस्तत्र द्विजेनापृच्छितौ गणौ

॥५॥

शिवशर्मोवाच

कियद्दूरे वयं प्राप्ता गंतव्यं च कियत्पुनः ॥

पृच्छाम्यन्यच्च वां भद्रौ ब्रूतं प्रीत्या तदप्यहो

॥६॥

कांच्यवंती द्वारवती काश्ययोध्या च पंचमी ॥

मायापुरी च मथुरा पुर्यः सप्त विमुक्तिदाः

॥७॥

विहाय षट्पुरीश्चान्याः काश्यामेवप्रतिष्ठिता ॥

मुक्तिर्विश्वसृजा तत्किं मम मुक्तिर्न संप्रति

॥८॥

इति सर्वं मम पुरः प्रसादाद्वक्तुमर्हतम् ॥

इति तद्वाक्यमाकर्ण्य गणावूचतुरादरात्

॥९॥

गणावूचतुः

यथार्थं कथयावस्ते यत्पृष्टं भवतानघ ॥

विष्णुप्रसादाज्जानीवो भूतंभाविभवत्तथा

॥१०॥

विप्रावभासते यावत्किरणैः पुष्पवंतयोः ॥

तावतीभूः समुद्दिष्टा ससमुद्राद्रि कानना

॥११॥

वियच्च तावदुपरि विस्तारपरिमंडलम् ॥

योजनानां च नियुते भूमेर्भानुर्व्यवस्थितः

॥१२॥

भानोः सकाशादुपरि लक्षे लक्ष्यः क्षपाकरः ॥

नक्षत्रधं(मं?)डलं सोमाल्लक्षयोजनमुच्छ्रितम्

॥१३॥

उडुमंडलतः सौम्य उपरिष्टाद्द्विलक्षतः ॥

द्विलक्षे तु बुधाच्छुक्रः शुक्राद्भौमो द्विलक्षके

॥१४॥

माहेयादुपरिष्टाच्च सुरेज्यो नियुतद्वये ॥

द्विलक्षयोजनोत्सेधः सौरिर्देवपुरोहितात्

॥१५॥

दशायुतसमुच्छ्रायं सौरेः सप्तर्षिमंडलम् ॥

सप्तर्षिभ्यः सहस्राणां शतादूर्ध्वं ध्रुवस्थितः

॥१६॥

पादगम्यं हि यत्किंचिद्वस्त्वस्ति धरणीतले ॥

तद्भूर्लोक इति ख्यातः साब्धिद्वीपाद्रिकाननम्

॥१७॥

भूर्लोकाच्च भुवर्लोको ब्रध्नावधिरुदाहृतः ॥

आदित्यादाध्रुवं विप्र स्वर्लोक इति गीयते

॥१८॥

महर्लोकः क्षितेरूर्ध्वमेककोटिप्रमाणतः ॥

कोटिद्वये तु संख्यातो जनो भूर्लोकतो जनैः

॥१९॥

चतुष्कोटिप्रमाणस्तु तपोलोकोऽस्ति भूतलात् ॥

उपरिष्टात्क्षितेरष्टौ कोटयः सत्यमीरितम्

॥२०॥

सत्यादुपरि वैकुंठो योजनानां प्रमाणतः ॥

भूर्लोकात्परिसंख्यातः कोटिषोडशसंमितः

॥२१॥

यत्रास्ते श्रीपतिः साक्षात्सर्वेषामभयप्रदः ॥

ततस्तु षोडशगुणः कैलासोऽस्ति शिवालयः

॥२२॥

पार्वत्या सहितः शंभुर्गजास्य स्कंद नंदिभिः ॥

यत्र तिष्ठति विश्वेशः सकलः स परः स्मूतः

॥२३॥

तस्य देवस्य खेलोऽयं स्वलीला मूर्तिधारिणः ॥

स विश्वेश इति ख्यात स्तस्याज्ञाकृदिदं जगत्

॥२४॥

सर्वेषां शासकश्चासौ तस्य शास्ता न चापरः ॥

स्वयं सृजति भूतानि स्वयं पाति तथात्ति च

॥२५॥

सर्वज्ञ एकः स प्रोक्तः स्वेच्छाधीन विचेष्टितः ॥

तस्य प्रवतर्कः कोपि नहि नैव निवर्तकः

॥२६॥

अमूर्तं यत्परं ब्रह्म समूर्तं श्रुतिचोदितम् ॥

सर्वव्यापि सदा नित्यं सत्यं द्वैतविवर्जितम्

॥२७॥

सर्वेभ्यः कारणेभ्यश्च परात्परतरं परम् ॥

आनंदं ब्रह्मणो रूपं श्रुतयो यत्प्रचक्षते

॥२८॥

संविदं तेन यं वेदा विष्णुर्वेद न वै विधिः ॥

यतो वाचो निवर्तंते ह्यप्राप्य मनसा सह

॥२९॥

स्वयंवेद्यः परं ज्योतिः सर्वस्य हृदि संस्थितः ॥

योगिगम्यस्त्वनाख्येयो यः प्रमाणैकगोचरः

॥३०॥

नानारूपोप्यरूपो यः सर्वगोपि न गोचरः ॥

अनंतोप्यंतक वपुः सर्ववित्कर्मवर्जितः

॥३१॥

तस्येदमैश्वरं रूपं खंडचंद्रावतंसकम् ॥

तमालश्यामलगलं स्फुरद्भालविलोचनम्

॥३२॥

लसद्वामार्धनारीकं कृतशेषशुभांगदम् ॥

गंगातरंगसत्संग सदाधौतजटातटम्

॥३३॥

स्मरांगरजःपुंज पूजितावयवोज्ज्वलम् ॥

विचित्रगात्रविधृतमहाव्यालविभूषणम्

॥३४॥

महोक्षस्यंदनगमं विरुताजगवायुधम् ॥

गजाजिनोत्तरासंगं दशार्धवदनं शुभम्

॥३५॥

उत्त्रासित महामृत्यु महाबलगणावृतम् ॥

शरणार्थिकृतत्राणं नत निर्वाणकारणम् ॥

मनोरथपथातीतं वरदानपरायणम्

॥३६॥

तस्य तत्त्वस्वरूपस्य रूपातीतस्य भो द्विज ॥

परावरे रुद्ररूपे सर्वेव्याप्यावतिष्ठत

॥३७॥

निराकारोपि साकारः शिव एव हि कारणम ॥

मुक्तये भुक्तये वापि न शिवान्मोक्षदो परः

॥३८॥

यथा तेनाखिलं ह्येतत्पार्वतीपतिसात्कृतम ॥

इदं चराचरं सर्वं दृश्यादृश्यमरूपिणा

॥३९॥

तथा मृडानीकांतेन विष्णुसादखिलंजगत ॥

विधाय क्रीड्यते विप्र नित्यं स्वच्छंद लीलया

॥४०॥

यथाशिवस्तथा विष्णुर्यथाविष्णुस्तथा शिवः ॥

अंतरं शिवविष्ण्वोश्च मनागपि न विद्यते

॥४१॥

आहूय पूर्वं ब्रह्मादीन्समस्तान्देवतागणान् ॥

विद्याधरोरगादींश्च सिद्धगंधर्वचारणान्

॥४२॥

निजसिंहासनसमं कृत्वा सिंहासनं शुभम् ॥

उपवेश्य हरिं तत्र च्छत्रं कृत्वा मनोहरम्

॥४३॥

श्लक्ष्णं कोटिशलाकं च विश्वकर्मविनिर्मितम् ॥

पांडुरं रत्नदंडं च स्थूलमुक्तावलंबितम्

॥४४॥

कलशेन विचित्रेण ह्युपरिष्टाद्विराजितम् ॥

सहस्रयोजनायामं सर्वरत्नमयं शुभम्

॥४५॥

पट्टसूत्रमयैरम्यैश्चामरैश्च परिष्कृतम् ॥

राजाभिषेकयोग्यैश्च द्रव्यैः सर्वौषधादिभिः

॥४६॥

प्रत्यक्षतीर्थपाथोभिः पंचकुंभैर्मनोहरैः ॥

सिद्धार्थाक्षतदूर्वाभिर्मंत्रैः स्वयमुपस्थितैः

॥४७॥

देवानां च तथर्षीणां सिद्धानां फणिनामपि ॥

आनीय मंगलकराः कन्याः षोडशषोडश

॥४८॥

वीणामृदंगाब्जभेरी मरु डिंडिमझर्झरैः ॥

आनकैः कांस्यतालाद्यै र्वाद्यैर्ललितगायनैः

॥४९॥

ब्रह्मघोषमहारावैरापूरितनभोंगणे ॥

शुभे तिथौ शुभे लग्ने ताराचंद्रबलान्विते

॥५०॥

आबद्धमुकुटं रम्यं कृतकौतुकमंगलम् ॥

मृडानीकृतशृंगारं सुश्रिया सुश्रियायुतम्

॥५१॥

अभिषिच्य महेशेन स्वयं ब्रह्मांडमंडपे ॥

दत्तं समस्तमैश्वर्यं यन्निजं नान्यगामि च

॥५२॥

ततस्तुष्टाव देवेशः प्रमथैः सह शार्ङ्गिणम् ॥

ब्रह्माणं लोककर्तारमुवाच च वचस्त्विदम्

॥५३॥

मम वंद्यस्त्वयं विष्णुः प्रणमत्वममुं हरिम् ॥

इत्युक्त्वाथ स्वयं रुद्रो ननाम गरुडध्वजम्

॥५४॥

ततो गणेश्वरैः सर्वैंर्ब्रह्मणा च मरुद्गणैः ॥

योगिभिः सनकाद्यैश्च सिद्धैर्देवर्षिभिस्तथा

॥५५॥

विद्याधरैः सगंधर्वैर्यक्षरक्षोप्सरोगणैः ॥

गुह्यकैश्चारणैर्भूतैः शेष वासुकि तक्षकैः

॥५६॥

पतत्रिभिः किंनरैश्च सर्वैः स्थावरजंगमैः ॥

ततो जयजयेत्युक्त्वा नमोस्त्विति नमोस्त्विति

॥५७॥

ततोहरिर्महेशेन संसदि द्युसदां तदा ॥

एतैर्महारवै रम्यैश्चानर्चि परमार्चिषा

॥५८॥

त्वं कर्ता सर्वभूतानां पाता हर्ता त्वमेव च ॥

त्वमेव जगतां पूज्यस्त्वमेव जगदीश्वरः

॥५९॥

दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥

अजेयस्त्वं च संग्रामे ममापि हि भविष्यसि

॥६०॥

इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्तथोत्तमा ॥

शक्तित्रयमिदं विष्णो गृहाण प्रापितं मया

॥६१॥

त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥

त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम्

॥६२॥

मायां चापि गृहाणेमां दुष्प्रणोद्यां सुरासुरैः ॥

यया संमोहितं विश्वमकिंचिज्ज्ञं भविष्यति

॥६३॥

वामबाहुर्मदीयस्त्वं दक्षिणोसौ पितामहः ॥

अस्यापि हि विधेः पाता जनितापि भविष्यसि

॥६४॥

वैकुंठैश्वर्यमासाद्य हरेरित्थं हरः स्वयम् ॥

कैलासे प्रमथैः सार्धं स्वैरं क्रीडत्युमापतिः

॥६५॥

तदा प्रभृति देवोसौ शार्ङ्गधन्वा गदाधरः ॥

त्रैलोक्यमखिलं शास्ति दानवांतकरो हरिः

॥६६॥

इति ते कथिता विप्र लोकानां च परिस्थितिः ॥

इदानीं कथयिष्यावस्तवनिर्वाण कारणम्

॥६७॥

इदं तु परमाख्यानं शृणुयाद्यः समाहितः ॥

स्वर्लोकमभिगम्याथ काश्यां निर्वाणमाप्नुयात्

॥६८॥

यज्ञोत्सवे विवाहे च मंगलेष्वखिलेष्वपि ॥

राज्याभिषेक समये देवस्थापनकर्मणि

॥६९॥

सर्वाधिकारदानेषु नववेश्मप्रवेशने ॥

पठितव्यं प्रयत्नेन तत्कार्य परिसिद्धये

॥७०॥

अपुत्रो लभते पुत्रमधनो धनवान्भवेत् ॥

व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बंधनात्

॥७१॥

जप्यमेतत्प्रयत्नेन सततं मंगलार्थिना ॥

अमंगलानां शमनं हरनारायणप्रियम

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे चतुर्भुजाभिषेको नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥