मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५५

3
काशीखण्डः · 55

गणेशप्रेषणम्

स्कंद उवाच

अन्येपि ये गणास्तत्र काश्यां लिंगानि चक्रिरे ॥

तांश्च ते कथयिष्यामि कुंभयोने निशामय

॥१॥

गणेन पिंगलाख्येन पिंगलाख्येशसंज्ञितम् ॥

लिंगं प्रतिष्ठितं शंभोः कपर्दीशादुदग्दिशि

॥२॥

तस्य दर्शनमात्रेण पापानां जायते क्षयः ॥

वीरभद्रो महाप्रीतो देवदेवस्य शूलिनः

॥३॥

वीरभद्रेश्वरं लिंगं ध्यायेदद्यापि निश्चलः ॥

तस्य दर्शनमात्रेण वीरसिद्धिः प्रजायते

॥४॥

अविमुक्तेश्वरात्पश्चाद्वीरभद्रेश्वरं नरः ॥

समर्च्य न रणे भंगं कदाचिदपि चाप्नुयात्

॥५॥

वीरभद्रः स्वयं साक्षाद्वीरमूर्तिधरो मुने ॥

संहरेद्विप्रसंघातमविमुक्तनिवासिनाम

॥६॥

भद्रया भद्रकाल्या च भार्यया शुभया युतम् ॥

वीरभद्रं नरोभ्यर्च्य काशीवासफलं लभेत्

॥७॥

किरातेन किरातेशं लिंगं काश्यां प्रतिष्ठितम् ॥

केदाराद्दक्षिणे भागे भक्तानामभयप्रदम्

॥८॥

चतुर्मुखो गणः श्रीमान्वृद्धकालेश सन्निधौ ॥

चतुर्मुखेश्वरं लिंगं ध्यायेदद्यापि निश्चलः

॥९॥

भक्ताश्चतुर्मुखेशस्य चतुराननवद्दिवि ॥

पूज्यंते सुरसंघातैः सर्वभोगसमन्विताः ॥

निकुंभेश्वरमालोक्य निकुंभगणपूजितम् ॥

पूजयित्वा व्रजन्ग्रामं कार्यसिद्धिमवाप्नुयात् ॥

कुबेरेश समीपेतु शिवलोके महीयते

॥११॥

पंचाक्षेशं महालिंगं महादेवस्य दक्षिणे ॥

समभ्यर्च्य नरः काश्यां जातिस्मृतिमवाप्नुयात्

॥१२॥

भारभूतेश्वरं लिंगं भारभूतगणार्चितम् ॥

अंतर्गृहोत्तरद्वारि ध्यात्वा शिवपुरे वसेत्

॥१३॥

भारभूतेश्वरं लिंगं यैः काश्यां न विलोकितम् ॥

भारभूताः पृथिव्यास्तेऽवकेशिन इव द्रुमाः

॥१४॥

गणेन त्र्यक्षसंज्ञेन लिंगं त्र्यक्षेश्वरं परम् ॥

त्रिलोचनपुरोभागे शील्येताद्यापि कुंभज

॥१५॥

तस्य लिंगस्य ये भक्तास्ते तु देहावसानतः ॥

त्र्यक्षा एव प्रजायंते नात्र कार्या विचारणा

॥१६॥

क्षेमको नाम गणपः काश्यां मूर्तिधरः स्वयम् ॥

विश्वेश्वरं सर्वगतं ध्यायेदद्यापि निश्चलः

॥१७॥

क्षेमकं पूजयेद्यस्तु वाराणस्यां महागणम् ॥

विघ्नास्तस्य प्रलीयंते क्षेमं स्याच्च पदेपदे

॥१८॥

देशांतरं गतो यस्तु तस्यागमनकाम्यया ॥

क्षेमकं पूजनीयोत्र क्षेमेणाशु स आव्रजेत्

॥१९॥

लांगलीश्वरमालोक्य लिंगं लांगलिनार्चितम् ॥

विश्वेशादुत्तरेभागे न नरो रोगभाग्भवेत्

॥२०॥

लांगलीशं सकृत्पूज्य पंचलांगलदानजम् ॥

फलं प्राप्नोत्यविकलं सर्वसंपत्करं परम्

॥२१॥

विराधेश्वरमाराध्य विराधगणपूजितम् ॥

सर्वापराधयुक्तोपि नापराध्यति कुत्रचित्

॥२२॥

दिनेदिनेपराधो यः क्रियते काशिवासिभिः ॥

स याति संक्षयं क्षिप्रं विराधेश समर्चनात्

॥२३॥

नैर्ऋते दंढपाणस्तु विराधेशं प्रयत्नतः ॥

नत्वा सर्वापराधेभ्यो मुच्यते नात्र संशयः

॥२४॥

सुमुखेशं महालिंगं सुमुखाख्यगणार्चितम् ॥

पश्चिमाभिमुखं लिंगं दृष्ट्वा पापैः प्रमुच्यते

॥२५॥

स्नात्वा पिलिपिला तीर्थे सुमुखेशं विलोक्य च ॥

सदैव सुमुखं पश्येद्धर्मराजं न दुर्मुखम्

॥२६॥

आषाढिनार्चितं लिंगमाषाढीश्वरसंज्ञकम् ॥

दृष्ट्वाषाढयां नरो भक्त्या सर्वैः पापैः प्रमुच्यते

॥२७॥

उदीच्यां भारभूतेशादाषाढीशं समर्चयन् ॥

आषाढ्यां पंचदश्यां वै न पापैः परितप्यते

॥२८॥

शुचिशुक्लचतुर्दश्यां पंचदश्यामथापि वा ॥

कृत्वा सांवत्सरीं यात्रामनेना जायते नरः

॥२९॥

स्कंद उवाच

मुने गणेषु चैतेषु वाराणस्यां स्थितेष्विति ॥

स्वनाम्ना स्थाप्य लिंगानि विश्वेशपरितुष्टये

॥३०॥

विश्वेशश्चिंतयां चक्रे पुनः काशीप्रवृत्तये ॥

कं वा हितं प्रहित्याद्य निर्वृतिं परमां भजे

॥३१॥

योगिन्यस्तिग्मगुर्वेधाः शंकुकर्णमुखागणाः ॥

व्यावृत्त्यनागताः काश्याः सिंधुगा इव सिंधवः

॥३२॥

धुवं काश्यां प्रविष्टा ये ते प्रविष्टा ममोदरे ॥

तेषां विनिर्गमो नास्ति दीप्तेग्नौ हविषामिव

॥३३॥

येषां हि संस्थितिः काश्यां लिंगार्चनरतात्मनाम् ॥

त एव मम लिंगानि जंगमानि न संशयः

॥३४॥

स्थावरा जंगमाः काश्यामचेतनसचेतनाः ॥

सर्वे ममैव लिंगानि तेभ्यो द्रुह्यंति दुर्धियः

॥३५॥

वाचि वाराणसी येषां श्रुतौ वैश्वेश्वरी कथा ॥

त एव काशी लिंगानि वराण्यर्च्यान्यहं यथा

॥३६॥

वाराणसीति काशीति रुद्रावास इति स्फुटम् ॥

मुखाद्विनिर्गतं येषां तेषां न प्रभवेद्यमः

॥३७॥

आनंदकाननं प्राप्य ये निरानंदभूमिकाम् ॥

अन्यां हृदापि वांछंति निरानंदाः सदात्र ते

॥३८॥

अद्यैव वास्तुमरणं बहुकालांतरेपि वा ॥

कलिकाल भिया पुंसां काशी त्याज्या न कर्हिचित्

॥३९॥

अवश्यंभाविनो भावा भविष्यंति पदेपदे ॥

सलक्ष्मीनिलयां काशीं ते त्यजंति कुतो धियः

॥४०॥

वरं विघ्नसहस्राणि सोढव्यानि पदेपदे ॥

काश्यां नान्यत्र निर्विघ्नं वांछेद्राज्यमपि क्वचित्

॥४१॥

कियन्निमेषसंभोग्याः संति लक्ष्म्याः पदेपदे ॥

परं निरंतरसुखाऽमुत्राप्यत्रापि का शिका

॥४२॥

विश्वनाथो ह्यहं नाथः काशिकामुक्तिकाशिका ॥

सुधातरंगा स्वर्गंगा त्रय्येषा किन्न यच्छति

॥४३॥

पंचक्रोश्यापरिमिता तनुरेषा पुरी मम ॥

अविच्छिन्नप्रमाणर्धिर्भक्तनिर्वाणकारणम्

॥४४॥

संसारभारखिन्नानां यातायातकृतां सदा ॥

एकैव मे पुरी काशी ध्रुवं विश्रामभृमिका

॥४५॥

मंडपः कल्पवल्लीनां मनोरथफलैरलम् ॥

फलितः काशिकाख्योयं संसाराध्वजुषां सदा

॥४६॥

चक्रवर्तेरियं छत्रं विचित्रं सर्वतापहृत् ॥

काशीनिर्वाणराजस्य ममशूलोच्च दंडवत्

॥४७॥

निर्वाणलक्ष्मीं ये पुण्याः परिवांछंति लीलया ॥

निरंतरसुखप्राप्त्यै काशी त्याज्या न तै नृभिः

॥४८॥

ममानंदवने ये वै निरं तर वनौकसः ॥

मोक्षलक्ष्मीफलान्यत्र सुस्वादूनि लभंति ते

॥४९॥

निर्ममं चापि निर्मोहं या मामपि विमोहयेत् ॥

कैर्न संस्मरणीया सा काशी विश्वविमोहिनी

॥५०॥

नामापि मधुरं यस्याः परानंदप्रकाशकम् ॥

काश्याः काशीति काशीति सा कैः पुण्यैर्न जप्यते

॥५१॥

काशीनामसुधापानं ये कुर्वंति निरंतरम् ॥

तेषां वर्त्म भवत्येव सुधाम वसुधामयम्

॥५२॥

ममतारहितस्यापि मम सर्वात्मनो ध्रुवम् ॥

त एव मामका लोके ये काशीनाम जापकाः

॥५३॥

रहस्यमिति विज्ञाय वाराणस्या गणेश्वरैः ॥

सब्रह्मयोगिनी ब्रध्रैः स्थितं तत्रैव नान्यथा

॥५४॥

अन्यथा ताश्च योगिन्यः सरविः सपितामहः ॥

ते गणा मां परित्यज्य कथं तिष्ठेयुरन्यतः

॥५५॥

अतीव भद्रं संजातं काश्यां तिष्ठत्सु तेषु हि ॥

एकोपि भेद प्रभवेद्राज्ये राज्यांतरं विना

॥५६॥

लब्धप्रवेशास्तावंतस्ते सर्वे मत्स्वरूपिणः ॥

यतिष्यंति यतोवश्यं मदागमनहेतवे

॥५७॥

अन्यानपि प्रेषयामि मत्पार्श्वपरिवर्तिनः ॥

ये ते तत्र स्थिताः श्रेष्ठा अपिगंतास्म्यहं ततः

॥५८॥

विचार्येति महादेवः समाहूय गजाननम् ॥

प्राहिणोत्कथयित्वेति गच्छ काशीमितः सुत

॥५९॥

तत्रस्थितोपि संसिद्धयै यतस्व सहितो गणैः ॥

निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर

॥६०॥

आधाय शासनं मूर्ध्नि गणाधीशोथ धूर्जटेः ॥

प्रतस्थे त्वरितः काशीं स्थितिज्ञः स्थितिहेतवे

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे काशीवर्णन गणेशप्रेषणं नाम पंचपंचाशत्तमोऽध्यायः ॥ ५५ ॥