मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३२

3
काशीखण्डः · 32

दंडपाणिप्रादुर्भावः

अगस्त्य उवाच

बर्हियान समाचक्ष्व हरिकेशसमुद्भवम् ॥

कोसौ कस्य सुतः श्रीमान्कीदृगस्य तपो महत्

॥१॥

कथं च देवदेवस्य प्रियत्वं समुपेयिवान् ॥

काशीवासिजनीनोभूत्कथं वा दंडनायकः

॥२॥

एतदिच्छाम्यहं श्रोतुं प्रसादं कुरु मे विभो ॥

अन्नदत्वं च संप्राप्तः कथमेष महामतिः

॥३॥

संभ्रमो विभ्रमश्चोभौ कथं तदनुगामिनौ ॥

विभ्रांतिकारिणौ क्षेत्रवैरिणां सर्वदा नृणाम्

॥४॥

स्कंद उवाच

सम्यगापृच्छि भवता काशीवासिसमाहितम् ॥

कुंभसंभव विप्रर्षे दंडपाणि कथानकम्

॥५॥

यदाकर्ण्य नरः प्राज्ञ काशीवासस्य यत्फलम् ॥

निष्प्रत्यूहं तदाप्नोति विश्वभर्त्तुरनुग्रहात्

॥६॥

रत्नभद्र इति ख्यातः पर्वते गंधमादने ॥

यक्षः सुकृतलक्षश्रीः पुरा परम धार्मिकः

॥७॥

पूर्णभद्रं सुतं प्राप्य सोऽभूत्पूर्णमनोरथः ॥

वयश्चरममासाद्य भुक्त्वा भोगाननेकशः

॥८॥

शांभवेनाथ योगेन देहमुत्सृज्य पार्थिवम् ॥

आससादाशवं शांतं शांतसर्वेंद्रियार्थकः

॥९॥

पितर्युपरतेसोऽथ पूर्णभद्रो महायशाः ॥

सुकृतोपात्तविभव भवसंभोगभुक्तिभाक्

॥१०॥

सर्वान्मनोरथाँल्लेभे विना स्वर्गैकसाधनम् ॥

गार्हस्थ्याश्रम नेपथ्यं पथ्यं पैतामहं महत्

॥११॥

संसारतापसंतप्तावयवामृतसीकरम् ॥

अपत्यं पततां पोतं बहुक्लेशमहार्णवे

॥१२॥

पूर्णभद्रोऽथ संवीक्ष्य मंदिरं सर्वसुंदरम् ॥

तद्बालकोमलालाप विकलं त्यक्तमंगलम्

॥१३॥

शून्यं दरिद्रहृदिव जीर्णारण्यमिवाथवा ॥

पांथवत्प्रांतरमिव खिन्नोऽतीवानपत्यवान्

॥१४॥

आहूय गृहिणी सोऽथ यक्षः कनककुंडलाम् ॥

उवाच यक्षिणीं श्रेष्ठां पूर्णभद्रो घटोद्भव

॥१५॥

न हर्म्यं सुखदं कांते दर्पणोदरसुंदरम् ॥

मुक्ता गवाक्षसुभगं चंद्रकांतशिलाजिरम्

॥१६॥

पद्मरागेंद्रनीलार्चिरर्चिताट्टालकं क्वणत् ॥

विद्रुमस्तंभशोभाढ्यं स्फुरत्स्फटिककुड्यवत्

॥१७॥

प्रेंखत्पताकानिकरं मणिमाणिक्यमालितम् ॥

कृष्णागुरुमहाधूप बहुलामोदमोदितम्

॥१८॥

अनर्घ्यासनसंयुक्तं चारुपर्यंकभूषितम् ॥

रम्यार्गलकपाटाढ्यं दुकूलच्छन्नमंडपम्

॥१९॥

सुरम्यरतिशालाढ्यं वाजिराजिविराजितम् ॥

दासदासीशताकीर्णं किंकिणीनादनादितम्

॥२०॥

नूपुरारावसोत्कंठ केकिकेकारवाकुलम् ॥

कूजत्पारावत कुलं गुरुसारीकथावरम्

॥२१॥

खेलन्मरालयुगलं जीवं जीवककांतिमत् ॥

माल्याहूत द्विरेफाणां मंजुगुंजारवावृतम्

॥२२॥

कर्पूरैण मदामोद सोदरानिलवीजितम् ॥

क्रीडामर्कटदंष्ट्राग्री कृतमाणिक्यदाडिमम्

॥२३॥

दाडिमीबीजसंभ्रांतशुकतुंडात्तमौक्तिकम् ॥

धनधान्यसमृद्धं च पद्मालयमिवापरम्

॥२४॥

कमलामोदगर्भं च गर्भरूपं विना प्रिये ॥

गर्भरूपमुखं प्रेक्ष्ये कथं कनककुडले

॥२५॥

यद्युपायोऽस्ति तद्ब्रूहि धिगपुत्रस्य जीवितम् ॥

सर्वशून्यमिवाभाति गृहमेतदनंगजम्

॥२६॥

धिगेतत्सौधसौंदर्यं धिगेतद्धनसंचयम् ॥

विनापत्यं प्रियतमे जीवितं च धिगावयोः

॥२१७॥

प्रलपंतमिव प्रोच्चैः प्रियं कनककुंडला ॥

बभाषेंऽतर्विनिःश्वस्य यक्षिणी सा पतिव्रता

॥२८॥

कनककुंडलोवाच

किमर्थं खिद्यसे कांत ज्ञानवानसि यद्भवान् ॥

अत्रोपायोऽस्त्यपत्याप्त्यै विस्रब्धमवधारय

॥२९॥

किमुद्यमवतां पुंसां दुर्लभं हि चराचरे ॥

ईश्वरार्पितबुद्धीनां स्फुंरंत्यग्रे मनोरथाः

॥३०॥

दैवं हेतुं वदंत्येवं भृशं कापुरुषाः पते ॥

स्वयं पुराकृतं कर्म दैवं तच्च न हीतरत्

॥३१॥

ततः पौरुषमालंब्य तत्कर्म परिशांतये ॥

ईश्वरं शरणं यायात्सर्वकारणकारणम्

॥३२॥

अपत्यं द्रविणं दारा हारा हर्म्य हया गजाः ॥

सुखानि स्वर्गमोक्षौ च न दूरे शिवभक्तितः

॥३३॥

विधातुः शांभवीं भक्तिं प्रिय सर्वे मनोरथाः ॥

सिद्धयोष्टौ गृहद्वारं सेवंते नात्र संशयः

॥३४॥

नारायणोपि भगवानंतरात्मा जगत्पतिः ॥

चराचराणामविता जातः श्रीकंठसेवया

॥३५॥

ब्रह्मणः सृष्टिकर्त्तृत्वं दत्तं तेनैव शंभुना ॥

इंद्रादयो लोकपाला जाता शंभोरनुग्रहात्

॥३६॥

मृत्युंजयं सुतं लेभे शिलादोप्यनपत्यवान् ॥

श्वेतकेतुरपि प्राप जीवितं कालपाशतः

॥३७॥

क्षीरार्णवाधिपतितामुपमन्युरवाप्तवान् ॥

अंधकोप्यभवद्भृंगी गाणपत्यपदोर्जितः

॥३८॥

जिगाय शार्ङ्गिणं संख्ये दधीचिः शंभुसेवया ॥

प्राजापत्यपदं प्राप दक्षः संशील्य शंकरम्

॥३९॥

मनोरथपथातीतं यच्च वाचामगोचरम् ॥

गोचरो गोचरीकुर्यात्तत्पदं क्षणतो मृडः

॥४०॥

अनाराध्य महेशानं सर्वदं सर्वदेहिनाम् ॥

कोपि क्वापि किमप्यत्र न लभेतेति निश्चितम्

॥४१॥

तस्मात्सर्वप्रयत्नेन शंकरं शरणं व्रज ॥

यदिच्छसि प्रियं पुत्रं प्रियसर्वजनीनकम्

॥४२॥

इति श्रुत्वा वचः पत्न्याः पूर्णभद्रः स यक्षराट् ॥

आराध्य श्रीमहादेवं गीतज्ञो गीतविद्यया

॥४३॥

दिनैः कतिपयैरेव परिपूर्णमनोरथः ॥

पुत्रकाममवापोच्चैस्तस्यां पत्न्यां दृढव्रतः

॥४४॥

नादेश्वरं समभ्यर्च्य कैः कैर्नापि स्वचिंतितम् ॥

तस्मात्काश्यां प्रयत्नेन सेव्यो नादेश्वरो नृभिः

॥४५॥

अंतर्वत्न्यथ कालेन तत्पत्नी सुषुवे सुतम् ॥

तस्य नाम पिता चक्रे हरिकेश इति द्विज

॥४६॥

प्रीतिदायं ददौ चाथ भूरिपुत्राननेक्षणात् ॥

पूर्णभद्रस्तथागस्त्य हृष्टा कनककुंडला

॥४७॥

बालोऽपि पूर्णचंद्राभ वदनो मदनोपमः ॥

वृद्धिं प्रतिक्षणं प्राप शुक्लपक्ष इवोडुराट्

॥४८॥

यदाष्टवर्षदेशीयो हरिकेशोऽभवच्छिशुः ॥

नित्यं तदाप्रभृत्येवं शिवमेकममन्यत

॥४९॥

पांसुक्रीडनसक्तोपि कुर्याल्लिंगं रजोमयम् ॥

शाद्वलैः कोमलतृणैः पूजयेच्च स कौतुकम्

॥५०॥

आकारयति मित्राणि शिवनाम्नाऽखिलानि सः ॥

चंद्रशेखरभूतेश मृत्युंजय मृडेश्वरः

॥५१॥

धूर्जटे खंडपरशो मृडानीश त्रिलोचन ॥

भर्गशंभोपशुपते पिनाकिन्नुग्रशंकर

॥५२॥

श्रीकंठनीलकंठेश स्मरारे पार्वतीपते ॥

कपालिन्भालनयन शूलपाणे महेश्वर

॥५३॥

अजिनांबरदिग्वासः स्वर्धुनी क्लिन्नमौलिज ॥

विरूपाक्षाहिनेपथ्य गृणन्नामावलीमिमाम्

॥५४॥

सवयस्कानिति मुहुः समाह्वयति लालयन् ॥

शब्दग्रहौ न गृह्णीतस्तस्यान्याख्यां हरादृते

॥५५॥

पद्भ्यां न पद्यते चान्यदृते भूतेश्वराजिरात् ॥

द्रष्टुं रूपांतरं तस्य वीक्षणेन विचक्षणे

॥५६॥

रसयेत्तस्य रसना हरनामाक्षरामृतम् ॥

शिवांघ्रिकमलामोदाद्घ्राणं नैव जिघृक्षति

॥५७॥

करौ तत्कौतुककरौ मनो मनति नापरम् ॥

शिवसात्कृत्यपेयानि पीयते तेन सद्धिया

॥५८॥

भक्ष्यते सर्वभक्ष्याणि त्र्यक्षप्रत्यक्षगान्यपि ॥

सर्वावस्थासु सर्वत्र न स पश्येच्छिवं विना

॥५९॥

गच्छन्गायन्स्वपंस्तिष्ठञ्च्छयानोऽदन्पिबन्नपि ॥

परितस्त्र्यक्षमैक्षिष्ट नान्यं भावं चिकेति सः

॥६०॥

क्षणदासु प्रसुप्तोपि क्व यासीति वदन्मुहुः ॥

क्षणं त्र्यक्ष प्रतीक्षस्व बुध्यतीति स बालकः

॥६१॥

स्पष्टां चेष्टां विलोक्येति हरिकेशस्य तत्पिता ॥

अशिक्षयत्सुतं सोऽथ गृहकर्मरतो भव

॥६२॥

एते तुरंगमा वत्स तवैतेऽश्वकिशो रकाः ॥

चित्राणीमानि वासांसि सुदुकूलान्यमूनि च

॥६३॥

रत्नान्याकरशुद्धानि नानाजातीन्यनेकशः ॥

कुप्यं बहुविधं चैतद्गोधनानि महांति च

॥६४॥

अमत्राणि महार्हाणि रौप्य कांस्यमयानि च ॥

पणनीयानि वस्तूनि नानादेशोद्भवान्यपि

॥६५॥

चामराणि विचित्राणि गंधद्रव्याण्यनेकशः ॥

एतान्यन्यानि बहुशस्त्वनेके धान्यराशयः

॥६६॥

एतत्त्वदीयं सकलंवस्तुजातं समंततः ॥

अर्थोपार्जनविद्याश्च सर्वाः शिक्षस्व पुत्रक

॥६७॥

चेष्टास्त्यज दरिद्राणां धूलिधूसरिणाममूः ॥

अभ्यस्यविद्याः सकला भोगान्निर्विश्य चोत्तमान्

॥६८॥

तां दशां चरमां प्राप्य भक्तियोगं ततश्चर ॥

असकृच्छिक्षितः पित्रेत्यवमन्य गुरोर्गिरम्

॥६९॥

रुष्टदृष्टिं च जनकं कदाचिदवलोक्य सः ॥

निर्जगाम गृहाद्भीतो हरिकेश उदारधीः

॥७०॥

ततश्चिंतामवापोच्चैर्दिग्भ्रांतिमपि चाप्तवान् ॥

अहो बालिशबुद्धित्वात्कुतस्त्यक्तं गृहं मया

॥७१॥

क्व यामि क्व स्थिते शंभो मम श्रेयो भविष्यति ॥

पित्रा निर्वासितश्चाहं न च वेद्म्यथ किंचन

॥७२॥

इति श्रुतं मया पूर्वं पितुरुत्संगवर्तिना ॥

गदतस्तातपुरतः कस्यचिद्वचनं स्फुटम्

॥७३॥

मात्रा पित्रा परित्यक्ता ये त्यक्ता निजबंधुभिः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥७४॥

जरया परिभूता ये ये व्याधिविकलीकृताः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥७५॥

पदे पदे समाक्रांता ये विपद्भिरहर्निशम् ॥

येषां क्वापि गतिर्नास्ति तेषांवाराणसी गतिः

॥७६॥

पापराशिभिराक्रांता ये दारिद्र्य पराजिताः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥७७॥

संसार भयभीताय ये ये बद्धाः कर्मबंधनैः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥७८॥

श्रुतिस्मृतिविहीना ये शौचाचारविवर्जिताः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥७९॥

ये च योगपरिभ्रष्टास्तपो दान विवर्जिताः ॥

येषां क्वापि गतिर्नास्ति तेषां वाराणसी गतिः

॥८०॥

मध्ये बंधुजने येषामपमानं पदे पदे ॥

तेषामानंददं चैकं शंभोरानंदकाननम्

॥८१॥

आनंदकानने येषां रुचिर्वै वसतां सताम् ॥

विश्वेशानुगृहीतानां तेषामानंदजोदयः

॥८२॥

भर्ज्यते कर्मबीजानि यत्र विश्वेशवह्निना ॥

अतो महाश्मशानं तदगतीनां परा गतिः

॥८३॥

हरिकेशो विचार्येति यातो वाराणसीं पुरीम् ॥

यत्राविमुक्ते जंतूनां त्यजतां पार्थिवीं तनुम्

॥८४॥

पुनर्नो तनुसंबंधस्तनुद्वेषिप्रसादतः ॥

आनंदवनमासाद्य स तपः शरणं गतः

॥८५॥

अथ कालांतरे शंभुः प्रविश्यानंदकानमम् ॥

पार्वत्यै दर्शयामास निजमाक्रीडकाननम्

॥८६॥

अमंदामोदमंदारं कोविदारपरिष्कृतम् ॥

चारुचंपकचूताढ्यं प्रोत्फुल्लनवमल्लिकम्

॥८७॥

विकसन्मालतीजालं करवीरविराजितम् ॥

प्रस्फुटत्केतकिवनं प्रोद्यत्कुरबकोर्जितम्

॥८८॥

जृंभद्विचकिलामोदं लसत्कंकेलिपल्लवम् ॥

नवमल्लीपरिमलाकृष्टषट्पदनादितम्

॥८९॥

पुष्प्यपुन्नागनिकरं बकुलामोदमोदितम् ॥

मेदस्विपाटलामोद सदामोदित दिङ्मुखम्

॥९०॥

बहुशोलंबिरोलंब मालामालितभूतलम् ॥

चलच्चंदनशाखाग्र रममाणपि काकुलम्

॥९१॥

गुरुणाऽगुरुणामत्त भद्रजातिविहंगमम् ॥

नागकेसरशाखास्थ शालभंजि विनोदितम्

॥९२॥

मेरुतुंग नमेरुस्थच्छायाक्रीडितकिंनरम् ॥

किंनरीमिथुनोद्गीतं गानवच्छुककिंशुकम्

॥९३॥

कदंबानां कदंबेषु गुंजद्रोलंबयुग्मकम् ॥

जितसौवर्णवर्णोच्च कर्णिकारविराजितम्

॥९४॥

शालतालतमालाली हिंताली लकुचावृतम् ॥

लसत्सप्तच्छदामोदं खर्जूरीराजिराजितम् ॥

नारिकेल तरुच्छन्न नारंगीरागरंजितम्

॥९५॥

फलिजंबीरनिकरं मधूकमधुपाकुलम् ॥

शाल्मली शीतलच्छायं पिचुमंद महावनम्

॥९६॥

मधुरामोद दमनच्छन्नं मरुबनोदितम् ॥

लवलीलोललीलाभृन्मंदमारुतलोलितम्

॥९७॥

भिल्ली हल्लीसकप्रीति झिल्लीरावविराविणम् ॥

क्वचित्सरः परिसरक्रीडत्क्रोडकदंबकम्

॥९८॥

मरालीगलनालीस्थ बिसासक्तसितच्छदम् ॥

विशोककोकमिथुनक्रीडाक्रेंकारसुंदरम्

॥९९॥

बकशावकसंचारं लक्ष्मणासक्त सारसम् ॥

मत्तबर्हिणसंघुष्टं कपिंजलकुलाकुलम्

॥१००॥

जीवंजीवलसज्जीवं क्वणत्कारंडवोत्कटम् ॥

दीर्घिकावारिसंचारि शीतमारुत वीजितम्

॥१॥

मदांदोलितकह्लार परागपरिपिंगलम् ॥

उल्लसत्पंकजमुखं नीलेंदीवरलोचनम्

॥२॥

तमालकबरीभारं विलसद्दाडिमीरदम् ॥

भ्रमरालीलसद्भ्रूकं शुकनासाविराजितम्

॥३॥

महांधुश्रवणं दूर्वा श्मश्रुभिः परिशोभितम् ॥

कमलामोदनिःश्वासं बिंबीफल रदच्छदम्

॥४॥

सुपद्मपत्रवसनं कर्णिकारविभूषणम् ॥

कम्रकंबु लसत्कंठं शंकरस्कंध बंधुरम्

॥५॥

गंधसारसमासक्ता हीन दोर्दंडमंडितम् ॥

अशोकपल्लवांगुष्ठं केतकीनखरोज्ज्वलम्

॥६॥

लसत्कंठीरवोरस्कं गंडशैलपृथूदरम् ॥

जलावर्तलसन्नाभि तरुजंघा युगान्वितम्

॥७॥

स्थलभाक्पद्मचरणं मत्तमातंगगामिनम् ॥

लसत्कदलिकेदारदलच्चीनांशुकावृतम्

॥८॥

नानासुकुममालाभिर्मालितं च समंततः ॥

अकंटकितरुच्छन्नं महिष श्वापदावृतम्

॥९॥

चंद्रकांतशिलासुप्तकृष्णैणहरितोडुपम् ॥

तरुप्रकीर्णकुसुम जितस्वर्लोकतारकम् ॥

दर्शयन्नित्थमाक्रीडं देव्यै देवोविशद्वनम्

॥११०॥

देवदेव उवाच

यथाप्रियतमा देवि मम त्वं सर्वसुंदरि ॥

तथा प्रियतरं चैतन्मे सदानंदकाननम्

॥११॥

अत्रानंदवने देवि मृतानां मदनुग्रहात् ॥

वपुस्त्वमृततां प्राप्तमपुनर्भविनस्तु ते

॥१२॥

भविनो ये विपद्यंते वाराणस्यां ममाज्ञया ॥

तेषां बीजानि दग्धानि श्मशानज्वलदग्निना

॥१३॥

महाश्मशाने ये प्राप्ता दीर्घनिद्रां गिरींद्रजे ॥

न पुनर्गर्भशयने ते स्वपंति कदाचन

॥१४॥

ब्रह्मज्ञानेन मुच्यंते नान्यथा जंतवः क्वचित् ॥

ब्रह्मज्ञानमये क्षेत्रे प्रयागे वा तनुत्यजः

॥१५॥

ब्रह्मज्ञानं तदेवाहं काशीसंस्थितिभागिनाम् ॥

दिशामि तारकं प्रांते मुच्यंते ते तु तत्क्षणात्

॥१६॥

गृह्णीयुः पापकर्माणि काशीमृतविनिंदकाः ॥

सुकृतानि स्तुतिकृतो मुच्यंते तेऽत्र जंतवः

॥१७॥

ब्रह्मज्ञानं कुतो देवि कलिनोपहतात्मनाम् ॥

स्वभावचंचलाक्षाणां तद्ब्रह्मेह दिशाम्यहम्

॥१८॥

योगिनो योगविभ्रष्टाः पतंत्यैश्वर्यमोहिताः ॥

काश्यां पतित्वा न पुनः पतंत्यपि महालये

॥१९॥

ब्रह्मज्ञानं न विंदंति योगैरेकेन जन्मना ॥

जन्मनैकेन मुच्यंते काश्यामंतकृतो जनाः

॥१२०॥

यथेह मुच्यते जंतुर्गिरिजे मदनुग्रहात् ॥

अविमुक्ते महाक्षेत्रे न तथान्यत्र कुत्रचित्

॥२१॥

बहुजन्मसमभ्यासाद्योगी मुच्येत वा न वा ॥

मृतमात्रो विमुच्येत काश्यामेकेन जन्मना

॥२२॥

न सिध्यति कलौ योगो न सिध्यति कलौ तपः ॥

न्यायार्जितधनोत्सर्गः सद्यः सिध्येत्कलौ नरः

॥२३॥

न व्रतं न तपो नेज्या न जपो न सुरार्चनम् ॥

दानमेव कलौ मुक्त्यै काशीदानैरवाप्यते

॥२४॥

कलौ विश्वेश्वरो देवः कलौ वाराणसी पुरी ॥

कलौ भागीरथी गंगा कलौ दानं विशिष्यते

॥२५॥

गंगोत्तरवहाकाश्यां लिंगं विश्वेश्वरं मम ॥

उभे विमुक्तिदे पुंसां प्राप्ये दानबलात्कलौ

॥२६॥

पुण्यवानितरो वापि मम क्षेत्रस्य सेवया ॥

मुक्तो भवति देवेशि नात्र कार्या विचारणा

॥२७॥

अविमुक्तस्य माहात्म्यात्पुण्यपापेन कर्मणा ॥

देवि प्रभवतः पुंसामपिजन्मशतार्जिते

॥२८॥

अविमुक्तं न मोक्तव्यं तस्माद्देवि मुमुक्षुणा ॥

हन्यमानेन बहुधा ह्युपसर्गशतैरपि

॥२९॥

विधाय क्षेत्रसंन्यासं ये वसंतीह मानवाः ॥

जीवन्मुक्तास्तु ते देवि तेषां विघ्नं हराम्यहम्

॥१३०॥

न योगिनां हृदाकाशे न कैलासे न मंदरे ॥

तथा वासरतिर्मेऽस्ति यथा काश्यां रतिर्मम

॥३१॥

काशीवासि जनो देवि मम गर्भे वसेत्सदा ॥

अतस्तं मोचयाम्यंते प्रतिज्ञेयं यतो मम

॥३२॥

तामसीं प्रकृतिं प्राप्य कालो भूत्वा चराचरम् ॥

ग्रसामि लीलया देवि काशीं रक्षामि यत्नतः

॥३३॥

प्रेमपात्रद्वयं देवि नितरां नेतरन्मम ॥

त्वं वा तपोधने गौरि काशी वानंदभूमिका

॥३४॥

विना काशी न मे स्थानं विना काशी न मे रतिः ॥

विना काशी न निर्वाणं सत्यं सत्यं वदाम्यहम्

॥३५॥

ब्रह्मांडगोलके यद्वन्मुक्तिः काश्यां व्यवस्थिता ॥

अष्टांगयोगयुक्त्या वा न तथा हेलयाऽन्यतः

॥३६॥

इति ब्रुवाणो देवेशो हरिकेशमवैक्षत ॥

मध्ये वनं तपस्यंतमशोकतरुमूलगम्

॥३७॥

शुष्कस्नायुपिनद्धास्थि संचयं निश्चलाकृतिम् ॥

वल्मीककीटकाकोटिशोषितासृगसृग्धरम्

॥३८॥

निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥

शंखकुंदेंदुतुहिन महाशंखलसच्छ्रियम्

॥३९॥

सत्वावलंबितप्राणमायुःशेषेणरक्षितम् ॥

निःश्वासोच्छासपवनवृत्तिसूचितजीवितम्

॥१४०॥

निमेषोन्मेषसंचार पिशुनीकृतजंतुकम् ॥

पिंगतारस्फुरद्रश्मि नेत्रदीपित दिङ्मुखम्

॥४१॥

तत्तपोग्निशिखादाव चुंबितम्लानकाननम् ॥

तत्सौम्यदृक्सुधावर्ष संसिक्ताऽखिलभूरुहम्

॥४२॥

साक्षात्तपस्यंतमिव तपो धृत्वा नराकृतिम् ॥

निराकृतिं निराकांक्षं कृत्वा भक्तिं च कांचन

॥४३॥

कुरंगशावैर्गणशो भ्रमद्भिः परिवारितम् ॥

नितांतभीषणास्यैश्च पंचास्यैः परिरक्षितम्

॥४४॥

तं तथाभूतमालोक्य देवी देवं व्यजिज्ञपत् ॥

वरेणच्छंदयेशामुं निजभक्तं तपस्विनम्

॥४५॥

त्वदेकचित्तं त्वदधीनजीवितं त्वदेककर्माणममुं त्वदाश्रयम् ॥

तीव्रैस्तपोभिः परिशुष्कविग्रहं कुरुष्व यक्षस्य वरैरनुग्रहम्

॥४६॥

देवो वृषेंद्रादवरुह्य देव्या शैलादिना दत्तकरावलंबः ॥

समाधिसंकोचितनेत्रपत्रं पस्पर्श हस्तेन दयार्द्रचेताः

॥४७॥

ततः स यक्षो विनिमील्य चक्षुषी त्र्यक्षं पुरो वीक्ष्य समक्षमात्मनः ॥

उद्यत्सहस्रांशु सहस्रतेजसं जगाद हर्षाकुल गद्गदाक्षरम्

॥४८॥

जयेश शंभो गिरिजेश शंकर त्रिशूलपाणे शशिखंडशेखर ॥

स्पर्शत्कृपालो तव पाणिपंकजं प्राप्यामृतीभूततनूलतोऽभवम्

॥४९॥

श्रुत्वोदितां तस्य महेश्वरो गिरं मृद्वीकया साम्यमुपेयुषीं मृदु ॥

भक्तस्य धीरस्य महातपोनिधे ददौ वराणां निकर तदा मुदा

॥१५०॥

क्षेत्रस्य यक्षास्य मम प्रियस्य मे भवाधुना दंडधरो वरान्मम ॥

स्थिरस्त्वमद्यादि दुरात्मदंडकः सुपालकः पुण्यकृतां च मत्प्रियः

॥५१॥

त्वं दंडपाणिर्भव नामतोऽधुना सर्वान्गणाञ्छाधि ममाज्ञयोत्कटान् ॥

गणाविमौ त्वामनुयायिनौ सदा नाम्ना यथार्थौ नृषु संभ्रमोद्भ्रमौ

॥५२॥

त्वमंत्यभूषां कुरु काशिवासिनां गले सुनीलां भुजगेंद्र कंकणाम् ॥

भालेसु नेत्रां करिकृत्तिवाससं वामेक्षणालक्षित वामभागाम्

॥५३॥

मौलौ लसत्पिंगकपर्दभारिणी विभूतिसंक्षालित पुण्यविग्रहाम् ॥

अहोहिमांशोः कलया लसच्छ्रियं वृषेंद्रलीला गतिमंदगामिनीम्

॥५४॥

त्वमन्नदः काशिनिवासिनां सदा त्वं प्राणदो ज्ञानद एक एव हि ॥

त्वं मोक्षदो मन्मुखसूपदेशतस्त्वं निश्चलां सद्वसतिं विधास्यसि

॥५५॥

त्वं विघ्नपूगैः परिपीड्य पापिनः संभ्रातिमुत्पाद्य विनेष्यसे बहिः ॥

आनीय भक्तान्क्षणतोपिदूरतो मुक्तिं परां दापयितासि पिंगल

॥५६॥

त्वत्सात्कृते क्षेत्रवरे हि यक्षराट्कस्त्वामनाराध्य विमुक्तिभाजनम् ॥

सभाजनं पूर्वत एव ते चरेत्ततः समर्चां मम भक्त आचरेत्

॥५७॥

त्वं ग्रामवासप्रद एव मे पुरेऽध्यक्षस्त्वमेधीह च दंडनायकः ॥

दुष्टान्समुद्घाटय काशिवैरिणः काशीं पुरीं रक्ष सदा मुदान्वितः

॥५८॥

पूर्णभद्रसुतदंडनायक त्र्यक्षयक्षहरिकेश पिंगल ॥

काशिवास वसतां सदान्नदज्ञानमोक्षदगणाग्रणीर्भव

॥५९॥

मद्भक्तियुक्तोपि विना त्वदीयां भक्तिं न काशी वसतिं लभेत ॥

गणेषु देवेषु हि मानवेषु तदग्रमान्यो भव दंडपाणे

॥१६०॥

ज्ञानोदतीर्थे विहितोदकक्रियो यस्त्वां समाराधयिता गणेशम् ॥

स एव लोके कृतकृत्यतामगान्ममातुलानुग्रहतोऽत्र पुण्यवान्

॥६१॥

त्वं दक्षिणस्यां दिशि दंडपाणे सदैव मे नेत्रसमक्षमत्र ॥

त्वं दंडयन्प्राणभृतो दुरीहानिहास्वनॄन्स्वानभयं दिशन्वै

॥६२॥

स्कंद उवाच

इति दत्त्वा वरान्विप्र गिरीशो दंडपाणये ॥

वृषेंद्रमधिरुह्याथ विवेशानंदकाननम्

॥६३॥

कुंभोद्भव तदारभ्य यक्षराड्दंडनायकः ॥

पुरीं वाराणसीं सम्यगनुशास्ति निदेशतः

॥६४॥

अहमप्यत्र वसतिं चक्रे तदनुसूयया ॥

वसन्नपि मया काश्यां यतः संभावितो न सः

॥६९॥

मुने क्षेत्रं यदत्याक्षीस्त्वमप्येवंविधो वशी ॥

शंके तत्राहमेवाद्धा कामं तस्यैव विक्रियाम्

॥६६॥

मनाग्विरुद्धाचरणं यदि द्विज विलक्षयेत् ॥

हरिकेशस्तदा काश्यां क्व स्थितिः क्व च निर्वृतिः

॥६७॥

दंडपाणिमनाराध्य कः काश्यां सुखमाप्नुयात् ॥

प्रविविक्षुरहं काशीं दूरगोपि भजामि तम्

॥६८॥

रत्नभद्रांगजोद्भूतं पूर्णभद्रसुतोत्तम ॥

निर्विघ्नं कुरु मे यक्ष काशीवासं शिवाप्तये

॥६९॥

धन्यो यक्षः पूर्णभद्रो धन्या कांचनकुंडला ॥

ययोर्जठरपीठेभूर्दंडपाणे महामते

॥१७०॥

जय यक्षपते धीर जय पिंगललोचन ॥

जय पिंगजटाभार जय दंड महायुध

॥७१॥

अविमुक्त महाक्षेत्र सूत्रधारोग्रतापस ॥

दंडनायक भीमास्य जय विश्वेश्वरप्रिय

॥७२॥

सौम्यानां सौम्यवदन भीषणानां भयानक ॥

क्षेत्रपापधियां काल महाकालमहाप्रिय

॥७३॥

जयप्राणद यक्षेंद्र काशीवासान्नमोक्षद ॥

महारत्नस्फुरद्रश्मि चयचर्चित विग्रह

॥७४॥

महासंभ्रातिजनक महोद्भ्रांति प्रदायक ॥

अभक्तानां च भक्तानां संभ्रात्युद्भ्रांति नाशक

॥७५॥

प्रांतनेपथ्यचतुर जयज्ञाननिधिप्रद ॥

जयगौरीपदाब्जाले मोक्षेक्षणविचक्षण

॥७६॥

यक्षराजाष्टकं पुण्यमिदं नित्यं त्रिकालतः ॥

जपामि मैत्रावरुणे वाराणस्याप्तिकारणम्

॥७७॥

दंडपाण्यष्टकं धीमाञ्जपन्विघ्नैर्न जातुचित् ॥

श्रद्धया परिभूयेत काशीवासफलं लभेत

॥७८॥

प्रादुर्भावं दंडपाणेः शृण्वन्तोत्रमिदं गृणन् ॥

विपत्तिमन्यतः प्राप्य काशीं जन्मांतरे लभेत्

॥७९॥

श्रुत्वाध्यायमिमं पुण्यं दंडपाणिसमुद्भवम् ॥

पठित्वा पाठयित्वापि न र्विघ्रैरभिभूयतै

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दंडपाणिप्रादुर्भावो नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥