स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा
नन्दीश्वर उवाच
स्नानं स विधिवत्कृत्वा न्यासादि विधिवत्तथा ।
ध्यानं शिवस्य सद्भक्त्या व्यासोक्तं यत्तथाऽकरोत्
॥१॥एकपादतलेनैव तिष्ठन्मुनिवरो यथा ।
सूर्य्ये दृष्टिं निबध्यैकां मंत्रमावर्तयन्स्थितः
॥२॥तपस्तेपेति संप्रीत्या संस्मरन्मनसा शिवम् ।
पंचाक्षरं मनुं शंभोर्जपन्सर्वो त्तमोत्तमम्
॥३॥तपसस्तेज एवासीद्यथा देवा विसिस्मियुः ।
पुनश्चैव शिवं याताः प्रत्यूचुस्ते समाहिताः
॥४॥देवा ऊचुः
नरेणैकेन सर्वेश त्वदर्थे तप आहितम् ।
यदिच्छति नरस्सोयं किन्न यच्छति तत्प्रभो
॥५॥नन्दीश्वर उवाच
इत्युक्त्वा तु स्तुतिं चकुर्विविधान्ते तदा सुराः ।
तत्पादयोर्दृशः कृत्वा तत्र तस्थुः स्थिराधयः
॥६॥शिवस्तु तद्वचः श्रुत्वा महाप्रभुरुदारघीः ।
सुविहस्य प्रसन्नात्मा सुरान्वचनमब्रवीत्
॥७॥शिव उवाच
स्वस्थानं गच्छत सुराः सर्वे सत्यन्न संशयः सर्वथाहं करिष्यामि कार्यं वो नात्र संशय
॥८॥नंदीश्वर उवाच
तच्छ्रुत्वा शंभुवचनन्निश्चयं परमं गताः ।
परावृत्य गताः सर्वे स्वस्वथानं ते हि निर्जराः
॥९॥एतस्मिन्नंतरे दैत्यो मूकनामागतस्तदा ।
सौकरं रूपमास्थाय प्रेषितश्च दुरात्मना
॥१०॥दुर्योधनेन विप्रेंद्र मायिना चार्जुनं तदा ।
यत्रार्जुनस्थितश्चासीत्तेन मार्गेण वै तदा
॥११॥शृङ्गाणि पर्वतस्यैव च्छिन्दन्वृक्षाननेकशः ।
शब्दं च विविधं कुर्व न्नतिवेगेन संयुतः
॥१२॥अजुनोपि च तं दृष्ट्वा मूकनामासुरं तदा ।
स्मृत्वा शिवपदांभोजं विचारे तत्परोऽभवत्
॥१३॥अर्जुन उवाच
कोयं वा कुत आयाति क्रूरकर्मा च दृश्यते ।
ममानिष्टं ध्रुवं कर्तुं समागच्छत्यसंशयम्
॥१४॥ममैवं मन आयाति शत्रुरेव न संशयः ।
मया विनिहताः पूर्वमनेके दैत्यदानवाः
॥१५॥तदीयः कश्चिदायाति वैरं साधयितुम्पुनः ।
अथवा च सखा कश्चिद्दुर्योधनहितावहः
॥१६॥यस्मिन्दृष्टे प्रसीदेत्स्वं मनः स हितकृद्ध्रुवम् ।
यस्मिन्दृष्टे तदेव स्यादाकुलं शत्रुरेव सः
॥१७॥आचारः कुलमाख्याति वपुराख्याति भोजनम् ।
वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनम्
॥१८॥आकारेण तथा गत्या चेष्टया भाषितैरपि ।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः
॥१९॥उज्ज्वलं सरसञ्चैव वक्रमारक्त कन्तथा ।
नेत्रं चतुर्विधं प्रोक्तं तस्य भावं पृथग्बुधाः
॥२०॥उज्ज्वलं मित्रसंयोगे सरसम्पुत्रदर्शने ।
वक्रं च कामिनीयोगे आरक्तं शत्रुदर्शने
॥२१॥अस्मिन्मम तु सर्वाणि कलुषानीन्द्रियाणि च ।
अयं शत्रुर्भवेदेव मारणीयो न संशयः
॥२२॥गुरोश्च वचनं मेद्य वर्तते दुःखदस्त्वया ।
हन्तव्यः सर्वथा राजन्नात्र कार्या विचारणा
॥२३॥एतदर्थं त्वायुधानि मम चैव न संशयः ।
विचार्य्येति च तत्रैव बाणं संस्थाय संस्थितः
॥२४॥एतस्मिन्नन्तरे तत्र रक्षार्थं ह्यर्जुनस्य वै ।
तद्भक्तेश्च परीक्षार्थं शंकरो भक्तवत्सलः
॥२५॥विदग्धभिल्लरूपं हि गणैः सार्ध महाद्भुतम् ।
तस्य दैत्यस्य नाशार्थं द्रुतं कृत्वा समागतः
॥२६॥बद्धकच्छश्च वस्त्रीभिर्वद्धेशानध्वजस्तदा ।
शरीरे श्वेतरेखाश्च धनुर्बाणयुतः स्वयम्
॥२७॥बाणानान्तूणकं पृष्ठे धृत्वा वै स जगाम ह ।
गणश्चैव तथा जातो भिल्लराजोऽभवच्छिवः
॥२८॥शब्दांश्च विविधान्कृत्वा निर्ययौ वाहिनीपतिः ।
सूकरस्य ससाराथ शब्दश्च प्रदिशो दश
॥२९॥वनेचरेण शब्देन व्याकुलश्चार्जुनस्तदा ।
पर्वताद्याश्च तैश्शब्दैस्ते सर्वे व्याकुलास्तदा
॥३०॥अहो किन्नु भवेदेष शिवः शुभकरस्त्विह ।
मया चैव श्रुतम्पूर्वं कृष्णेन कथितम्पुनः
॥३१॥व्यासेन कथितं चैवं स्मृत्वा देवै स्तथा पुनः ।
शिवः शुभकरः प्रोक्तः शिवः सुखकरस्तथा
॥३२॥मुक्तिदश्च स्वयं प्रोक्तो मुक्तिदानान्न संशयः ।
तन्नामस्मरणात्पुंसां कल्याणं जायते धुवम्
॥३३॥भजतां सर्वभावेन दुःखं स्वप्नेऽपि नो भवेत् ।
यदा कदाचिज्जायेत तदा कर्मसमुद्भवम्
॥३४॥तदेतद्बह्वपि ज्ञेयं नूनमल्पं न संशयः ।
प्रारब्धस्याथ वा दोषो नूनं ज्ञेयो विशेषतः
॥३५॥अथ वा बहु चाल्पं हि भोग्यं निस्तीर्य शंकरः ।
कदाचिदिच्छया तस्य दूरीकुर्य्यान्न संशयः
॥३६॥विषं चैवामृतं कुर्यादमृतं विषमेव वा ।
यदिच्छति करोत्येव समर्थः किन्निषिध्यते
॥३७॥इत्थं विचार्य्यमाणेऽपि भक्तैरन्यैः पुरातनैः ।
भाविभिश्च सदा भक्तैरिहानीय मनः स्थिरम्
॥३८॥लक्ष्मीर्गच्छेच्चावतिष्ठेन्मरणं निकटे पुरः ।
निन्दां वाथ प्रकुर्वन्तु स्तुतिं वा दुःखसंक्षयम्
॥३९॥जयते पुण्यपापाभ्यां शंकरस्सुखदः सदा ।
कदाचिच्च परीक्षार्थं दुःखं यच्छति वै शिवः
॥४०॥अंते च सुखदः प्रोक्तो दयालुत्वान्न संशयः ।
यथा चैव सुवर्णं च शोधि तं शुद्धतां व्रजेत्
॥४१॥एवं चैवं मया पूर्वं श्रुतं मुनिमुखात्तथा ।
अतस्तद्भजनेनैव लप्स्येऽहं सुखमुत्तमम्
॥४२॥इत्येवन्तु विचारं स करोति यावदेव हि ।
तावच्च सूकरः प्राप्तो बाणसंमोचनावधिः
॥४३॥शिवोपि पृष्ठतो लग्नो ह्यायातः शूकरस्य हि ।
तयोर्मध्ये तदा सोयं दृश्यते शृंगमद्भुतम्
॥४४॥तस्य प्रोक्तं च माहात्म्यं शिवः शीघ्रतरं गतः ।
अर्जुनस्य च रक्षार्थं शंकरो भक्तव त्सलः
॥४५॥एतस्मिन्समये ताभ्यां कृतं बाणविमोचनम् ।
शिवबाणस्तु पुच्छे वै ह्यर्जुनस्य मुखे तथा
॥४६॥शिवस्य पुच्छतो गत्वा मुखान्निस्सृत्य शीघ्रतः ।
भूमौ विलीनः संयातस्तस्य वै पुच्छतो गतः
॥४७॥पपात पार्श्वतश्चैव बाणश्चैवार्जुनस्य च ।
सूकरस्तत्क्षणं दैत्यो मृतो भूमौ पपात ह
॥४८॥देवा हर्षं परम्प्रापुः पुष्पवृष्टिं च चक्रिरे ।
जयपूर्व स्तुतिकराः प्रणम्य च पुनःपुनः
॥४९॥शिवस्तुष्टमना आसीदर्जुनः सुखमागतः ।
दैत्यस्य च तदा दृष्ट्वा क्रररूपं च तौ तदा
॥५०॥अर्जुनस्तु विशेषेण सुखिना प्राह चेतसा ।
अहो दैत्यवरश्चायं रूपं तु परमाद्भुतम्
॥५१॥कृत्वागतो मद्वधार्थैं शिवेनाहं सुरक्षितः ।
ईश्वरेण ममाद्यैव बुद्धिर्दत्ता न संशयः
॥५२॥विचार्य्येत्यर्जुनस्तत्र जगौ शिवशिवेति च ।
प्रणनाम शिवं भूयस्तुष्टाव च पुनः पुनः
॥५३॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां किरातावतारवर्णने मूकदैत्यवधोनामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥