मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३५

3
शतरुद्रसंहिता · 35

साधुद्विजशिवावतारवर्णनम्

नन्दीश्वर उवाच

सनत्कुमार सर्वज्ञ शिवस्य परमात्मनः ।

अवतारं शृणु विभोस्साधुवेषद्विजाह्वयम्

॥१॥

मेनाहिमालयोर्भक्तिं शिवे ज्ञात्वा महोत्तमाम् ।

चिन्तामापुस्तुरास्सर्वे मन्त्रयामासुरादरात्

॥२॥

एकान्तभक्त्या शैलश्चेत्कन्यां दास्यति शम्भवे ।

ध्रुवं निर्वाणतां सद्यः सम्प्राप्स्यति शिवस्य वै

॥३॥

अनन्तरत्नाधारोऽसौ चेत्प्रयास्यति मोक्षताम् ।

रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम्

॥४॥

अस्थिरत्वम्परित्यज्य दिव्यरूपं विधाय सः ।

कन्यां शूलभृते दत्त्वा शिवालोकं गमिष्यति

॥५॥

महादेवस्य सारूप्यं प्राप्य शम्भोरनुग्रहात् ।

तत्र भुक्त्वा महाभोगांस्ततो मोक्षमवाप्स्यति

॥६॥

इत्यालोच्य सुरास्सर्वे जग्मुर्गुरुगृहं मुने ।

चक्रुर्निवेदनं गत्वा गुरवे स्वार्थसाधकाः

॥७॥

देवा ऊचुः

गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ।

कृत्वा निंदां महेशस्य गिरिभक्तिं निवारय

॥८॥

स्वश्रद्धया सुतां दत्त्वा शिवाय स गिरिर्गुरो ।

लभेत मुक्तिमत्रैव धरण्यां स हि तिष्ठतु

॥९॥

इति देववचः श्रुत्वा प्रोवाच च विचार्य्य तान्

॥१०॥

गुरुरुवाच

कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ।

सम्पादयेत्स्वाभिमतमहं तत्कर्तुमक्षमः

॥११॥

अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ।

तस्मै वृत्तं कथय स्वं स वः कार्यं करिष्यति

॥१२॥

नन्दीश्वर उवाच

तच्छ्रुत्वा ते समालोच्य जग्मुर्विधिसभां सुराः ।

सर्वं निवेदयामासुस्तद्वृत्तं पुरतो विधेः

॥१३॥

अवोचत्तान्विधिः श्रुत्वा तद्वचः सुविचिंत्य वै ।

नाहं करिष्ये तन्निंदां दुःखदां कहरां सदा

॥१४॥

सुरा गच्छत कैलासं संतोषयत शङ्करम् ।

प्रस्थापयत तं देवं हिमालयगृहं प्रति

॥१५॥

स गच्छेदथ शैलेशमात्मनिन्दां करोतु वै ।

परनिन्दा विनाशाय स्वनिन्दा यशसे मता

॥१६॥

नन्दीश्वर उवाच

ततस्ते प्रययुः शीघ्रं कैलासं निखिलास्सुराः ।

सुप्रणम्य शिवं भक्त्या तद्द्रुतं निखिला जगुः

॥१७॥

तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ।

देवान्सुयापयामास तानाश्वास्य विहस्य सः

॥१८॥

ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ।

गन्तुमैच्छच्छैलमूलं मायेशो न विकारवान्

॥१९॥

दण्डी छत्री दिब्यवासा बिभ्रत्तिलकमुज्ज्वलम् ।

करे स्फटिकमालां च शालग्रामं गले दधत्

॥२०॥

जपन्नाम हरेर्भक्त्या साधुवेषधरो द्विजः ।

हिमाचलं जगामाशु बन्धुवर्गेस्समन्वितम्

॥२१॥

तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ।

ननाम दण्डवद्भूमौ साष्टाङ्गं विधिपूर्वकम्

॥२२॥

ततः पप्रच्छ शैलेशस्तं द्विजं को भवानिति ।

उवाच शीघ्रं विप्रेन्द्रस्स योग्यद्रिम्महादरात्

॥२३॥

साधुद्विज उवाच

साधु द्विजाह्वः शैलाहं वैष्णवः परमार्थदृक् ।

परोपकारी सर्वज्ञः सर्वगामी गुरोर्बलात्

॥२४॥

मया ज्ञातं स्वविज्ञानात्स्वस्थाने शैलसत्तम ।

तच्छृणु प्रीतितो वच्मि हित्वा दम्भन्तवांतिकम्

॥२५॥

शङ्कराय सुतान्दातुन्त्वमिच्छसि निजोद्भवाम् ।

इमाम्पद्मासमां रम्यामज्ञातकुलशीलिने

॥२६॥

इयं मतिस्ते शैलेन्द्र न युक्ता मङ्गलप्रदा ।

निबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव

॥२७॥

पश्य शैलाधिपत्वं च न तस्यैकोऽस्ति बान्धवः ।

बान्धवान्स्वान्प्रयत्नेन पृच्छ मेनां च स्वप्रियाम्

॥२८॥

सर्वान्संपृच्छ यत्नेन मेनादीन्पा र्वती विना ।

रोगिणे नौषधं शैल कुपथ्यं रोचते सदा

॥२९॥

न ते पात्रानुरूपश्च पार्वतीदानकर्म्मणि ।

महाजनः स्मेरमुखः श्रुति मात्राद्भविष्यति

॥३०॥

निराश्रयस्सदासङ्गो विरूपो निगुर्णोऽव्ययः ।

स्मशानवासी विकटो व्यालग्राही दिगम्बरः

॥३१॥

विभूतिभूषणो व्यालवरावेष्टितमस्तकः ।

सर्वाश्रमपरिभ्रष्टस्त्वविज्ञातगतिस्सदा

॥३२॥

ब्रह्मोवाच

इत्याद्युक्त्वा वचस्तथ्यं शिवनिन्दापरं स हि ।

जगाम स्वालयं शीघ्रन्नाना लीलाकरः शिवः

॥३३॥

तच्छ्रुत्वा विप्रवचनमभूताञ्च तनू तयोः ।

विपरीतानर्थपरे किं करिष्यावहे ध्रुवम्

॥३४॥

ततो रुद्रो महोतिं च कृत्वा भक्तमुदावहाम् ।

विवाहयित्वा गिरिजां देवकार्य्यं चकार सः

॥३५॥

इति प्रोक्तस्तु ते तात साधुवेषो द्विजाह्वयः ।

शिवावतारो हि मया देवकार्य्यकरः प्रभो

॥३६॥

इदमाख्यानमनघं स्वर्ग्यमायुष्यमुत्तमम् ।

यः पठेच्छृणुयाद्वापि स सुखी गतिमाप्नुयात्

॥३७॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां साधुद्विजशिवावतारवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

षडशीत्यवताराः ( ८६)