मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३

3
शतरुद्रसंहिता · 3

शिवस्यार्द्धनारीनरावतारवर्णनम्

नन्दीश्वर उवाच

शृणु तात महाप्राज्ञ विधिकामप्रपूरकम् ।

अर्द्धनारीनराख्यं हि शिवरूपमनुत्तमम्

॥१॥

यदा सृष्टाः प्रजा सर्वाः न व्यवर्द्धंत वेधसा ।

तदा चिंताकुलोऽभूत्स तेन दुःखेन दुखितः

॥२॥

नभोवाणी तदाभूद्वै सृष्टिं मिथुनजां कुरु ।

तच्छ्रुत्वा मैथुनीं सृष्टिं ब्रह्मा कर्तुममन्यत

॥३॥

नारीणां कुलमीशानान्निर्गतं न पुरा यतः ।

ततो मैथुनजां सृष्टिं कर्तुं शेके न पद्मभूः

॥४॥

प्रभावेण विना शंभोर्न जायेरन्निमाः प्रजाः ।

एवं संचिन्तयन्ब्रह्मा तपः कर्त्तुं प्रचक्रमे

॥५॥

शिवया परया शक्त्या संयुक्तं परमेश्वरम् ।

संचिंत्य हृदये प्रीत्या तेपे स परमं तपः

॥६॥

तीव्रेण तपसा तस्य संयुक्तस्य स्वयंभुवः ।

अचिरेणैव कालेन तुतोष स शिवो द्रुतम्

॥७॥

ततः पूर्णचिदीशस्य मूर्तिमाविश्य कामदाम् ।

अर्द्धनारीनरो भूत्वा ततो ब्रह्मान्तिकं हरः

॥८॥

तं दृष्ट्वा शंकरं देवं शक्त्या प्ररमयान्वितम् ।

प्रणम्य दण्डवद्ब्रह्मा स तुष्टाव कृताञ्जलिः

॥९॥

अथ देवो महादेवो वाचा मेघगभीरया ।

संभवाय सुसंप्रीतो विश्वकर्त्ता महेश्वरः

॥१०॥

ईश्वर उवाच

वत्सवत्स महाभाग मम पुत्र पितामह ।

ज्ञातवानस्मि सर्व तत्तत्त्वतस्ते मनोरथ

॥११॥

प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।

तपसा तेन तुष्टोऽस्मि ददामि च तवेप्सितम्

॥१२॥

इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ।

पृथक्चकार वपुषो भागाद्देवीं शिवां शिवः

॥१३॥

तां दृष्ट्वा परमां शक्तिं पृथग्भूतां शिवागताम् ।

प्रणिपत्य विनीतात्मा प्रार्थयामास तां विधिः

॥१४॥

ब्रह्मोवाच

देवदेवेन सृष्टोहमादौ त्वत्पतिना शिवे ।

प्रजाः सर्वा नियुक्ताश्च शंभुना परमात्मना

॥१५॥

मनसा निर्मिताः सर्वे शिवे देवादयो मया ।

न वृद्धिमुपगच्छंति सृज्यमानाः पुनःपुनः

॥१६॥

मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।

संवर्द्धयितुमिच्छामि सर्वा एव मम प्रजाः

॥१७॥

न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।

तेन नारीकुलं श्रेष्ठं मम शक्तिर्न विद्यते

॥१८॥

सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।

तस्मात्त्वं परमां शक्तिं प्रार्थयाम्यखिलेश्वरीम्

॥१९॥

शिवे नारीकुलं स्रष्टुं शक्तिं देहि नमोऽस्तु ते ।

चराचरं जगद्विद्धि हेतोर्मातः शिवं प्रिये

॥२०॥

अन्यं त्वत्तः प्रार्थयामि वरं च वरदेश्वरि ।

देहि मे तं कृपां कृत्वा जगन्मातर्नमोऽस्तु ते

॥२१॥

चराचरविवृद्ध्यर्थमीशेनैकेन सर्वगे ।

दक्षस्य मम पुत्रस्य पुत्री भव भवाम्बिके

॥२२॥

एवं संयाचिता देवी ब्रह्मणा परमेश्वरी ।

तथास्त्विति वचः प्रोच्य तच्छक्तिं विधये ददौ

॥२३॥

तस्माद्धि सा शिवा देवी शिवशक्तिर्जगन्मयी ।

शक्तिमेकां भ्रुवोर्मध्यात्ससर्जात्मसमप्रभाम्

॥२४॥

तामाह प्रहसन्प्रेक्ष्य शक्तिं देववरो हरः ।

कृपासिन्धुर्महेशानो लीलाकारी भवाम्बिकाम्

॥२५॥

शिव उवाच

तपसाराधिता देवि ब्रह्मणा परमेष्ठिना ।

प्रसन्ना भव सुप्रीत्या कुरु तस्याखिलेप्सितम्

॥२६॥

तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ।

ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताभवत्

॥२७॥

दत्त्वैवमतुलां शक्तिं ब्रह्मणो सा शिवा मुने ।

विवेश देहं शंभोर्हि शंभुश्चान्तर्दधे प्रभुः

॥२८॥

तदाप्रभृति लोकेऽस्मिन्स्त्रिया भागः प्रकल्पितः ।

आनन्दं प्राप स विधिः सृष्टिर्जाता च मैथुनी

॥२९॥

एतत्ते कथितं तात शिवरूपं महोत्तमम् ।

अर्द्धनारीनरार्द्धं हि महामंगलदं सताम्

॥३०॥

एतदाख्यानमनघं यः पठ्च्छृणुयादपि ।

स भुक्त्वा सकलान्भोगान्प्रयाति परमां गतिम्

॥३१॥

इति श्रीशिवमहापुराणे तृतीयायां रुद्रसंहितायां शिवस्यार्द्धनारीनरावतारवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥