मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — शतरुद्रसंहिता, अध्याय ३०

3
शतरुद्रसंहिता · 30

अवधूतेश्वरशिवावतारचरित्रवर्णनम्

नन्दीश्वर उवाच

शृणु त्वं ब्रह्मपुत्राद्यावतारं परमेशितुः ।

अवधूतेश्वराह्वं वै शक्रगर्वापहारकम्

॥१॥

शक्रः पुरा हि सगुरुः सर्वदेवसमन्वितः ।

दर्शनं कर्तुमीशस्य कैलासमगमन्मुने

॥२॥

अथ गुर्विन्द्रयोर्ज्ञात्वागमनं शंकरस्तयोः ।

परीक्षितुं च तद्भावं स्वदर्शनरतात्मनोः

॥३॥

अवधूतस्वरूपोऽभून्नानालीलाकरः प्रभुः ।

दिगंबरो महाभीमो ज्वलदग्निसमप्रभः ।

सोऽवधूतस्वरूपो हि मार्गमारुद्ध्य सद्गतिः ।

लंबमानपटः शंभुरतिष्ठच्छोभिताकृतिः

॥५॥

अथ तौ गुरुशक्रौ च गच्छन्तौ शिव सन्निधिम् ।

अद्राष्टांपुरुषं भीमं मार्गमध्येऽद्भुताकृतिम्

॥६॥

अथ शक्रो मुनेऽपृच्छत्स्वाधिकारेण दुर्मदः ।

पुरुषं तं स्वमार्गान्तः स्थितमज्ञाय शंकरम्

॥७॥

शक्र उवाच

कस्त्वं दिगंबराकारावधूतः कुत आगतः ।

किन्नाम तव विख्यातं तत्त्वतो वद मेऽचिरम्

॥८॥

स्वस्थाने संस्थितः शंभुः किम्वान्यत्र गतोऽधुना ।

दर्शनार्थं हि तस्याहं गच्छामि सगुरुस्सुरैः

॥९॥

नन्दीश्वर उवाच

शक्रेणेत्थं स पृष्टश्च किंचिन्नोवाच पूरुषः ।

लीलागृहीतदेहस्स शङ्करो मदहा प्रभुः

॥१०॥

शक्रः पुनरपृच्छत्तं नोवाच स दिगंबरः ।

अविज्ञातगतिश्शम्भुर्महाकौतुककारकः

॥११॥

पुनः पुरन्दरोऽपृच्छ्त्त्रैलोक्याधिपतिस्स्वराट् ।

तूष्णीमास महायोगी महालीलाकरस्स वै

॥१२॥

इत्थं पुनः पुनः पृष्टः शक्रेण स दिगम्बरः ।

नोवाच किंचिद्भगवाञ्शक्रदर्प्पजिघांसया

॥१३॥

अथ चुक्रोध देवेशस्त्रैलोक्यैश्वर्य्यगर्वितः ।

उवाच वचनं क्रोधात्तं निर्भर्त्स्य जटाधरम्

॥१४॥

इन्द्र उवाच

पृच्छमानोऽपि रे मूढ नोत्तरं दत्तवानसि ।

अतस्त्वां हन्मि वज्रेण कस्ते त्रातास्ति दुर्मते

॥१५॥

इत्युदीर्य्य ततो वज्री संनिरीक्ष्य क्रुधा हि तम् ।

हन्तुन्दिगम्बरं वज्रमुद्यतं स चकार ह

॥१६॥

वज्रहस्तं च तं दृष्ट्वा शक्रं शीघ्रं सदाशिवः ।

चकार स्तम्भनं तस्य वज्रपातस्य शंकरः

॥१७॥

ततः स पुरुषः कुद्धः करालाक्षो भयंकरः ।

द्रुतमेव प्रजज्वाल तेजसा प्रदहन्निव

॥१८॥

बाहुप्रतिष्टम्भभुवा मन्युनान्तश्शचीपतिः ।

समदह्यत भोगीव मंत्ररुद्धपराक्रमः

॥१९॥

दृष्ट्वा वृहस्पतिस्त्वेनम्प्रज्वलन्तं स्वतेजसा ।

पुरुषं तं धियामास प्रणनाम हरं द्रुतम्

॥२०॥

कृताञ्जलिपुटो भूत्वा ततो गुरुरुदारधीः ।

दण्डवत्कौ पुनर्नत्वा प्रभुं तुष्टाव भक्तितः

॥२१॥

गुरुरुवाच

देवदेव महादेव शरणागतवत्सल ।

प्रसन्नो भव गौरीश सर्वेश्वर नमोऽस्तु ते

॥२२॥

मायया मोहितास्सर्वे ब्रह्मविष्ण्वादयोपि ते ।

त्वां न जानन्ति तत्त्वेन जानन्ति त्वदनुग्रहात्

॥२३॥

नन्दीश्वर उवाच

बृहस्पतिरिति स्तुत्वा स तदा शंकरम्प्रभुम् ।

पादयोः पातयामास तस्येशस्य पुरन्दरम्

॥२४॥

ततस्तात सुराचार्य्यः कृताञ्जलिरुदारधीः ।

बृहस्पतिरुवाचेदं प्रश्रयावनतः सुधीः

॥२५॥

बृहस्पतिरुवाच

दीननाथ महादेव प्रणतन्तव पादयोः ।

समुद्धर च मां तत्त्वं क्रोधं न प्रणयं कुरु

॥२६॥

तुष्टो भव महादेव पाहीन्द्रं शरणागतम् ।

वह्निरेष समायाति भालनेत्रसमुद्भवः

॥२७॥

नन्दीश्वर उवाच

इत्याकर्ण्य गुरोर्वाक्यमवधूताकृतिः प्रभुः ।

उवाच करुणासिंधुर्विहसन्स सदूतिकृत्

॥२८॥

अवधूत उवाच

क्रोधाच्च निस्सृतन्तेजो धारयामि स्वनेत्रतः ।

कथं हि कंचुकीं सर्पस्संधत्ते चोज्ज्ञितां पुनः

॥२९॥

नन्दीश्वर उवाच

इति श्रुत्वा वचस्तस्य शंकरस्य बृहस्पतिः ।

उवाच साञ्जलिर्भूयो भयव्याकुलमानसः

॥३०॥

बृहस्पतिरुवाच

हे देव भगवन्भक्ता अनुकम्प्याः सदैव हि ।

भक्तवत्सलनामेति स्वं सत्यं कुरु शंकर

॥३१॥

क्षेप्तुमन्यत्र देवेश स्वतेजोऽत्युग्रमर्हसि ।

उद्धर्ता सर्वभक्तानां समुद्धर पुरन्दरम्

॥३२॥

नन्दीश्वर उवाच

इत्युक्तो गुरुणा रुद्रो भक्तवत्सलनामभाक् ।

प्रत्युवाच प्रसन्नात्मा सुरेज्यम्प्रणतार्तिहा

॥३३॥

रुद्र उवाच

प्रीतस्तेहं सुराचार्य्य ददामि वरमुत्तमम् ।

इन्द्रस्य जीवदानेन जीवेति त्वं प्रथाम्व्रज

॥३४॥

समुद्भूतोऽनलो योयं भालनेत्रात्सुरा सहः ।

एनन्त्यक्ष्याम्यहं दूरे यथेन्द्रं नैव पीडयेत्

॥३५॥

नन्दीश्वर उवाच

इत्युक्त्वा स करे धृत्वा स्वतेजोऽनलमद्भुतम् ।

भालनेत्रसमुद्भूतं प्राक्षिपल्लवणाम्भसि

॥३६॥

अथो शिवस्य तत्तेजो भालनेत्रसमुद्भवम् ।

क्षिप्तं च लवणाम्भोधौ सद्यो बालो बभूव ह

॥३७॥

स जलन्धरनामाभूत्सिन्धुपुत्रोऽसुरेश्वरः ।

तं जघान महेशानो देवप्रार्थनया प्रभुः

॥३८॥

इत्थं कृत्वा सुचरितं शंकरो लोकशंकरः ।

अवधूतस्वरूपेण ततश्चान्तर्हितोऽभवत्

॥३९॥

बभूवुः सकला देवाः सुखिनश्चातिनिर्भयाः ।

गुरुशक्रौ भयान्मुक्तौ जग्मतुः सुखमुत्तमम्

॥४०॥

यदर्थे गमनोद्युक्तौ दर्शनं प्राप्य तस्य तौ ।

कृतार्थौ गुरुशक्रौ हि स्वस्थानं जग्मतुर्मुदा

॥४१॥

अवधूतेश्वराह्वोऽवतारस्ते कथितो मया ।

परमेशस्य परमानन्ददः खलदण्डदः

॥४२॥

इदमाख्यानमनघं यशस्यं स्वर्ग्यमेव च ।

भुक्तिमुक्तिप्रदं दिव्यं सर्वकामफलप्रदम्

॥४३॥

य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ।

इह सर्वसुखं भुक्त्वा सोन्ते शिवगतिं लभेत्

॥४४॥

इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दी श्वरसनत्कुमारसंवादे अवधूतेश्वरशिवावतारचरित्रवर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥