चाण्डालीसद्गतिवर्णनम्
ऋषय ऊचुः
सूतसूत महाभाग धन्यस्त्वं शैवसत्तमः ।
चाण्डाली का समाख्याता तत्कथां कथय प्रभो
॥१॥सूत उवाच
द्विजाः शृणुत सद्भक्त्या तां कथां परमाद्भुताम् ।
शिवप्रभावसंमिश्रां शृण्वतां भक्तिवर्द्धिनीम्
॥२॥चांडाली सा पूर्वभरेऽभवद्ब्राह्मणकन्यका ।
सौमिनी नाम चन्द्रास्या सर्वलक्षणसंयुता
॥३॥अथ सा समये कन्या युवतिः सौमिनी द्विजाः ।
पित्रा दत्ता च कस्मैचिद्विधिना द्विजसूनवे
॥४॥सा भर्तारमनुप्राप्य किंचित्कालं शुभव्रता ।
रेमे तेन द्विजश्रेष्ठा नवयौवनशालिनी
॥५॥अथ तस्याः पतिर्विप्रस्तरुणस्सुरुजार्दितः ।
सौमिन्याः कालयोगात्तु पञ्चत्वमगमद्द्विजाः
॥६॥मृते भर्तरि सा नारी दुखितातिविषण्णधीः ।
किंचित्कालं शुभाचारा सुशीलोवास सद्मनि
॥७॥ततस्सा मन्मथाविष्टहृदया विधवापि च ।
युवावस्थाविशेषेण बभूव व्यभिचारिणी
॥८॥तज्ज्ञात्वा गोत्रिणस्तस्या दुष्कर्म कुलदूषणम् ।
समेतास्तत्यजु दूरं नीत्वा तां सकचग्रहाम्
॥९॥कश्चिच्छूद्रवरस्तां वै विचरन्तीं निजेच्छया ।
दृष्ट्वा वने स्त्रियं चक्रे निनाय स्वगृहं तत
॥१०॥अथ सा पिशिताहारा नित्यमापीतवारुणी ।
अजीजनत्सुतान्तेन शूद्रेण सुरतप्रिया
॥११॥कदाचिद्भर्तरि क्वापि याते पीतसुराथ सा ।
इयेष पिशिताहारं सौमिनी व्यभिचारिणी
॥१२॥ततो मेषेषु बद्धेषु गोभिस्सह बहिर्व्रजे ।
निशामुखे तमोऽन्धे हि खड्गमादाय सा ययौ
॥१३॥अविमृश्य मदावेशान्मेषबुद्याऽऽमिष प्रिया ।
एकं जघान गोवत्सं क्रोशंतमतिदुर्भगा
॥१४॥हतं तं गृहमानीय ज्ञात्वा गोवत्समंगना ।
भीता शिवशिवेत्याह केनचित्पुण्यकर्मणा
॥१५॥सा मुहूर्तं शिवं ध्यात्वामिषभोजनलालसा ।
छित्त्वा तमेव गोवत्सं चकाराहारमीप्सितम्
॥१६॥एवं बहुतिथे काले गते सा सौमिनी द्विजाः ।
कालस्य वशमापन्ना जगाम यमसंक्षयम्
॥१७॥यमोऽपि धर्ममालोक्य तस्याः कर्म च पौर्विकम् ।
निवर्त्य निरयावासाच्चक्रे चाण्डालजातिकाम्
॥१८॥साथ भ्रष्टा यमपुराच्चाण्डालीगर्भमाश्रिता ।
ततो बभूव जन्मान्धा प्रशांतांगारमेचका
॥१९॥जन्मान्धा साथ बाल्येऽपि विध्वस्तपितृमातृका ।
ऊढा न केनचिद्दुष्टा महाकुष्ठरुजार्दिता
॥२०॥ततः क्षुधार्दिता दीना यष्टिपाणिर्गतेक्षणा ।
चाण्डालोच्छिष्टपिंडेन जठराग्निमतपर्यत्
॥२१॥एवं कृच्छ्रेण महता नीत्वा स्वविपुलं वयः ।
जरयाग्रस्तसवार्ङ्गी दुःखमाप दुरत्ययम्
॥२२॥कदाचित्साथ चांडाली गोकर्णं तं महाजनान् ।
आयास्यंत्यां शिवतिथौ गच्छतो बुबुधेऽन्वगान्
॥२३॥अथासावपि चांडाली वसनासनतृष्णया ।
महाजनान् याचयितुं संचचार शनैः शनैः
॥२४॥गत्वा तत्राथ चांडाली प्रार्थयन्ती महाजनान् ।
यत्र तत्र चचारासौ दीनवाक्प्रसृताञ्जलिः
॥२५॥एवमभ्यर्थयंत्यास्तु चांडाल्याः प्रसृताञ्जलौ ।
एकः पुण्यतमः पान्थः प्राक्षिपद्बिल्वमंजरीम्
॥२६॥तामंजलौ निपतिता सा विमृश्य पुनः पुनः ।
अभक्ष्यमिति मत्वाथ दूरे प्राक्षिपदातुरा
॥२७॥तस्याः कराद्विनिर्मुक्ता रात्रौ सा बिल्वमंजरी ।
पपात कस्यचिद्दिष्ट्या शिवलिंगस्य मस्तके
॥२८॥सैवं शिवचतुर्दश्यां रात्रौ पान्थजनान्मुहुः ।
याचमानापि यत्किंचिन्न लेभे दैवयोगतः
॥२९॥एवं शिवचतुर्दश्या व्रतं जातं च निर्मलम् ।
अज्ञानतो जागरणं परमानन्ददायकम्
॥३०॥ततः प्रभाते सा नारी शोकेन महता वृता ।
शनैर्निववृते दीना स्वदेशायैव केवलम्
॥३१॥श्रांता चिरोपवासेन निपतंती पदेपदे ।
अतीत्य तावतीं भूमिं निपपात विचेतना
॥३२॥अथ सा शंभुकृपया जगाम परमं पदम् ।
आरुह्य सुविमानं च नीतं शिवगणैर्द्रुतम्
॥३३॥आदौ यदेषा शिवनाम नारी प्रमादतो वाप्यसती जगाद ।
तेनेह भूयः सुकृतेन विप्रा महाबलस्थानमवाप दिव्यम्
॥३४॥श्रीगोकर्णे शिवतिथावुपोष्य शिवमस्तके ।
कृत्वा जागरणं सा हि चक्रे बिल्वार्चनं निशि
॥३५॥अकामतः कृतस्यास्य पुण्यस्यैव च तत्फलम् ।
भुनक्त्यद्यापि सा चैव महाबलप्रसादतः
॥३६॥एवंविधं महालिंगं शंकरस्य महाबलम् ।
सर्वपापहरं सद्यः परमानन्ददायकम्
॥३७॥एवं वः कथितं विप्रा माहात्म्यं परमं मया ।
महाबलाभिधानस्य शिवलिंगवरस्य हि
॥३८॥अथान्यदपि वक्ष्यामि माहात्म्यं तस्य चाद्भुतम् ।
श्रुतमात्रेण येनाशु शिवे भक्तिः प्रजायते
॥३९॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चाण्डालीसद्गतिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥