रुद्रागमनवर्णनम्
सूत उवाच
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।
विश्वेश्वरस्य माहात्म्यं महापातकनाशनम्
॥१॥यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम् ।
चिदानन्द स्वरूपं च निर्विकारं सनातनम्
॥२॥तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ।
स एव सगुणो जातश्शिव इत्यभिधीयते
॥३॥स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ।
यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते
॥४॥चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ
॥५॥अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ।
तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः
॥६॥महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ।
तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ।
तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा
॥७॥प्रकृतिपुरुषाबूचतुः
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना ।
स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव
॥८॥ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम् ।
सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा
॥९॥निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च ।
अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः
॥१०॥तदधिष्ठाय हरिणा सृष्टिकामनया ततः ।
बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च
॥११॥श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ।
ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत
॥१२॥ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम् ।
इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम्
॥१३॥ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ।
तद्बभूव महत्तीर्थं नामतो मणिकर्णिका
॥१४॥जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ।
निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा
॥१५॥विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ।
तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात्
॥१६॥शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ।
चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः
॥१७॥योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः ।
ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः
॥१८॥ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ।
प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता
॥१९॥इयं च शुभदा लोके कर्म नाशकरी मता ।
मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया
॥२०॥अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना ।
न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक
॥२१॥इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ।
मोचयामास भुवने मर्त्यलोके हि काशिकाम्
॥२२॥ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ।
तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम्
॥२३॥पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ।
कर्मणा कर्षणाच्चैव काशीति परिपठ्यते
॥२४॥अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा ।
मुक्तिदातृ च लोकानां महापातकिनामपि
॥२५॥अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ।
अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा
॥२६॥येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी ।
पंचक्रोशी महापुण्या हत्याकोटिविनाशनी
॥२७॥अमरा मरणं सर्वे वांछतीह परे च के ।
भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया
॥२८॥ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ।
मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा
॥२९॥काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि ।
शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः
॥३०॥कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ।
कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ।
प्रणिपातैरनेकैश्च वचनं चेदमब्रवीत्
॥३१॥रुद्र उवाच
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ।
कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे
॥३२॥स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ।
तारयस्व जगन्नाथ प्रार्थयामि जगत्पते
॥३३॥सूत उवाच
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ।
नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम्
॥३४॥अविमुक्त उवाच
देवदेव महादेव कालामयसुभेषज ।
त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः
॥३५॥काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ।
मया ध्यानतया स्थेयमचिंत्य सुखहेतवे
॥३६॥मुक्तिदाता भवानेव कामदश्च न चापरः ।
तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा
॥३७॥जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ।
भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः
॥३८॥सूत उवाच
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः ।
लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट्
॥३९॥यद्दिनं हि समारभ्य हरः काश्यामुपागतः ।
तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत्
॥४०॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥