द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च
सूत उवाच
द्विजाः शृणुत सद्भक्त्या शिवलिंगानि तानि च ।
पश्चिमायां दिशायां वै यानि ख्यातानि भूतले
॥१॥कपिलायां नगर्यां तु कालरामेश्वराभिधे ।
शिवलिंगे महादिव्ये दर्शनात्पापहारके
॥२॥पश्चिमे सागरे चैव महासिद्धेश्वरः स्मृतः ।
धर्मार्थकामदश्चैव तथा मोक्षप्रदोऽपि हि
॥३॥पश्चिमाम्बुधितीरस्थं गोकर्णं क्षेत्रमुत्तमम् ।
ब्रह्महत्यादिपापघ्नं सर्वकामफलप्रदम्
॥४॥गोकर्णे शिवलिंगानि विद्यन्ते कोटिकोटिशः ।
असंख्यातानि तीर्थानि तिष्ठन्ति च पदेपदे
॥५॥बहुनात्र किमुक्तेन गोकर्णस्थानि सर्वशः ।
शिवप्रत्यक्षलिंगानि तीर्थान्यम्भांसि सर्वशः
॥६॥गोकर्णे शिवलिंगानां तीर्थानामपि सर्वशः ।
वर्ण्यते महिमा तात पुराणेषु महर्षिभिः
॥७॥कृतेयुगे स हि श्वेतस्त्रेतायां सोतिलोहितः ।
द्वापरे पीतवर्णश्च कलौ श्यामो भविष्यति
॥८॥आक्रान्तसप्तपातालकुहरोपि महाबलः ।
प्राप्ते कलियुगे घोरे मृदुतामुपयास्यति
॥९॥महापातकिनश्चात्र समभ्यर्च्य महाबलम् ।
शिवलिंगं च गोकर्णे प्रयाताश्शांकरम्पदम्
॥१०॥गोकर्णे तत्र मुनयो गत्वा पुण्यर्क्षवासरे ।
येऽर्चयन्ति च तं भक्त्या ते रुद्राः स्युर्न संशय
॥११॥यदा कदाचिद्गोकर्णे यो वा को वापि मानवः ।
पूजयेच्छिवलिंगं तत्स गच्छेद्ब्रह्मणः पदम्
॥१२॥ब्रह्मविष्ण्वादिदेवानां शंकरो हित काम्यया ।
महाबलाभिधानेन देवः संनिहितस्सदा
॥१३॥घोरेण तपसा लब्धं रावणाख्येन रक्षसा ।
तल्लिंगं स्थापयामास गोकर्ण गणनायकः
॥१४॥विष्णुर्ब्रह्मा महेन्द्रश्च विश्वदेवो मरुद्गणाः ।
आदित्या वसवो दस्रौ शशांकश्च सतारकः
॥१५॥एते विमानगतयो देवाश्च सह पार्षदैः ।
पूर्वद्वारं निषेवन्ते तस्य वै प्रीतिकारणात्
॥१६॥यमो मृत्युः स्वयं साक्षाच्चित्रगुप्तश्च पावकः ।
पितृभिः सह रुद्रैश्च दक्षिणद्वारमाश्रितः
॥१७॥वरुणः सरितां नाथो गंगादिसरिता गणैः ।
महाबलं च सेवन्ते पश्चिमद्वारमाश्रिताः
॥१८॥तथा वायुः कुबेरश्च देवेशी भद्रकालिका ।
मातृभिश्चण्डिकाद्याभिरुत्तरद्वारमाश्रिताः
॥१९॥सर्वे देवास्सगन्धर्वाः पितरः सिद्धचारणाः ।
विद्याधराः किंपुरुषाः किन्नरा गुह्यकाः खगाः
॥२०॥नानापिशाचा वेताला दैतेयाश्च महाबलाः ।
नागाश्शेषादयस्सर्वे सिद्धाश्च मुनयोऽखिलाः
॥२१॥प्रणुवन्ति च तं देवं प्रणमन्ति महाबलम् ।
लभन्त ईप्सितान्कामान्रमन्ते च यथासुखम्
॥२२॥बहुभिस्तत्र सुतपस्तप्तं सम्पूज्य तं विभुम् ।
लब्धा हि परमा सिद्धिरिहामुत्रापि सौख्यदा
॥२३॥गोकर्णे शिवलिंगं तु मोक्षद्वार उदाहृतः ।
महाबलाभिधानोऽसौ पूजितः संस्तुतो द्विजाः
॥२४॥माघासितचतुर्दश्यां महाबलसमर्चनम् ।
विमुक्तिदं विशेषेण सर्वेषां पापिनामपि
॥२५॥अस्यां शिवतिथौ सर्वे महोत्सवदिदृक्षवः ।
आयांति सर्वदेशेभ्यश्चातुर्वर्ण्यमहाजनाः
॥२६॥स्त्रियो वृद्धाश्च बालाश्च चतुराश्रमवासिनः ।
दृष्ट्वा तत्रेत्य देवेशं लेभिरे कृतकृत्यताम्
॥२७॥महाबलप्रभावात्तु तच्च लिंगं शिवस्य तु ।
सम्पूज्यैकाथ चाण्डाली शिवलोकं गता द्रुतम्
॥२८॥इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबलमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥