मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कोटिरुद्रसंहिता, अध्याय ६

3
कोटिरुद्रसंहिता · 6

ब्राह्मणीस्वर्गतिवर्णनम्

सूत उवाच

गौश्चैकाप्यभवत्तत्र ह्यंगणे बंधिता शुभा ।

तदैव ब्राह्मणो रात्रावाजगाम बहिर्गतः

॥१॥

स उवाच प्रियां स्वीयां दृष्ट्वा गामंगणे स्थिताम् ।

अदुग्धां खेदनिर्विण्णो दोग्धुकामो मुनीश्वराः

॥२॥

गौः प्रिये नैव दुग्धा ते सेत्युक्ता वत्समानयत् ।

दोहनार्थं समाहूय स्त्रियं शीघ्रतरं तदा

॥३॥

वत्सं कीले स्वयं बद्धुं यत्नं चैवाकरोत्तदा ।

ब्राह्मणस्स गृहस्वामी मुनयो दुग्धलालसः

॥४॥

वत्सोपि कर्षमाणश्च पादे वै पादपीडनम् ।

चकार ब्राह्मणश्चैव कष्टं प्राप्तश्च सुव्रताः

॥५॥

तेन पादप्रहारेण स द्विजः क्रोधमूर्छितः ।

वत्सं च ताडयामास कूपैर्दृढतरं तदा

॥६॥

वत्सोपि पीडितस्तेन श्रांतश्चैवाभवत्तदा ।

दुग्धा गौर्मोचितो वत्सो न क्रोधेन द्विजन्मना

॥७॥

गौर्दोग्धुं महत्प्रीत्या रोदनं चाकरोत्तदा ।

दृष्ट्वा च रोदनं तस्या वत्सो वाक्यमथाब्रवीत्

॥८॥

वत्स उवाच

कथं च रुद्यते मातः किन्ते दुःखमुपस्थितम् ।

तन्निवेदय मे प्रीत्या तच्छ्रुत्वा गौरवोचत

॥९॥

श्रूयतां पुत्र मे दुःखं वक्तुं शक्नोम्यहं न हि ।

दुष्टेन ताडितत्वं च तेन दुःखं ममाप्यभूत्

॥१०॥

सूत उवाच

स्वमातुर्वचनं श्रुत्वा स वत्सः प्रत्यबोधयत् ।

प्रत्युवाच स्वजननीं प्रारब्धपरिनिष्ठितः

॥११॥

किं कर्त्तव्यं क्व गंतव्यं कर्मबद्धा वयं यतः ।

कृतं चैव यथापूर्वं भुज्यते च तथाधुना

॥१२॥

हसता क्रियते कर्म रुदता परिभुज्यते ।

दुःखदाता न कोप्यस्ति सुखदाता न कश्चन

॥१३॥

सुखदुःखे परो दत्त इत्येषा कुमतिर्मता ।

अहं चापि करोम्यत्र मिथ्याज्ञानं तदोच्यते

॥१४॥

स्वकर्मणा भवेद्दुखं सुखं तेनैव कर्मणा ।

तस्माच्च पूज्यते कर्म सर्वं कर्मणि संस्थितम

॥१५॥

त्वं चैवाहं च जननी इमे जीवादयश्च ये ।

ते सर्वे कर्मणा बद्धा न शोच्याः कर्हिचित्त्वया

॥१६॥

सूत उवाच

एवं श्रुत्वा स्वपुत्रस्य वचनं ज्ञानगर्भितम् ।

पुत्रशोकान्विता दीना सा च गौरब्रवीदिदम्

॥१७॥

गौरुवाच

वत्स सर्वं विजानामि कर्माधीनाः प्रजा इति ।

तथापि मायया ग्रस्ता दुःखं प्राप्नोम्यहं पुनः

॥१८॥

रोदनं च कृतं भूरि दुःखशान्तिर्भवेन्नहि ।

इत्येतद्वचनं श्रुत्वा प्रसूं वत्सोऽब्रवीदिदम्

॥१९॥

वत्स उवाच

यद्येवं च विजानामि पुनश्च रुदनं कुतः ।

कृत्वा च साध्यते किञ्चित्तस्माद्दुःखं त्यजाधुना

॥२०॥

सूत उवाच

एवं पुत्रवचः श्रुत्वा तन्माता दुःखसंयुता ।

निःश्वस्याति तदा धेनुर्वत्सं वचनमब्रवीत्

॥२१॥

गौरुवाच

मम दुःखं तदा गच्छेद्यथा दुखं तथाविधम् ।

भवेद्धि ब्राह्मणस्यापि सत्यमेतद्ब्रवीम्यहम्

॥२२॥

प्रातश्चैव मया पुत्र शृंगाभ्यां हि हनिष्यते ।

हतस्य जीवितं सद्यो यास्यत्यस्य न संशयः

॥२३॥

वत्स उवाच

प्रथमं यत्कृतं कर्म तत्फलं भुज्यतेऽधुना ।

अस्याश्च ब्रह्महत्याया मातः किं फलमाप्स्यसे

॥२४॥

समाभ्यां पुण्यपापाभ्यां भवेज्जन्म च भारते ।

तयोः क्षये च भोगेन मातर्मुक्तिरवाप्यते

॥२५॥

कदापि कर्मणो नाशः कदा भोगः प्रजायते ।

तस्माच्च पुनरेवं त्वं कर्म मा कर्तुमुद्यता

॥२६॥

अहं कुतस्ते पुत्रोद्य त्वं माता कुत एव च ।

वृथाभिमानः पुत्रत्वे मातृत्वे च विचार्य्यताम्

॥२७॥

क्व माता क्व पिता विद्धि क्व स्वामी क्व कलत्रकम् ।

न कोऽपि कस्य चास्तीह सर्वेपि स्वकृतं भुजः

॥२८॥

एवं ज्ञात्वा त्वया मातर्दुःखं त्याज्यं सुयत्नतः ।

सुभगाचरणं कार्यं परलोकसुखेप्सया

॥२९॥

गौरुवाच

एवं जानाम्यहं पुत्र माया मां न जहात्यसौ ।

त्वद्दुःखेन सुदुःखं मे तस्मै दास्ये तदेव हि

॥३०॥

पुनश्च ब्रह्महत्याया नाशो यत्र भवेदिह ।

तत्स्थलं च मया दृष्टं हत्या मे हि गमिष्यति

॥३१॥

सूत उवाच

इत्येतद्वचनं श्रुत्वा स्वमातुर्गोर्द्विजोत्तमाः ।

मौनत्वं स्वीकृतं तत्र वत्सेनोक्तं न किञ्चन

॥३२॥

तयोस्तदद्भुतं वृत्तं श्रुत्वा पान्थो द्विजस्तदा ।

हृदा विचारयामास विस्मितो हि मुनीश्वराः

॥३३॥

इदमत्यद्भुतं वृत्तं दृष्ट्वा प्रातर्मया खलु ।

गंतव्यं पुनरेवातो गंतव्यं तत्स्थलं पुनः

॥३४॥

सूत उवाच

विचार्येति हृदा विप्रः स द्विजाः सेवकेन च ।

सुष्वाप तत्र जननीभक्तः परमविस्मितः

॥३५॥

प्रातःकाले तदा जाते गृहस्वामी समुत्थितः ।

बोधयामास तं पान्थं वचनं चेदमब्रवीत्

॥३६॥

द्विज उवाच

स्वपिषि त्वं किमर्थं हि प्रातःकालो भवत्यलम् ।

स्वयात्रां कुरु तं देशं गमनेच्छा च यत्र ह

॥३७॥

तेनोक्तं श्रूयताम्ब्रह्मञ्च्छरीरे सेवकस्य मे ।

वर्तते हि व्यथा स्थित्वा मुहूर्तं गम्यते ततः

॥३८॥

सूत उवाच

इत्येवं च मिषं कृत्वा सुष्वाप पुरुषस्तदा ।

तद्वृत्तमखिलं ज्ञातुमद्भुतं विस्मयावहम्

॥३९॥

दोहनस्य तदा काले ब्राह्मणः स्वसुतं प्रति ।

उवाच गंतुकामश्च कार्यार्थं कुत्रचिच्च सः

॥४०॥

पितोवाच

मया तु गम्यते पुत्र कार्यार्थं कुत्रचित्पुनः ।

धेनुर्दोह्या त्वया वत्स सावधानादियं निजा

॥४१॥

सूत उवाच

इत्युक्त्वा ब्राह्मणवरस्स जगाम च कुत्रचित् ।

पुत्रः समुत्थितस्तत्र वत्सं च मुक्तवांस्तदा

॥४२॥

माता च तस्य दोहार्थमाजगाम स्वयन्तदा ।

द्विजपुत्रस्तदा वत्सं खिन्नं कीलेन ताडितम्

॥४३॥

बंधनार्थं हि गोः पार्श्वमनयद्दुग्धलालसः ।

पुनर्गौश्च तदा क्रुद्धा शृंगेनाताडयच्च तम्

॥४४॥

पपात मूर्च्छां संप्राप्य सोपि मर्मणि ताडितः ।

लोकाश्च मिलितास्तत्र गवा बालो विहिंसितः

॥४५॥

जलं जलं वदन्तस्ते पित्राद्या यत्र संस्थिताः ।

यत्नश्च क्रियते यावत्तावद्बालो मृतस्तदा

॥४६॥

मृते च बालके तत्र हाहाकारो महानभूत् ।

तन्माता दुःखिता ह्यासीद्रुरोद च पुनः पुनः

॥४७॥

किं करोमि क्व गच्छामि को मे दुःखं व्यपोहति ।

रुदित्वेति तदा गां च ताडयित्वा व्यमोचयत्

॥४८॥

श्वेतवर्णा तदा सा गौर्द्रुतं श्यामा व्यदृश्यत ।

अहो च दृश्यतां लोकाश्चुक्रुशुश्च परस्परम्

॥४९॥

ब्राह्मणश्च तदा पान्र्थौ दृष्ट्वाश्चर्यं विनिर्गतः ।

यत्र गौश्च गतस्तत्र तामनु ब्राह्मणो गतः

॥५०॥

ऊर्ध्वपुच्छं तदा कृत्वा शीघ्रं गौर्नर्मदां प्रति ।

आगत्य नन्दिकस्यास्य समीपे नर्मदाजले

॥५१॥

संनिमज्य त्रिवारं तु श्वेतत्वं च गता हि सा ।

यथागतं गता सा च ब्राह्मणो विस्मयं गतः

॥५२॥

अहो धन्यतमं तीर्थं ब्रह्महत्यानिवारणम् ।

स्वयं ममज्ज तत्रासौ ब्राह्मणस्सेवकस्तथा

॥५३॥

निमज्ज्य हि गतौ तौ च प्रशंसन्तौ नदी च ताम् ।

मार्गे च मिलिता काचित्सुन्दरी भूषणान्विता

॥५४॥

तयोक्तं तं च भोः पांथ कुतो यासि सुविस्मितः ।

सत्यं ब्रूहि च्छलं त्यक्त्वा विप्रवर्य ममाग्रतः

॥५५॥

सूत उवाच

एवं वचस्तदा श्रुत्वा द्विजेनोक्तं यथातथम् ।

पुनश्चायं द्विजस्तत्र स्त्रियोक्तः स्थीयतां त्वया

॥५६॥

तयोक्तं च समाकर्ण्य स्थितस्य ब्राह्मणस्ततः ।

प्रत्युवाच विनीतात्मा कथ्यते किं वदेति च

॥५७॥

सा चाह पुनरेवात्र त्वया दृष्टं स्थलं च यत् ।

तत्राधुना क्षिपास्थीनि मातुः किं गम्यतेऽन्यतः

॥५८॥

तव माता पान्थवर्य्य साक्षाद्दिव्यमयं वरम् ।

देहं धृत्वा द्रुतं साक्षाच्छंभोर्यास्यति सद्गतिम्

॥५९॥

वैशाखे चैव संप्राप्ते सप्तम्याश्च दिने शुभे ।

सितेपक्षे सदा गंगा ह्यायाति द्विजसत्तम

॥६०॥

अद्यैव सप्तमी या सा गंगारूपास्ति तत्र वै ।

इत्युक्त्वान्तर्दधे देवी सा गंगा मुनिसत्तमाः

॥६१॥

निवृत्तश्च द्विजः सोपि मात्रस्थ्यर्द्धं स्ववस्त्रतः ।

क्षिपेद्यावत्तत्र तीर्थे तावच्चित्रमभूत्तदा

॥६२॥

दिव्यदेहत्वमापन्ना स्वमाता च व्यदृश्यत ।

धन्योसि कृतकृत्योसि पवित्रं च कुलं त्वया

॥६३॥

धनं धान्यं तथा चायुर्वंशो वै वर्द्धतां तव ।

इत्याशिषं मुहुर्दत्त्वा स्वपुत्राय दिवं गता

॥६४॥

तत्र भुक्त्वा सुखं भूरि चिरकालं महोत्तमम् ।

शंकरस्य प्रसादेन गता सा ह्युत्तमां गतिम्

॥६५॥

ब्राह्मणश्च सुतस्तस्याः क्षिप्त्वास्थीनि पुनस्ततः ।

प्रसन्नमानसोऽभूत्स शुद्धात्मा स्वगृहं गतः

॥६६॥

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां नंदिकेश्वरलिंगमाहात्म्यवर्णने ब्राह्मणीस्वर्गतिवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥