मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 73

3
क्रीडाखण्डः · 73

सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः

व्यास उवाच

कथं ब्रह्मन् शिवगृहे मयूरेश्वर संज्ञितः ।

अवतीर्णः किमर्थं वा किं च तच्चरितं पितः

॥१॥

मयरेश्वरसंज्ञा च कथं जाता विनायके ।

एतन्मे सर्वमाचक्ष्व श‍ृण्वन्स्तृप्यामि न क्वचित्

॥२॥

क उवाच

त्रेतायुगे महादैत्यः सिन्धुनामाऽभवत्पुरा ।

स हतस्तेन बलिनाऽवतीर्णे न शिवालये

॥३॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

शौनकस्य च संवादं राज्ञा च चक्रपाणिना

॥४॥

मैथिले विषये राजा गण्डकीनगरे शुभे ।

चक्रपाणिरिति ख्यातः साक्षाद् विष्णुरिवापरः

॥५॥

न गुणा वर्णितुं शक्याः शेषेणाऽस्य कदाचन

॥६॥

तेजसा लोपयन् भानुं लावण्येन च मन्मथम् ।

मत्या बृहस्पतिं स्कन्दं विक्रमेण बलेन च

॥७॥

येनेयं सकला पृथ्वी क्षणेन वशवर्तिनी ।

कृता सर्वे च राजानः सेवायां विनियोजिताः

॥८॥

तुरङ्गाणां गजानां च पदातीनां जयैषिणाम् ।

रथानां च न यस्यास्ति सङ्ख्यानं जगतीतले

॥९॥

साक्षाल्लक्ष्मीः स्थिरा यस्य गृहे दर्शनगोचरा ।

रत्नकाञ्चनमुक्ताभिरनिशं भासयन् दिशः

॥१०॥

भद्रं भद्रकरं यस्य लोकनामलकोपमम् ।

यस्यामात्यौ महाबुद्धी साम्बश्चैव सुबोधनः

॥११॥

सेवन्तौ स्वामिकार्यार्थे तृणीकृत्य स्वजीवितम् ।

यस्यासीत् प्रमदा रम्या नाम्नोग्रा चारुहासिनी

॥१२॥

कुमुदानि विकासन्ते दिवा यन्मुखचन्द्रतः ।

अनेकभूषादीप्त्या या नाशयित्वाऽखिलं तमः

॥१३॥

पातिव्रत्य गुणान्द्रष्टुं यान्ति सर्वाः पतिव्रताः ।

एवं राजा बुधैर्मान्यः सदा विष्णुपरायणः

॥१४॥

पुराणश्रवणे सक्तो धर्मशास्त्रपरायणः ।

सन्तत्या रहितः सोऽथ दुःखमाप दिवानिशम्

॥१५॥

अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।

अनेकव्रतदानानि यज्ञांश्च कृतवान्बहून्

॥१६॥

ततः स राजा कस्मिंश्चित्समये निजभार्यया ।

आकार्य प्रकृतीः पौरान्विरक्तो राज्यसंसदि

॥१७॥

उवाच सर्वान्दण्डं च कोशं राज्यं त्यजेऽधुना ।

किमपुत्रस्य राज्येन स्वर्गहीनस्य मेऽधुना

॥१८॥

यानि कर्माणि च मया पुत्रार्थे चरितानि च ।

ईश्वरार्पणबुद्ध्या चेत्कृतानि स्युर्यदा तदा

॥१९॥

मुक्तिः स्यादुभयोः पूर्वजन्मकर्मक्षयोऽपि च ।

गतमायुर्वृथा लोका वनं यास्ये मुदाऽधुना

॥२०॥

सर्वं प्रकृतिसात्कृत्वा यूयं तद्वाक्यकारिणः ।

गमिष्येऽहं वनं लोकास्तपस्तप्तुं हिताय वै

॥२१॥

कदाचिदिष्टसिद्धिश्चेत्पुनर्यास्ये निजां पुरीम् ।

ध्रुवमाज्ञां मम पुनः प्रयच्छताधुना जनाः ।

एवं श्रुत्वा नृपवचः सर्वे दुःखितमानसाः

॥२२॥

अश्रुधाराः प्रमुञ्चन्तः प्रोचुस्तं नृपसत्तमम् ।

पौरा ऊचः ।

जननी जनकस्त्वं नः कथं निष्ठुरतां गतः ।

किमर्थं त्यजसे नस्त्वमपराधं विना प्रभो

॥२३॥

विना भवन्त नो जन्म वृथैव मातरं शिशोः ।

वयमप्यनुयास्यामो यत्र याति भवान् प्रभो

॥२४॥

क उवाच

एवं वदत्सु लोकेषु नृपेणाथागतो मुनिः ।

शौनको मुनिशार्दूलो जातवेदा इवा परः

॥२५॥

वेदवेदाङ्गशास्त्राणां वक्तात्रैलोक्यविश्रुतः ।

शक्रादिसुरवन्द्यो यो भूतभव्यभविष्यवित्

॥२६॥

तं दृष्ट्वा पुरतो राजा ननामोत्थाय चासनात् ।

स्वासने तमुपावेक्ष्य पुपूज परया मुदा

॥२७॥

भुक्तवन्तं च विश्रान्तं पादसंवाहनादिभिः ।

चक्रपाणिरथोवाच पुण्यं किं फलितं मम

॥२८॥

यज्जातं दर्शनं तेऽद्य सर्वपापहरं शुभम् ।

सर्वकामप्रदं नृणां दुर्लभं पापकर्मणाम्

॥२९॥

ततः प्रोचे मुनिश्चक्रपाणिं नृपतिसत्तमम् ।

सन्तुष्टः परया भक्त्या प्रश्रयेण दमेन च

॥३०॥

मुनिरुवाच

मा चिन्तां कुरु राजेन्द्र मा च राज्यं परित्यज ।

पुत्रस्ते भविता सम्यक् मद्वाक्यानात्र संशयः

॥३१॥

मया वाणी नोक्तपूर्वाऽनृता हासेऽपि कर्हिचित् ।

क उवाच ।

एवमाकर्ण्य तद्वाक्यं जहृषे राजसत्तमः

॥३२॥

अलङ्कारान्ददौ तस्मै रत्नकाञ्चननिर्मितान् ।

वस्त्राणि च महार्हाणि न च जग्राह वै मुनिः

॥३३॥

पुनः प्रोवाच नृपति वयं वल्कल धारिणः ।

निस्पृहाः सर्वभोगेषु सर्वभूतहिते रताः

॥३४॥

सृष्टिसंहारकरणे ससर्था करुणाब्धयः ।

साधूनां दर्शनरताः समलोष्ठश्मकाञ्चनाः

॥३५॥

विद्वत्सु नैव कमला स्थानं धत्ते कदाचन ।

तस्मान्नेदं ग्रहीष्यामि काञ्चनं वसनं शुभम्

॥३६॥

तीर्थयात्राप्रसङ्गेन त्वामहं समुपागतः ।

दिनानि च व्यतीतानि बहूनि तवदर्शने

॥३७॥

क उवाच

पुनस्तौ नेमतुः सम्यग्दम्पती शौनकं मुनिम् ।

पप्रच्छतुरुपायं तं सन्तानोत्पादने क्षमम्

॥३८॥

सर्वव्रततपोयज्ञान् मत्वा दानानि वै वृथा ।

ततोऽब्रवीन्मुनिः सौरं व्रतं सर्वार्थदं नृणाम्

॥३९॥

अनेकजन्मपापानां शमनं पुत्रपौत्रदम् ।

मुनिरुवाच ।

मासमात्रं व्रतं कार्यमारभ्य भानुसप्तमी

॥४०॥

कृत्वाऽभ्युदयिकं श्राद्धं मातृपूजनपूर्वकम् ।

अभ्यर्च्य गणनाथं च स्वस्तिवाच्य द्विजर्षभान्

॥४१॥

सुवर्णकलशेस्थाप्यः सौवर्णं रविमण्डलम् ।

उपचारैः षोडशभिर्भक्तिभावसमन्वितः

॥४२॥

रक्तचन्दनमिश्रैश्च तन्दुलैः कुसुमैरपि ।

रक्तैर्नानाविधै रत्नैः फलैश्च विविधैरपि

॥४३॥

अर्घ्यैर्द्वादशसङ्ख्यैश्च नमस्कारैः परिक्रमैः ।

स्तुतिभिः प्रार्थनाभिश्च प्रार्थयेत्परमेश्वरम्

॥४४॥

ततो लक्षनमस्कारान् कुर्वीत कारयीत वा ।

प्रत्यहं लक्षविप्रांस्तु भोजयेत्परया मुदा

॥४५॥

गामेकां प्रत्यहं दद्याद् वेदज्ञाय कुटुम्बिने ।

ब्रह्मचर्येण तिष्ठेच्च सपत्नीको नृपोत्तम

॥४६॥

दीनान्धकृपणेभ्यश्च दद्यादन्नं दयान्वितः ।

मासान्ते सर्वसम्भारान्ब्राह्मणाय समर्पयेत्

॥४७॥

एवं व्रते कृते राजन्पुत्रस्ते मत्प्रसादतः ।

भविष्यति महाख्यातः सूर्यभक्तियुतः शुचिः

॥४८॥

क उवाच

एवं व्रतं समादिश्य शौनकोऽन्तर्हितस्तदा ।

ततश्चकार नृपतिर्यथादिष्टं व्रतं तु तत्

॥४९॥

पत्न्या सह विनीतात्मा सूर्यभक्तिपरायणः ।

ब्राह्मणान् भोजयामास यथेच्छं लक्षसङ्ख्यया

॥५०॥

उपवासयुतः पत्न्या मासमात्रं बभूव सः ।

गोदानं च नमस्कारांश्चक्रे चाकारयद्विजैः

॥५१॥

सूर्यमन्त्रं जपन्नित्यं तन्नामस्मरणं सदा ।

ततः कदाचित् तत्पत्नी रात्रौ स्वप्ने ददर्श तम्

॥५२॥

निजभर्तृद्विजरूपं सवितारं मनोरमम् ।

चकमे कामरूपं तं मदनाग्निप्रपीडिता

॥५३॥

उवाच परितप्ताङ्गी कामो मे बाधते भृशम् ।

ऋतुं मे देहि भर्तस्त्वं नो चेन्मृत्युर्भवेन्मम

॥५४॥

सोऽपि वन्ध्यं विनिश्चित्य तत्पतिं कामुकां च ताम् ।

स्वप्न एव भर्तृरूपी सविता तामृतुं ददौ

॥५५॥

सा प्रबुद्धा ततः प्राह समुत्थाप्यनिजं पतिम् ।

नियमस्थेन किं ब्रह्मंस्त्वया मे ऋतुरर्पितः

॥५६॥

स उवाच ततस्तां तु नाहं व्रतमनाः शुभे ।

उपवासरतः क्षीणो रराम रविभक्तिमान्

॥५७॥

ततः पुनः प्राह सती नान्यं जाने कथञ्चन ।

त्वद्रूपेणैव ध्यायामि सवितारं व्रते स्थिता

॥५८॥

ऋतुजेन च दग्धाऽहं वह्निनाऽन्तर्गतेन ह ।

ततः पुनश्चक्रपाणिरूचे तां प्रियभाषिणीम्

॥५९॥

नृप उवाच

तुष्टोऽसौ सविताकान्ते नमस्कारैश्च भोजनैः ।

ब्राह्मणानां गवां दानैरुपवासैर्जपैरपि

॥६०॥

आवां सिद्धिं ददौ सम्यक् पुत्रस्तव भविष्यति ।

क उवाच ।

दिने दिने गर्भवृद्धौ तस्यास्तापोऽभिवर्द्धते

॥६१॥

सा मुमूर्षुश्चन्दनानि सोशीराणि निषेवते ।

लिलेपाऽङ्गे च कर्पूरं तापो नास्या शशाम च

॥६२॥

न चार्द्रवस्त्रपवनैस्ततः सा सखिभिः सह ।

तत्याज सिन्धुतीरे तं गर्भं गत्वा महत्तरम्

॥६३॥

आययौ साथ विश्रान्ता सखिर्निजमन्दिरम् ।

निवेद्य भर्त्रे त्यक्तं तं गृहकार्यरताऽभवत्

॥६४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥