मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 64

3
क्रीडाखण्डः · 64

बालचरिते चतुःषष्टितमोऽध्यायः

क उवाच

कालान्तकेन दैत्येन प्राकाम्येन परस्परम् ।

कालान्तको विजयेते प्राकाम्यं यावदेव हि

॥१॥

तावत् साहाय्यमकरोद् वशित्वं वेगवत्तरम् ।

तत्याज गिरिश‍ृङ्गं तन्मस्तके हस्तलाघवात्

॥२॥

तेन कालान्तको भूमौ सहसा निपपात ह ।

रुधिराक्तं द्विधाभूतं दृष्ट्वा कालान्तकं तदा

॥३॥

हाहाकारो महानासीद् दैत्यसेनाचरेष्वथ ।

मुसलो नाम दैत्येशो भल्लश्चैवापरोऽसुरः

॥४॥

महिमा चैव चत्वारो ययुर्युद्धाय सादराः ।

प्राकाम्येन युयुधिरेऽनेकशस्त्रप्रहारिणः

॥५॥

असङ्ख्याता हता देवाः पतिता भग्नवृक्षवत् ।

असृग्जलप्रवाहिन्य आसन् नद्यः सहस्रशः

॥६॥

ईशिता च वशित्वं च विभूतिश्च ययुस्ततः ।

साहाय्यं चक्रिरे तस्य प्राकाम्यस्य तदा युधि

॥७॥

चत्वारः पर्वतास्ताभिश्चतुर्ष्वपि निपातिताः ।

तैश्च ते चूर्णिताः सर्वे गताः स्वर्गं सुदुर्लभम्

॥८॥

अणिमा तु शिखां धृत्वा कर्दमस्य रणे बलात् ।

अपाटि सहसा भूमौ शतधा स व्यशीर्यत

॥९॥

अस्रवद् रुधिरं वक्त्राल्लुठन् प्राणान् जहौ तदा ।

महिमा लघिमा चैव गरिमा वृक्षसञ्चयैः

॥१०॥

यक्ष्मासुरं तालजङ्घं दीर्घदन्तं न्यपातयन् ।

ततो घण्टासुरो रक्तकेशो दैत्योऽथ दुर्जयः

॥११॥

आययुः सर्वसैन्यानि निश्वसन्तो महाबलाः ।

तैराहतं बलं दृष्ट्वा वशितासिद्धिबुद्धयः

॥१२॥

मुष्टिघातैर्निजघ्नुस्ता भालदेशे दृढं तदा ।

तेऽपि भूमौ निपतिताः शतधा चूर्णितास्तदा

॥१३॥

ततो जगर्जुः सर्वास्ता जयं लब्धा स्वशक्तितः ।

विनायको विजयते सर्वास्ता एवमूचिरे

॥१४॥

अन्ये क्षुद्रतरा दैत्यास्तेऽपि ताभिर्विनाशिताः ।

पुनः सर्वे दैत्यसिंहाः सिद्धिसेनां व्यनाशयन्

॥१५॥

कोलाहलो महानासीत् सेनयोरुभयोरपि ।

हन्तु निघ्नन्तु बध्नन्तु सावधाना भवन्त्विति

॥१६॥

प्रादुरासीत् ततश्चाग्निः शस्त्रसङ्घट्टसम्भवः ।

भग्ने शस्त्रे मल्लयुद्धं चक्रुर्वीरा रुषान्विताः

॥१७॥

पुनश्चानियतं युद्धं परस्परविनाशनम् ।

अभवत् तुमूलं सूर्यस्ततश्चास्तचलं गतः

॥१८॥

अन्धकारेण महता दिशो व्याप्ताः समन्ततः ।

ततो दिव्यौषधीर्गुह्य निजघ्नुस्ते परस्परम्

॥१९॥

अहोरात्रत्रयं घोरं युद्धमासीन्निरन्तरम् ।

असृङनद्यो दशदिशो याता वीरवहास्तदा

॥२०॥

खेटकूर्माः खड्गझषाः शिरःकमलशोभिताः ।

गजग्राहाः प्रेतकाष्ठाः केशशैवलराजिताः

॥२१॥

भीरुभीतिकरा वीरमहाहर्षविवर्द्धनाः ।

ततो जयत्सु देवेषु सर्वदा बलशालिषु

॥२२॥

देवान्तको ययौ चिन्तां तर्कयामास चेतसि ।

येन सर्वे देवगणा जितास्ते स्वप्रभावतः

॥२३॥

क्वेयं तत्र बालमाया सामान्या जनमोहिनी ।

अष्टसिद्धीः सर्वसैन्यमिदानीं नाशयाम्यहम्

॥२४॥

धृत्वा विनायकं बालं गयिष्यामि स्वमालयम् ।

एवमुक्त्वा खड्गपाणिः स्वनेनापूरयन्दिशः

॥२५॥

आययौ परसैन्यानि निघ्नन् खड्गेन सर्वशः ।

भयेन मूर्छिता देवा निपेतुर्धरणीतले

॥२६॥

स्मृत्वा विनायकं देवं जहुः प्राणांस्तु केचन ।

असृङनदीवहाः केचित् केचित्स्वर्गं गताः सुराः

॥२७॥

केचिद्दैत्यं विलोक्यैव जहुर्जीवितमात्मनः ।

ततो भग्ना देवसेना पपाल च दिशो दश

॥२८॥

सोऽपि दैत्यः खड्गपाणिर्निघ्नन्पृष्ठे जघान ताम् ।

गरिमा तन्निरीक्ष्याथ पर्वतं वृक्षसङकुलम्

॥२९॥

तत्याज दैत्यदेहे स खड़गेन शतधाऽच्छिनत् ।

ततोऽष्टसिद्धयः क्षुब्धा ववृषुः पर्वतान्बहून्

॥३०॥

चिच्छेद त्वरया तान् स खड्गाघातेन लाघवात् ।

उड्डीय महिमा तस्य स्कन्धे स्थित्वा तमाददे

॥३१॥

खड्गं दैत्यकराच्छीघ्रमन्तर्धानं ययौ तदा ।

बलाच्चिक्षेप तं खड्गं तस्य दैत्यस्य मस्तके

॥३२॥

स एवं शतधा जातो न तु मूर्द्धा तदद्भुतम् ।

शरवृष्टिं तदा दैत्यो भग्नपृष्ठश्चकार ह

॥३३॥

एकैकस्यां दशदशपञ्चसप्तशरानसौ ।

क्षिप्त्वा व्याकुलयाञ्चक्रे ततस्ता भुवि पेतिरे

॥३४॥

ततो देवा युयुधिरे पतितास्वष्टसिद्धिषु ।

मुहूर्तात् सावधानास्ता ययुर्देवं विनायकम्

॥३५॥

तमुदन्तं परिज्ञाय बुद्धि प्रोचे विनायकम् ।

कथं विचारस्तस्य स्याद्यत्र बुद्धिर्न दृश्यते

॥३६॥

पराजिताः सिद्धयस्ते देह्यनुज्ञां व्रजाम्यहम् ।

योद्धुं दैत्येन तेनाथ पौरुषं चास्य लक्षये

॥३७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरितेऽष्टसिद्धिपराजयो नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥