त्रिविधवस्तुनिरूपणन्नामैकादशोऽध्यायः
११ अष्टचत्वारिंशादधिकशततमोऽध्यायः ।
श्रीगजानन उवाच ।
तपोऽपि त्रिविधं राजन् कायिकादिप्रभेदतः ।
ऋजुतार्जवशौचाश्च ब्रह्मचर्यमहिंसनम्
॥१॥गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईदृशम्
॥२॥मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम
॥३॥अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम्
॥४॥अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् ।
रुढ्यैसत्कारपूजार्थं सदम्भं राजसं तपः
॥५॥(विधिवाक्यप्रमाणार्थं सदम्भं राजसं तपः) तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते
॥६॥विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम्
॥७॥उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः ।
क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते
॥८॥अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम्
॥९॥ज्ञानं च त्रिविधं राजन्शणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसङ्गतः
॥१०॥नानाविधेषु भूतेषु मामेकं वीक्ष्यते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्त्विकं नृप
॥११॥तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम्
॥१२॥हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते
॥१३॥भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्मयत्
॥१४॥कृत विना फलेच्छां यत् कर्म सात्त्विकमुच्यते ।
यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया
॥१५॥क्रियमाणं नृभिर्दम्भात् कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत्
॥१६॥अज्ञानात् क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप
॥१७॥धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहङ्कारविमुक्तो यः स कर्ता सात्त्विको नृप
॥१८॥कुर्वन्हर्षं च शोकं च हिंसा फलस्पृहां च यः ।
अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते
॥१९॥प्रमादाज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान् यस्तु कर्ताऽसौ तामसो मतः
॥२०॥सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते
॥२१॥विषवद् भासते पूर्वं दुःखस्यान्तकरं च यत् ।
इच्छयमानं तथा वृत्या यदन्तेऽमृतवद्भवेत्
॥२२॥प्रसादात्स्वस्य बुद्धेर्यत् सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा
॥२३॥हालाहालमिवान्ते यद् राजसं सुखमीरितम् ।
तन्द्रिप्रमादसम्भूतमालस्यप्रभवं च यत्
॥२४॥सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः
॥२५॥राजन्ब्रह्मापि त्रिविधमोन्तत्सदिति भेदतः ।
त्रिलोकेषु त्रिधाभूतमखिलं भूप वर्तते
॥२६॥ब्रह्मक्षत्रियविट्शुद्राः स्वभावाद्भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि सङ्क्षेपात्तेऽधुना वदे
॥२७॥अन्तर्बाह्येन्द्रियाणां च वशत्व मार्जवं क्षमा ।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः
॥२८॥वेदशास्त्रपुराणानां स्मृतिनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम्
॥२९॥दार्ढ्यं शौर्य च दाक्ष्यं च युद्धे पृष्ठप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम्
॥३०॥प्रभुता मन औन्नत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षत्रकर्म समीरितम्
॥३१॥नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम्
॥३२॥दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम्
॥३३॥स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप
॥३४॥इति ते कथितो राजन् प्रसादाद् योग उत्तमः ।
सागोपाङ्गः सविस्तारोऽनादिसिद्धौ मया प्रिय
॥३५॥युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप ।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम्
॥३६॥क उवाच
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम्
॥३७॥त्यक्त्वा राज्यं कुटुम्बं च कातारं प्रययौ रयात् ।
उपदिष्टं यथायोगमास्थाय मुक्तिमाप्तवान् ॥
इमं योगोत्तमं योगं शृणोति श्रद्धया तु यः
॥३८॥सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥
य इमं श्रावयेद्योगं कृत्वाऽस्यार्थं सुबुद्धिमान्
॥३९॥यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥
यो गीतां सम्यगभ्यस्य ज्ञात्वाचार्थं गुरोर्मुखात्
॥४०॥कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत्
॥४१॥ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः
॥४२॥न वेदैः सम्यगभ्यस्तैः सम्यग्ज्ञातैः सहाङ्गकैः ।
पुराणश्रवणैर्नै व न शास्त्रैः साधुचिन्तनैः
॥४३॥प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ।
ब्रह्मघ्नो मद्यपः स्तेनो गुरुतल्पगमोऽपि यः
॥४४॥चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥
स्त्रीहिंसा गोवधादीनां कर्तारो ये च पापिनः
॥४५॥ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः
॥४६॥चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ॥
तत्तत्क्षेत्रं समासाद्य स्नात्वाऽभ्यर्च्य गजाननम्
॥४७॥सकृद्गीतां पठेद्भक्त्या ब्रह्मभूयाय कल्पते ॥
भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः
॥४८॥कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥
सवाहनां सायुधां च समभ्यर्च यथाविधि
॥४९॥यः पठेत् सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥
ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम्
॥५०॥पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ॥
विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात्
॥५१॥कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते
॥५२॥ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे गुणत्रयकृतियोगोनामैकादशोऽध्यायः ११
॥५३॥इति श्रीगणेशपुराणे क्रीडाखण्डे गुणत्रयकृतियोगोनाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥