गौरीदोहदवर्णनं नामैकोनत्रिंशोत्तरशततमोऽध्यायः
क उवाच
ततो दैत्यो मृत्युलोकं गतो गर्वादगर्जत ।
कम्पिताः पर्वताः सर्वे वृक्षा निपतिता भुवि
॥१॥पक्षि सिंहाः श्वापदानि बभ्रमुः कानने तदा ।
ततो जिगाय नृपतीन् सर्वान् वीरांश्च दानवः
॥२॥ब्रह्मादयो जिता येन तेनायुध्यन् कथं नृपाः ।
केचिद् द्विधा कृतास्तेन केचिन्नभसि बभ्रमुः
॥३॥केचिच्च सम्मुखे युद्धं कृत्वा स्वर्गं गता नृपाः ।
केचिच्च शरणं याताः सेवकत्वमुपागताः
॥४॥केचिद्भ्रष्टपदा जग्मुरभिमानेन काननम् ।
एवं जित्वा नृपान् सर्वान् मुनीनामाक्रमे मतिम्
॥५॥अकरोद् दुष्टबुद्धिः स बबन्ध सहसा च तान् ।
तदा केचिन्मुनिगणास्त्यक्त्वा देहं दिवं गताः
॥६॥केचिच्च मेरुकन्दर्यां न्यवसन्विगतज्वराः ।
केचिच्च निहतास्तेन केचिच्च ताडिता भृशम्
॥७॥प्रासादाः सकलास्तेन विध्वस्ता देवता अपि ।
एवं तु प्रलये जातेऽलुप्यन् क्रियाश्च वैदिकी
॥८॥स्वाहास्वधावषट्कारा हाहाकारोऽप्यजायत ।
देवा गिरिगुहास्थास्ते मुनयो यक्षकिन्नराः
॥९॥न्यमन्त्रयन्त कार्यार्थं तत्र प्राह बृहस्पतिः ।
विद्यमानेभ्यो देवेभ्यस्तेभ्यः सर्वेभ्य एव च
॥१०॥न भयं विद्यते तस्य तस्माद् देवं विनायकम् ।
प्रार्थयध्वं यदा विप्राःप्रादुर्भावं शिवालये
॥११॥गजाननेति नाम्ना स करिष्यति च साम्प्रतम् ।
हनिष्यति बलाद्दैत्यं सिन्दूरं नात्र संशयः
॥१२॥निराबाधं जगत्सर्वं भविष्यति तदा सुराः ।
एवमुक्तास्तु जीवेन ते तु देवादयोऽखिलाः ।
भक्त्या परमया युक्तास्तुष्टुवुस्तं विनायकम्
॥१३॥देवा ऊचुः
जगतः कारणं योऽसौ रविनक्षत्रसम्भवः ।
सिद्धसाध्यगणाः सर्वे यत एव च सिन्धवः
॥१४॥गन्धर्वाः किन्नरा यक्षा मनुष्योरगराक्षसाः ।
यतश्चराचरं विश्वं तं नमामि विनायकम्
॥१५॥यतो ब्रह्मादयो देवा मुनयश्च महर्षयः ।
यतो गुणास्त्रयो जातास्तं नमामि विनायकम्
॥१६॥यतो नानावताराश्च यश्च सर्वहृदि स्थितः ।
यं स्तोतुं नैव शक्नोति शेषस्तं गणपं भजेत्
॥१७॥सिन्दूरो निर्मितः केन विश्वसंहारकारकः ।
तेनार्तौ प्रापितं विश्वं त्वयि स्वामिनि जाग्रति
॥१८॥अन्यं कं शरणं यामः को नु पास्यति नोऽखिलान् ।
जह्येनं दुष्टबुद्धिं त्वमवतीर्य शिवालये
॥१९॥इत्युक्त्वा परितेपुस्ते नानानुष्ठानतत्पराः ।
निराहारा यताहाराः प्राणायामपरायणाः
॥२०॥धूमपानरताः केचित् केऽपि मौनावलम्बिनः ।
एकपादास्थिताः केचिज्जलमध्ये स्थिताः परे
॥२१॥ऊर्ध्वबाहुतया केचित्केचिच्च योगमास्थिताः ।
केचिच्चकृतुः स्वान्देहान्केचिच्च मस्तकानपि
॥२२॥एवं तेषां निरीक्ष्यैव तपांसि गणराट् तदा ।
आविरासीत् कोटिसूर्यप्रलयानलसन्निभः
॥२३॥दृष्ट्वा तेजोमयं रूपं जहृषुस्ते सुरास्तदा ।
यश्चिन्तितः स एवायमाविर्भूतोऽखिलेश्वरः
॥२४॥अपनेष्यति नो दुःखं नात्र कार्या विचारणा ।
तत ऊचे स भगवांस्तान् सुरांश्चिन्तया युतान्
॥२५॥हनिष्ये सिन्दुरं देवा मा चिन्तां कर्तुमर्हथ ।
दुःखप्रशमनं नाम स्तोत्रं वः ख्यातिमेष्यति
॥२६॥अतो दुःखविनाशो वा जातोऽस्मान्मदनुग्रहात् ।
एककालं द्विकालं वा त्रिकालं वापि यः पठेत्
॥२७॥कदाचिन्न भवेदस्य दुःखं त्रिविधमण्वपि ।
अहं तु साम्प्रतं देवा अवतीर्य शिवालये
॥२८॥नाम्ना गजानन इति ख्यातः सर्वार्थसाधकः ।
भविष्यामि हनिष्यामि सिन्दूरादीन्महासुरान्
॥२९॥करिष्यामि शिवादास्यं कौतुकानि प्रदर्शयन् ।
क उवाच ।
एवमुक्त्वा ततो देवांस्तत्रैवान्तरधीयत
॥३०॥ततोऽकस्माद् हैमवती शिवानुग्रहतो दधौ ।
तद् गर्भं ववृधेऽत्यन्तं दिने दिने यथा शशी
॥३१॥ततस्तत्तेजसा तप्ता नानादोहदकाङ्क्षिणी ।
उवाच शङ्करं गौरी सन्तप्ता गर्भतेजसा
॥३२॥अतिशीतस्थलं यत्र तत्र मां नय शङ्कर ।
ततोऽसौ वृषभारूढः पृष्ठे तामुपवेश्य ह
॥३३॥भासयन्ती महातेजःपुञ्जेन विदिशो दिशः ।
वाद्यत्सु सर्ववाद्येषु ययौ स क्षितिमण्डलम्
॥३४॥नानागणैः समायुक्तो बभ्राम काननानि सः ।
भ्रमता तेन दृष्टं हि पर्यलोकाननं महत्
॥३५॥तत्र विश्रान्तिमकरोत् पार्वत्यानुमते तदा ।
नानापुष्पसमाकीर्णं नानाद्रुमफलान्वितम्
॥३६॥सरोवापीयुतं सान्द्रतरुच्छायं मनोरमम् ।
यत्रोस्त्राणां न प्रवेशः कैलासशिखरोपमम्
॥३७॥नन्दनादधिशोभं तद् वनं चैत्ररथादपि ।
तद्वीक्ष्य गिरिजा प्रोच इच्छया सदृशं शिवम्
॥३८॥वनं प्राप्तं महादेव क्रीडावोऽत्र चिरं विभो ।
गणानामपि सर्वेषां प्रीतिस्तत्र ह्यभूत्तदा
॥३९॥ततो गणा मण्डपं ते चक्रुस्तत्प्रियकाम्यया ।
नानावेदीगृहयुतं नानोपस्करसंयुतम्
॥४०॥तत ऊचे शिवो देवीं वसात्र त्वं गणैर्युता ।
यद्यते प्रार्थितं तत्ते दास्यन्ति मदनुग्रहात्
॥४१॥ततः स्वयं जगामाशु ध्यानस्थोऽभूद्धिमालये ।
सखीभिः पार्वती तत्र चिक्रीडे सा यथारुचि
॥४२॥अरक्षंस्तां कोटिगणाः समन्तादावृतास्तदा ।
तदाज्ञावशगाः सर्वे कन्दमूलफलाशिनः
॥४३॥इति श्रीगणेशपुराणे क्रीडाखण्डे गौरीदोहदवर्णनं नामैकोनत्रिंशोत्तरशततमोऽध्यायः ॥ १२९ ॥