मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय ६

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 6

पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनम्

गौतम उवाच

पुरा नारायणः कल्पे शयानः सलिलार्णवे ॥

शेषपर्यंकशयने कदाचिन्नैव बुध्यत

॥१॥

तमसा पूरितं विश्वमपज्ञातमलक्षणम् ॥

वीक्ष्य कल्पावसानेऽपि विषेदुर्नित्यसूरयः

॥२॥

अहो कष्टमिदं रूपं तमसा विश्वमोहनम् ॥

येन कल्पावसानेपि विष्णुर्नाद्यापि बुध्यते

॥३॥

ज्योतिषः पुरुषं पूर्णमपश्यंतं सुरा अपि ॥

कथं वा तमसः शांतिं लभेरन्परिभाविनः

॥४॥

इति निश्चित्य मनसा देवदेवमुमापतिम् ॥

चिंतयामासुरात्मस्थं तेजोराशिं निरंजनम्

॥५॥

ततः प्रसन्नो भगवांस्तेजोराशिर्महेश्वरः ॥

विश्वावनाय विज्ञप्तः प्रणतैर्नित्यसूरिभिः

॥६॥

ततस्तेजोमयाच्छंभोः स्फुलिंगांशुसमुद्भवाः ॥

उदस्तंभंत देवानां त्रयस्त्रिंशच्च कोटयः

॥७॥

बोधितः सकलैर्देवैः समुत्थाय रमापतिः ॥

प्रभातं वीक्ष्य सकलं मनस्येवमचिन्तयत्

॥८॥

मया तमसि उद्रेकादकाले शयनं कृतम् ॥

प्रबोधाय परं ज्योतिः स्वयं दृष्टः सदाशिवः

॥९॥

जगदुत्पत्तिकृत्यानि स्वयं कर्तुं व्यवस्यति ॥

किं मयात्र पुनः कार्यं ब्रह्मणा वा स्वयंभुवा

॥१०॥

धिङ्मां स्थितमनात्मज्ञं निद्रया हृतचेतसम् ॥

अथवा सर्वकर्तारं शरणं यामि शंकरम् ॥

सर्वदोषप्रशमनं सर्वाभीष्टफलप्रदम् ॥

पवित्रमल्पपुण्यानां दुर्लभं शंभुदर्शनम्

॥१२॥

चिंतयन्नेवमात्मस्थं ज्योतिर्लिंगं सदाशिवम् ॥

प्रणनाम हरिर्भक्त्या देवमष्टांगतो मुहुः

॥१३॥

विश्वस्रष्टारमीशानं तुष्टाव दुरितच्छिदम् ॥

अथ तेजोमयः शंभुः शरण्यः शरणागतम्

॥१४॥

अनुगृह्य कटाक्षैस्तं समुत्तिष्ठेत्यभाषत ॥

उत्थाय करुणापूर्णं शंभुं चंद्रार्द्धशेखरम्

॥१५॥

नमस्त्रिभुवनेशाय त्रिमूर्तिगुणधारिणे ॥

त्रिदेववपुषे तुभ्यं त्रिदृशे त्रिपुरद्रुहे

॥१६॥

त्वमेव जगतामीशो निजांशैर्देवतामयैः ॥

कार्यकारणरूपेण करोषि स्वेच्छया क्रियाः

॥१७॥

मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया ॥

न दोषमुत संकल्पं विहातुमपि नेच्छसि

॥१८॥

किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि ॥

न दोषमीहसे नूनमकालशयनेन माम्

॥१९॥

हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः ॥

आदिदेश हरः श्रीमान्प्रायश्चित्तं हरेरिदम्

॥२०॥

अरुणाचलरूपेण तिष्ठामि वसुधातले ॥

तस्य दर्शनमात्रेण भविता ते तमः क्षयः

॥२१॥

पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा ॥

तदैव तैजसं लिंगमरुणाचल संज्ञितम् ॥

तेजोमयमिदं रूपं प्रशांतं लोकरक्षणात् ॥

यदग्निमयमव्यक्तमपारगुणवैभवम्

॥२३॥

नदीनां निर्झराणां च मेघमुक्तांभसामपि ॥

अंतर्ज्योतिर्मयत्वेन लयस्तत्रैव दृश्यते

॥२४॥

अंधानां दृष्टिलाभेन पंगूनां पादसंचरैः ॥

अपुत्राणां च पुत्राप्त्या मूकानां वाक्प्रवृत्तिभिः

॥२५॥

सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः ॥

सर्वपापप्रशमनैर्यत्सर्ववरदं स्थितम्

॥२६॥

इत्युक्तांतर्दधे शम्भुर्हरिश्चैवारुणाचलम् ॥

आगत्य तप आस्थाय शोणाचलमुपास्त च

॥२७॥

तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् ॥

ऋषीणामाश्रमान्पुण्यान्स्थापयामास वै हरिः ॥

वेदान्सांगोपनिषदान्समंतान्मूर्तिधारिणः

॥२८॥

ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम् ॥

नृत्यैर्गीतैश्च वादित्रैस्सेवध्वमिति चादिशत्

॥२९॥

स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः ॥

प्रदक्षिणं चकारामुमरुणाद्रिं समर्चितम्

॥३०॥

अपापः सर्वलोकानामाधिपत्यं च लब्धवान् ॥

रमया सहितो नित्यमभिरूपसुरूपया

॥३१॥

भास्करस्तेजसां राशिरसुरैरपि पीडितः ॥

ब्रह्मोपदेशादानर्च भक्त्यारुणगिरीश्वरम्

॥३२॥

निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते ॥

प्रदक्षिणं चकारैनमरुणार्द्रि स्वयंप्रभुम्

॥३३॥

अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम् ॥

लेभे च परमं तेजः परतेजःप्रणाशनम्

॥३४॥

दक्षशापानलाक्रांतस्सोमः शिववचोबलात् ॥

अरुणाचलमभ्यर्च्य लब्धरूपोऽभवत्पुनः

॥३५॥

अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः ॥

अपूतोऽपि पवित्रोऽभूदरुणाचलसेवया

॥३६॥

शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम् ॥

शिवलब्धवरान्दैत्यान्पुरा हत्वा जगत्पतीन्

॥३७॥

पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः ॥

शम्भुं प्रसाद्य तपसा शिवेन परिचोदितः!

॥३८॥

अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः ॥

इष्ट्वा च हयमेधेन प्रीणयामास शंकरम्

॥३९॥

लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् ॥

सेवार्थमादिशन्छ्रीमान्दिव्यदुंदभिसेवया

॥४०॥

पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः ॥

समर्चयति शोणाद्रिं दिवि नित्यं च वंदते

॥४१॥

शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया ॥

अभजत्कामरूपत्वं महीमण्डलधारकः

॥४२॥

अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः ॥

दिक्पालाश्च तमभ्यर्च्य लेभिरेऽपेक्षितान्वरान्

॥४३॥

देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः ॥

प्रार्थितः सर्वतोऽभीष्टवरदोऽरुणभूधरः

॥४४॥

त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन् ॥

ग्रहनाथस्तु शोणाद्रिं विलंघयितुमुद्यतः

॥४५॥

रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः ॥

सोऽपि श्रिया विहीनश्च जातः गोणाद्रितेजसा

॥४६॥

नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः ॥

स तु ब्रह्मोपदेशेन समाराध्यारुणाचलम्

॥४७॥

प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान् ॥

ततः प्रभृति तिग्मांशुः स हि शोणाख्यपर्वतम्

॥४८॥

न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः ॥

दक्षयागपरिध्वस्ता हीनांगास्त्रिदशाः पुरा

॥४९॥

अरुणाचलमाराध्य नवान्यंगानि लेभिरे ॥

पूषा दन्तं शिखी हस्तं भगो नेत्रं त्वखंडितम्

॥५०॥

घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात् ॥

भार्गवः क्षीणनेत्रस्स विष्णुहस्तकुशाग्रतः

॥५१॥

बलिदत्तावनीदानजलधारानिरोधतः ॥

स तु शोणाचलं गत्वा तपः कृत्वातिदुष्करम्

॥५२॥

लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः ॥

अरुणाचलनाथस्य सेवया सूर्यसारथिः

॥५३॥

प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम् ॥

अरुणाद्रिपतेर्गानं कुर्वंतीं सादरोऽभवत्

॥५४॥

क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः ॥

प्रत्यर्प्य तां पुनश्चान्याः प्रादादरुणभूभृते

॥५५॥

ततश्चारुमुखोजातः प्रसादादरुणेशितुः ॥

सायुज्यमस्मै सकलं दत्तवान्भक्तिभावतः

॥५६॥

अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः ॥

गंधर्वः पुष्पकाख्यस्तु भक्तिहीनो ह्यगात्पुरा

॥५७॥

ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः ॥

किमेतदिति साश्चर्यं पप्रछुस्ते परस्परम्

॥५८॥

अथ नारद निर्दिष्टमवज्ञाफलमात्मनः ॥

बुद्ध्वारुणाद्रिं संपूज्य पुनश्च सुमुखोऽभवत्

॥५९॥

शिवभूमिरियं ख्याता परितो योजनद्वयम् ॥

मुक्तिस्तत्र प्रमीतानां कदापि विलयो न हि

॥६०॥

सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः ॥

सिषेविरेरुणाद्रिं वै नाथो ज्ञात्वा विनिश्चयम्

॥६१॥

शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम् ॥

सप्तर्षिभिः कृतं तीर्थं सर्वपापविनाशनम्

॥६२॥

शोणाचलस्य निकटे दृश्यते पावनं शुभम् ॥

पंगुर्मुनिः शोणशैलात्पादौ लब्धुं समागतः

॥६३॥

अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन् ॥

जानुचंक्रमणव्यग्रः शोणनद्यास्तटं गतः

॥६४॥

दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः ॥

जानुचंक्रमणे तस्मिन्धूर्तस्तोयं पिपासति

॥६५॥

अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः ॥

किमेतदिति तं पृच्छन्नाधावत्कलितत्परः

॥६६॥

लब्धपादश्च सहसा जगाम च निजालयम् ॥

नाद्राक्षीत्पुरुषं तत्र दारुहस्तौ पुरोगमौ

॥६७॥

स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम् ॥

ननंद लब्धचरणो लब्धरूपो महामुनिः

॥६८॥

विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः ॥

पूजितो लब्धपादः सञ्जगाम च यथागतम्

॥६९॥

वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः ॥

अस्ताचलस्य शिखरं प्रतिगन्तुं समुद्यतः

॥७०॥

आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम् ॥

ऊर्ध्वं गंतुं समुद्युक्तः क्षीणवीर्योऽपतद्भुवि

॥७१॥

पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम् ॥

लिंगं तैजसमभ्यर्च्य लब्धवीर्योऽभवत्पुनः

॥७२॥

नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः ॥

पालयामास धर्मात्मा नीतिसारसमन्वितः

॥७३॥

इलः प्रविश्य सहसा गौरीवनमखंडितम् ॥

स्त्रीभावं समनुप्राप्तः पप्रच्छ स्वं पुरोधसम्

॥७४॥

वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत् ॥

तपसाराध्य देवेशं पुनः पुंस्त्वमुपागतः

॥७५॥

सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम् ॥

ईशानुग्रहतो लेभे शापमोक्षं तपोधिकः

॥७६॥

लेभे च परमं स्थानमप्राप्यममरैरपि ॥

भरतो मृगशावस्य स्मरणादायुषोऽत्यये

॥७७॥

न मुक्तिं प्राप योगेन मृगजन्मनि संगतः ॥

पत्नीविरहजं दुःखं प्राप्तवानमितं हरिः

॥७८॥

पुनर्भृगूपदेशेन शोणाद्रिमिममर्चयन् ॥

अवतारेषु सर्वेषु सर्वदुःखान्यपाकरोत्

॥७९॥

सरस्वती च सावित्री श्रीर्भूमिः सरितस्तथा ॥

अभ्यर्च्य शोणशैलेशमापदो निरतारिषुः

॥८०॥

भास्करः पूर्वदिग्भागे विश्वामित्रस्तु दक्षिणे ॥

पश्चिमे वरुणो भागे त्रिशूलं चोत्तराश्रयम्

॥८१॥

योजनद्वयपर्यंते सीमाः शैलेषु संस्थिताः ॥

चतस्रो देवतास्त्वेताः सेवंते शोणपर्वतम्

॥८२॥

स्थिताः सीमावसानेषु शोणाद्रीशमवस्थितम् ॥

नमंति देवाश्चत्वारः शिवं शोणाचलाकृतिम्

॥८३॥

अस्योत्तरस्मिञ्छिखरे दृश्यते वटभूरुहः ॥

सिद्धवेषः सदैवास्ते यस्य मूले महेश्वरः

॥८४॥

यस्य च्छायातिमहती सर्वदा मण्डलाकृतिः ॥

लक्ष्यते विस्मयोपेतैः सर्वदा देवमानवैः

॥८५॥

अष्टभिः परितो लिंगैरष्टदिक्पालपूजितैः ॥

अष्टासु संस्थितैर्दिक्षु शोभते ह्युपसेवितः

॥८६॥

नृपाणां शम्भुभक्तानां शंकराज्ञानुपालिनाम् ॥

अत्रैव महदास्थानमादिदेवेन निर्मितम्

॥८७॥

बकुलश्च महांस्तत्र सदार्थितफलप्रदः ॥

आगमार्थविदा मूले वामदेवेन सेव्यते

॥८८॥

अगस्त्यश्च वशिष्ठश्च संपूज्यारुणभूधरम् ॥

संस्थाप्य लिंगे विमले तेपाते तादृशं तपः

॥८९॥

हिरण्यगर्भतनयः पुरा शोणनदः पुमान् ॥

अत्र तीव्रं तपस्तप्त्वा गंगाभिमुखगोऽभवत

॥९०॥

अत्र शोणनदी पुण्या प्रवहत्यमलोदका ॥

वेणा च पुण्यतटिनी परितः सेवतेऽचलम्

॥९१॥

वायव्याश्च दिशो भागे वायुतीर्थं च शोभते ॥

तत्र स्नात्वा मरुत्पूर्वं जगत्प्राणत्वमाप्तवान्

॥९२॥

उत्तरेऽस्य गिरेस्तीर्थं सुवर्णकमलोज्ज्वलम् ॥

दिव्यसौगंधिकाकीर्णं हंसभृंगमनोहरम्

॥९३॥

कौबेरं तीर्थमेशान्यामैशान्यं तीर्थमुत्तमम्

॥९४॥

तस्यैव पश्चिमे भागे विष्णुः कमललोचनः ॥

स्नात्वा विष्णुत्वमभजत्कमलालालिताकृतिः

॥९५॥

नवग्रहाः पुरा तत्र स्नात्वा ग्रहपदं गताः ॥

नवग्रहप्रसादश्च जायते तत्र मज्जताम्

॥९६॥

दुर्गा विनायक स्कन्दो क्षेत्रपालः सरस्वती ॥

रक्षंति परितस्तीर्थं ग्राहयमेतदनन्तरम्

॥९७॥

गंगा च यमुना चैव गोदावरी सरस्वती ॥

नर्मदासिन्धुकावेर्यः शोणः शोर्णनदी च सा

॥९८॥

एता गूढा निषेवंते पूर्वाद्याशासु संततम् ॥

नश्यंत्यः सकलं पापमात्मक्षेत्रसमुद्भवम्

॥९९॥

अन्याश्च सरितो दिव्याः पार्थिव्यश्च शुभोदकाः ॥

उदजृंभंत सहसा शोणाद्रीशप्रसादतः

॥१००॥

आगस्त्यं दक्षिणे भागे तीर्थं महदुदाहृतम् ॥

सर्वभाषार्थसंसिद्धिर्जायते तत्र मज्जताम्

॥१०१॥

अत्रागस्त्यः समागत्य स्नात्वा मुनिगणावृतः ॥

अभ्यर्चयति शोणाद्रिं मासि भाद्रपदे सदा

॥१०२॥

वाशिष्ठमुत्तरे भागे तीर्थं दिव्यं शुभोदयम् ॥

सर्ववेदार्थसंसिद्धिर्जायते तत्र मज्जनात्

॥१०३॥

अत्र मेरोः समागत्य वशिष्ठो भगवानृषिः ॥

करोत्याश्वयुजे मासि शोणाद्रीशनिषेवणम्

॥१०४॥

गंगानाम महत्तीर्थं पूर्वोत्तरदिशि स्थितम् ॥

तत्र स्नानाद्भवेन्नृणां सर्वपातकनाशनम्

॥१०५॥

गंगाद्याः सरितः सर्वाः कार्त्तिके मासि संगताः ॥

अत्रारुणाद्रिनाथस्य सेवां कुर्वंति सादरम्

॥१०६॥

ब्राह्म्यं नाम महातीर्थमरुणाद्रीशसन्निधौ ॥

तस्योपसंगमात्सद्यो ब्रह्महत्यादि नश्यति

॥१०७॥

मार्गे मासि समागत्य ब्रह्मलोकात्पितामहः ॥

स्नात्वा तत्प्रत्यहं देवमर्चयत्यरुणाचलम्

॥१०८॥

पौषे मासि समागत्य स्नात्वा तीर्थे निजैः सुरैः ॥

महेन्द्रः शोणशैलेशमभ्यर्चयति शंकरम्

॥१०९॥

शैवंनाम महातीर्थं संनिधौ तत्र वर्तते ॥

रुद्रो ब्रह्मकपालेन सह तत्र न्यमज्जत

॥११०॥

अत्र शम्भुर्गणैः सार्द्धं माघे मासि प्रसीदति ॥

प्रायश्चित्तानि सर्वाणि नॄणां सफलयन्भुवि

॥१११॥

आग्नेयमग्निदिग्भागे तीर्थं सौभाग्यदायकम् ॥

अग्निरत्र पुरा स्नात्वा स्वाहया संगतः सुखी

॥११२॥

अनंगोपि स्मरः स्नात्वा फाल्गुने मासि संगतः ॥

अभ्यर्च्य शोणशैलेशमभूत्सर्वसुखाधिपः

॥११३॥

दिशि दक्षिणपूर्वस्यां वैष्णवं तीर्थमद्भुतम् ॥

ब्रह्मर्षयः सदा तत्र वसंति कृतकौतुकाः

॥११४॥

चैत्रे मासि समागत्य विष्णुस्तत्र रमापतिः ॥

स्नात्वाभ्यर्च्यारुणाद्रीशमभवल्लोकनायकः

॥११५॥

सौरंनाम महातीर्थं कौबेरदिशि जृंभितम् ॥

सर्वरोगोपशांतिश्च जायते तत्र मज्जनात्

॥११६॥

वैशाखे मासि दिनकृत्स्नात्वात्रेशं निषेवते ॥

वालखिल्यैः समं श्रीमान्वेदैश्च सह संगतः

॥११७॥

आश्विनं पावनं तीर्थमीशब्रह्मोत्तरे स्थितम् ॥

आप्लुतौ भिपजौ दस्रौ पूतावत्र निमज्जनात्

॥११८॥

अत्राश्विनौ समागत्य स्नात्वाभ्यर्च्य च शंकरम् ॥

दक्षिणे शोण शैलस्य निकटे वर्त्तते शुभम्

॥११९॥

कामदं मोक्षदं चैव तीर्थं पांडवसंज्ञितम् ॥

पुरा हि पांडवास्तत्र मजनात्क्षितिनायकाः

॥१२०॥

अत्र धात्री समागत्य सर्वौषधिफलान्विता ॥

ज्येष्ठे मासि समं देवैरार्चयच्चारुणाचलम्

॥१२१॥

आषाढे मासि संत्यक्ता विश्वेदेवा महाबलाः ॥

अभ्यर्च्य शोणशैलेशमागच्छन्मखराध्यताम्

॥१२२॥

वैश्वदेवं महातीर्थं सोमसूर्योत्तराश्रयम् ॥

विश्वाधिपत्यमतुलं लभ्यते तत्र मज्जनात्

॥१२३॥

परितो लक्ष्यते तीर्थं पूर्वस्यां दिशि शोभने ॥

अत्र लक्ष्मीः पुरा स्नात्वा लेभे पुरुषमुत्तमम्

॥१२४॥

उत्तरस्यां दिशि पुरा पुण्या स्कंदनदी स्थिता ॥

अत्र स्नात्वा पुरा स्कंदः संप्राप्तो विपुलं बलम्

॥१२५॥

पश्चिमस्यां दिशि ख्याता परा कुंभनदी शुभा ॥

अगस्त्यः कुंभकः कुंभस्तत्र नित्यं व्यवस्थितः

॥१२६॥

गंगा च मूलभागस्था यमुना गगने स्थिता ॥

सोमोद्भवा शिरोभागे सेवंते शोणपर्वतम्

॥१२७॥

बहून्यपि च तीर्थानि संभूतानि समंततः ॥

तेषां भेदान्पुरा वेत्तुं मार्कण्डेयस्तु नाशकत्

॥१२८॥

तपोभिर्बहुभिस्सोयं शोणाद्रीशमतोषयत् ॥

प्रार्थयामास च वरं प्रीतात्तस्मान्मुनीश्वरः

॥१२९॥

मार्कण्डेय उवाच

भगवन्नरुणाद्रीश तीर्थभेदाः सहस्रशः ॥

प्रख्याताश्च प्रकाशंते दुर्बोधास्त्वल्पचेतसाम्

॥१३०॥

कथमेकत्र सांनिध्यं लभेरन्भुवि मानवाः ॥

अपर्याप्तश्च भवति पृथगेषां निषेवणे

॥१३१॥

अंतर्निगूढतेजास्त्वं गत्वा यस्सकलैः सुरैः ॥

आरण्यसे कुरु तथा शोणाद्रिस्पर्शभीरुभिः

॥१३२॥

अहं च शंभुमभ्यर्च्य तपसारुणपर्वतम् ॥

सर्वलोकोपकारार्थं सूक्ष्म लिंगमपूजयम्

॥१३३॥

विश्वकर्मकृतं दिव्यं विमानं विविधोत्सवम् ॥

संकल्प्य सकलान्भोगान्नित्यानजनयत्पुनः

॥१३४॥

धर्मशास्त्राणि विविधान्यवापुर्मुनिपुंगवाः ॥

शिवकार्याणि सर्वाणि चक्रुभक्तिसमन्विताः

॥१३५॥

मया च शंभुमभ्यर्च्य कृताग्न्याहुतिसंभवाः ॥

सप्त कन्या वरारोहाः पूजार्थं विनियोजिताः

॥१३६॥

हतशत्रुगणैभूपैर्लब्धराज्यैः पुरा नृपैः ॥

प्रत्येकं विविधैर्भोगैः शोणशैलाधिपोर्चितः

॥१३७॥

इदमनुभववैभवं विचित्रं दुरितहरं शिवलिंगमद्रिरूपम् ॥

अमलमनभिगम्यनामधेयं वरमरुणाद्रिनायकं भजस्व

॥१३८॥

अवनतजनरक्षणोचितस्य स्मरणनिराकृतविश्वकल्मषस्य ॥

भजनममितपुण्यराशियोगादरुणगिरेः कृतिनः परं लभस्व

॥१३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धेऽरुणाचलस्थविविधतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥