युद्धवर्णनम्
ब्रह्मोवाच
अथ देवा महीं हित्वा महिषासुरपीडिताः ॥
नत्वा गौरीं तपस्यंतीं जग्मुः शरणमाकुलाः
॥१॥अथ तानभयं देहि देवीति भयविह्वलान् ॥
अमरान्वीक्ष्य सा देवी किं कार्यमिति चाभ्यधात्
॥२॥ततो विज्ञापयामासुर्दैत्येंद्राद्भयमात्मनाम् ॥
देव्यै बद्धांजलिपुटा देवा इंद्रपुरोगमाः
॥३॥देवा ऊचुः
अप्सरोभिः परिवृतः सुखं क्रीडति नंदने ॥
ऐरावतमुखान्सर्वान्दिङ्नागान्निजमंदिरे
॥४॥आवसयन्विनोदार्थमंगनाभिः सहागतान् ॥
उच्चैःश्रवःपुरोगानामुपभोगं करोत्यसौ
॥५॥मंदुरास्वस्य रम्यासु दृश्यंते लक्षकोटयः ॥
हुताशवाहनं मेषं पुत्रारोहार्थमीप्सति
॥६॥याम्यं महिषमानीय शकटे सोऽभ्यवाहयत् ॥
सिद्धीराकृष्य सकला गृहकर्मणि चादिशत्
॥७॥अप्सरःसंघमखिलमात्मसेवार्थमानयत् ॥
अन्यत्किमपि यद्वस्तु रत्नभूतं जगत्त्रये
॥८॥अनाहृतं पुनर्हर्तुं न विश्राम्यति कोपवान् ॥
वयं च सेवका भूत्वा नित्यं भीतिसमन्विताः
॥९॥पूजयंतश्च तस्याज्ञां नान्यां वीक्षामहे गतिम् ॥
शरणागतसंत्राणं तपःफलमुदाहृतम्
॥१०॥दुर्जयोऽयं वरो दैत्यः सर्वेषां बलिनामपि ॥
सुराणामपि दैत्यानां शिवाल्लब्धवरोदयः
॥११॥अस्य शृंगाहतः सिंधुर्व्यावर्जितमिति ब्रुवन् ॥
रत्नोपहारदानेन नित्यं तत्प्रीतिमिच्छति
॥१२॥पर्वतांश्च समुत्क्षिप्य शृंगाग्रेण महोद्धतः ॥
क्रीडति क्षोदिताशेषधातुधूलिविलेपनैः
॥१३॥न शक्यमतुलं तस्य बलमन्यदुरासदम् ॥
स्वयमेव विजानीहि हत्वा ते निजतेजसा
॥१४॥शंभुशक्तिः परा सेयं स्त्रीरूपेणात्र दृश्यते ॥
त्वयैवायं निहंतव्यः शिवाल्लब्धवरो ह्ययम्
॥१५॥न जानीमो वयं देवि किंचिच्छंभुविचेष्टितम् ॥
केवलं पालनीयाः स्म जगन्मात्रा सदा त्वया
॥१६॥इति तेषां भयार्तानामाकर्ण्य वचनं शुभम् ॥
व्याजहार प्रसन्नात्मा देवी दत्त्वाभयं तदा
॥१७॥शरणागतसंत्राणं तपसि स्थितया मया ॥
कर्त्तव्यममराः कालात्क्षीणः शत्रुर्भविष्यति
॥१८॥उपायेन समाकृष्य हनिष्यामि महासुरम् ॥
निरागसस्तु हननमद्य मे न हि युज्यते
॥१९॥धर्मगे धर्मभेत्तारः शलभत्वं व्रजंति हि ॥
देवास्तद्वचनं श्रुत्वा प्रणम्य गिरिकन्यकाम्
॥२०॥जग्मुर्यथागतं सर्वे निर्भया हृष्टचेतसः
॥२१॥गतेषु तेषु देवेषु गौरी कमललोचना ॥
बभूव मोहिनी शक्तिः कांतियुक्ता ततोदरी
॥२२॥सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः ॥
रक्षार्थं स्थापितवती चतुरो बटुकान्वरान्
॥२३॥यदा कैलासशिखरादागता शैलकन्यका ॥
अन्वगच्छन्सेवमानाश्चतस्रो मातरस्तदा
॥२४॥दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा ॥
सुन्दरीति चतस्रस्तामन्वयुः परिचारिकाः
॥२५॥विमुञ्चतातिथिं श्रांतं क्षुत्पिपासा समन्वितम् ॥
अरुणाद्रिमिमं द्रष्टुं नान्यमित्यब्रवीच्च तान्
॥२६॥सीमाशलस्थितान्वीरांस्तानादिश्य बलाधिकान् ॥
तपश्चचाराद्रिकन्या गौतमाश्रमसन्निधौ
॥२७॥तस्यां तपत्यां तन्वंग्यां न तापः कश्चिदप्यभूत् ॥
ववर्ष काले जलदः सफलाश्चाभवन्द्रुमाः
॥२८॥विरोधीनि च सत्त्वानि मुमुचुः पूर्वमत्सरम् ॥
आश्रमः सर्वजन्तूनां शरण्योऽभूद्भयापहः
॥२९॥योजनद्वयपर्यंतं सीमाशैलेषु संस्थितैः ॥
चतुभिर्वटकैः शूरै रक्षितश्चारुणाचलः
॥३०॥नोदभूत्कश्चन त्रासो न च दृष्टो भयोदयः ॥
न व्याधिपीडनं चासीत्तत्र नारिविजृंभणम्
॥३१॥कृतार्था मुनयः सर्वे प्रशंसंतो नगात्मजाम् ॥
शिवलोकपदं केचित्प्रत्यशंसंस्तथाश्रमम्
॥३२॥सा च गौरी तपो घोरं कुर्वती च दिवानिशम् ॥
न तृप्तिमाययौ बाला शिवसंतोषकारकम्
॥३३॥महिषश्च महावीर्यो मृगयां कर्तुमुद्यतः ॥
चचार काननं सर्वं विदूरे शोणभूभृतः
॥३४॥दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः ॥
वनेषु निघ्नस्तरसा विचचाराशु भक्षयन्
॥३५॥धन्विभिर्बलिभिर्वीरैर्मृगाः केचिदनुद्रुताः ॥
भयार्त्ताः परिधावंतः प्राविशंस्तं तथाश्रमम्
॥३६॥अनुव्रजन्तो दितिजा मृगांस्तान्हंतुमुद्यताः ॥
वारिता बटुकैर्वीरैर्मा यातात्रेति सत्वरैः
॥३७॥किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः ॥
तपस्यति वरारोहा कन्यात्रेत्याहुरंजसा
॥३८॥न केनचित्प्रवेष्टव्यं बलिना मुनिसेवितम् ॥
तपःस्थानमिदं देव्याः शरणागतरक्षकम्
॥३९॥इति तेषां वचः श्रुत्वा बलिनो दुष्टदानवाः ॥
तथेति विनिवृत्त्याशु कर्त्तव्यं समचिंतयन्
॥४०॥मायया पक्षिरूपास्ते प्रविश्याश्रममादरात् ॥
आरामवृक्षशाखासु निषेदुः खादिहेक्षितुम्
॥४१॥सा पुनर्ल्लसितारण्ये सर्वर्तुकुसुमान्विते ॥
तपस्यन्ती तदा दृष्टा माया दैत्यस्य सैनिकैः
॥४२॥रूपलावण्यते तस्या निश्चयं तपसि स्थितम् ॥
वीक्ष्य ते विस्मयोपेता गत्वा तस्मै न्यवेदयन्
॥४३॥स स्मरार्तो वृद्धरूपः प्रविवेशाश्रमं तदा ॥
पूजितोऽस्याः सखीभिश्च गतश्रांतिरिव स्थितः
॥४४॥वृद्धोऽपृच्छत्किमर्थं तु तपोऽस्या इति तास्तथा ॥
बाला कांतप्रसादार्थं चिरमत्र तपस्यति
॥४५॥परं स बलवान्कांतो न कदापि प्रसीदति ॥
कार्यं विवाहसमये मनोरथं यथोचितम्
॥४६॥अपूर्वप्रभुणा तेन नवोपकरणं महत् ॥
सद्योजातकुलालेन सद्यः सृष्टैर्विपाचितैः
॥४७॥भाजनरपि साद्यस्कैर्न्यस्तः पक्वैश्च शालिभिः ॥
तादृशैः साधनैः सर्वैस्तादृशैर्द्रव्यसंचयैः
॥४८॥अपूर्वदृष्टविभवैः कार्यं स्यादुपकारणम् ॥
सिद्धे तथोपकरणेऽस्याः सद्योऽस्तु स्वयंवरः
॥४९॥इति तासां वचः श्रुत्वा विहसन्महिषोऽभ्यधात् ॥
तपःफलमहं प्राप्तः सत्यमस्या इति स्थितम् ॥
मदीया सकलां भूतिं शृणु बाले तपस्विनि
॥५०॥महिषोऽहं महावीरो दैत्येन्द्रः सुरवंदितः ॥
जगत्त्रयमिदं सर्वं मयैव परिगृह्यते
॥५१॥अनन्यवीरसद्भावो मय्येव भुजशुष्मणा ॥
कामरूपोस्म्यहं बाले सर्वभोगप्रदायकः
॥५२॥भज मां तव भर्त्तारं प्राणिनां तपसः फलम् ॥
सर्वं संपादयिष्यामि कल्पवृक्षैः समाहृतैः
॥५३॥सृजामि तपसा चाहं विश्वकर्माणमादितः ॥
कामधेनुसहस्राणि सृजामि तपसा क्षणात्
॥५४॥नवभिर्निधिभिः प्राप्तैः पार्श्वस्थैर्नित्यदा मम ॥
अपेक्षितार्थसंसिद्धिः सहसैवोपपाद्यते
॥५५॥इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात् ॥
विसृज्य मौनं शनकैर्विहसंती तमब्रवीत्
॥५६॥अहं बलवतो भार्या भविष्यामि तपश्चिरम् ॥
करोमि यद्यसि बली बलं दर्शय मे निजम्
॥५७॥विरच स्त्रीस्वभावं स्वं श्रुत्वा तद्वाक्यमुत्थितम् ॥
हते कोयमिति क्रोधान्ननर्द महिषासुरः
॥५८॥जिघृक्षतं समायांतं वीक्ष्य तं महिषासुरम् ॥
अभूद्दुरासदा दुर्गा कन्या सा ज्वलनाकृतिः
॥५९॥महामायां समालोक्य ज्वलंती पुरतः स्थिताम् ॥
स्वयं स महिषाकारो ववृधे मेरुसन्निभः
॥६०॥कुलभूधरशृंगाणि शृंगाभ्यां मुहुराक्षिपन् ॥
आजुहाव निजां सेनामापूरितदिगंतराम्
॥६१॥अथ ब्रह्ममुखा देवाः प्रणम्य विविधायुधैः ॥
पूजयामासुरात्मीयैर्दुर्गां कालाग्निरूपिणीम्
॥६२॥पंचहेतीर्हरिः प्रादाद्दश चापि सदाशिवः ॥
ब्रह्मा चतस्रश्च तदा तस्यै मायातिरोहिताः
॥६३॥दिक्पालाश्च सुराश्चान्ये पर्वताश्च पयोधयः ॥
स्वीयैराभरणैः शस्त्रैरधृष्यास्तामपूजयन्
॥६४॥माया सा बहुभिर्हस्तैर्ज्वलदायुधसंचयैः ॥
आबद्धकवचा तूर्णं दुर्गाभूत्सिंहवाहना
॥६५॥आपूरितदिशाभोगा तेजस्तत्सोढुमक्षमः ॥
दुर्गाया घोरमालोक्य महिषस्तु पलायितः
॥६६॥अथ तेजो निजं घोरं प्रज्वलत्सोढुमक्षमम् ॥
पलायमानमालोक्य महिषं सा व्यचिंतयत्
॥६७॥उपायेन निहंतव्यो दुष्टोऽयं महिषासुरः ॥
मदपूर्वं निवृत्यंते मृगा मृगयुभिर्वने
॥६८॥दूतोक्तिभिः समाकृष्य मृद्वीभिर्मर्मवृत्तिभिः ॥
कोपमस्य समुद्भाव्य करिष्येभिमुखं क्षणात्
॥६९॥अधर्मवृत्तियुक्तानां धर्मवाक्यपरिश्रवात् ॥
कोपः समुद्भवेत्सद्यः स्वजीवक्षयकारणम्
॥७०॥अथवा धर्मबुद्धिस्सन्यदि शांतो भविष्यति ॥
तदा हितोपदेशेन धर्मलोपो न संभवेत्
॥७१॥तपस्यद्भिः सदा कार्यः कोपत्यागः फलान्वितः ॥
धर्महानिर्न सोढव्या तत्कोपो हि तपः परम्
॥७२॥इति संचिंत्य सा गौरी नाम्ना सुरगुरुं मुनिम् ॥
संकल्प्य वानरमुखं प्राहिणोदसुरं प्रति
॥७३॥गच्छ त्वं मायया युक्तो महर्षे वानरानन ॥
महिषं बोधयित्वा च वचनं शीघ्रमाव्रज
॥७४॥मैव त्वमरुणाद्रीशमुपपीडय दुर्मते ॥
अत्र दुर्मनसां वीर्यमदृश्यं भवति क्षणात्
॥७५॥न कलेरुपतापोऽत्र नासुरैरपि पीडनम् ॥
न साहसं च शुभदं शिवभक्तिमतामपि
॥७६॥पूर्वजन्मकृतैः पुण्यैर्लब्धवीर्यमहोदयः ॥
मा त्वं शोणाचलेशाग्नौ शलभत्वं भजासुर
॥७७॥शिवेन दत्ता विभवास्तव पूर्वतपोबलात् ॥
दह्येरन्यत्र तरसा दाववह्नौ यथा द्रुमाः
॥७८॥अत्र धर्मात्मनां वासः शिवभक्तिमतां सदा ॥
परपीडाप्रसक्तानां भवेद्रोगशतावृतः
॥७९॥ऐश्वर्य्यमतुलं प्राप्तो बलमन्यद्दुरासदम् ॥
किमर्थं स्वल्पबुद्धिः सन्स्वदोषैर्नाशमेष्यसि
॥८०॥मया कन्या पुनर्दृष्टा विशेषादबला मता ॥
अंतर्गतोरुणाद्रीश एतस्मात्सा विशिष्यते
॥८१॥अथवा युक्तिभेदैस्त्वं शास्त्रैर्वा शिवसंमतैः ॥
अनिग्राह्यमनोवृत्तिरात्मसैन्यं समानय
॥८२॥येन लोकान्समस्तांस्त्वं बाधसे बलगर्वितः ॥
तत्सैन्यं तव वृद्धं च क्षणाद्धक्ष्यामि तेजसा
॥८३॥आनीय सकलं सैन्यमग्रे स्थापय सायुधम् ॥
सद्यस्त्वात्मबलैः सृष्टेः संहरिष्यामि तत्क्षणात्
॥८४॥मच्छस्त्र परिकृत्तस्य ससैन्यस्य तवायुषः ॥
मुक्तिरत्रैव भविता को जानाति शिवेहितम्
॥८५॥वार्यमाणोऽपि पूर्वेण कर्मणा प्रेरितो जनः ॥
अवशः कर्म कुरुते भुंक्ते च सदृशं फलम्
॥८६॥त्वयापि करुणावाक्यं वक्तव्यं किल भूरिभिः ॥
अकार्यविनिवृत्त्यर्थं नित्यधर्मानुपालने
॥८७॥इति गौर्या समादिष्टा वाचं कपिमुखो मुनिः ॥
दूतः सन्सर्वमाचष्ट महिषस्याग्रतः स्थितः
॥८८॥सोऽपि सर्वं समाकर्ण्य क्रोधवेगसमाकुलः ॥
तं भक्षयितुमारेभे सोपि मायाबलाद्ययौ
॥८९॥अथ सैन्यं निजं सर्वं समाहूय दुराशयः ॥
सन्नद्धं सायुधं योद्धुमादिशल्लोकभीषणम्
॥९०॥युगांतसमयोद्वेलचतुरर्णवसंनिभम् ॥
सैन्यानां सैन्यमतुलं शोणाद्रिं पर्यवेष्टयत्
॥९१॥अथ गौरी समालोक्य दैत्यानां सैन्यमद्भुतम् ॥
ससर्ज तैजसाञ्शूरान्घोरान्भूतगणान्बहून्
॥९२॥एकपादाक्षिचरणा लंबकर्णपयोधराः ॥
पाणिपादशिरःकुक्षिवक्त्राः केचिद्विनिर्गताः
॥९३॥अहं ग्रसामि सकलमपर्याप्तमिदं मम ॥
अहमेव हनिष्यामि दैत्यसैन्यमशेषतः
॥९४॥किं त्वयात्र पुनः कार्यं वीक्ष्य त्वं तिष्ठ केवलम् ॥
अहमेवात्र योत्स्यामीत्यभाषंत परस्परम्
॥९५॥तेषां कथयतां शंखं गणानां योगिनीगणैः ॥
अधमत्सा भगवती हंतुं तद्दैत्यमंडलम्
॥९६॥आलोक्य तां तथारूपामापतंस्तस्य सैनिकाः ॥
दर्शयंतः स्ववीर्याणि स्वामिनोग्रे धृतायुधाः
॥९७॥ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम् ॥
बाणैः कार्मुकनिर्मुक्तैस्तानि सा तु न्यवारयत्
॥९८॥रथानां वारणेंद्राणां हयानां लक्षकोटिभिः ॥
युयुधुर्भूतवेताला देव्या सृष्टास्तु दुर्जयाः
॥९९॥मातरो विविधाकारा डाकिन्यो योगिनीगणाः ॥
सृष्टाश्च तेजसा भूयः पिशाचाः प्रेतराक्षसाः
॥१००॥देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः ॥
भक्षिताश्चूर्णिता भिन्ना दारिता निहताः क्षणात्
॥१०१॥देवी च सायुधा दृष्टा ज्वलंती निहतासुरैः ॥
नृत्यद्भूतगणैर्भुक्तै रक्तैर्मांसैश्च तोषितैः
॥१०२॥यदा कैलासशिखरात्प्राप्ता कर्त्तुं तपो भुवम् ॥
तदा समागताः काश्चिन्मातृका देहगुप्तये
॥१०३॥दुंदुभिः सत्यवत्याख्या तथा चान्तवती परा ॥
सुंदरीति चतस्रस्ता अन्वयुः परिचारिकाः
॥१०४॥देव्या सृष्टा च चामुंडा दंष्ट्रावलयभीपणा ॥
दैत्यकृत्तिवसा मांसरक्ततृप्ता चचार सा
॥१०५॥असुरं कंचिदाक्रम्य नटनं सा चकार ह
॥१०६॥अथ तां समवेक्ष्य दुर्मदो हि ज्वलयामास च कोपवह्निना सः ॥
अतितीव्रविवृत्तभीष्मनेत्रश्रुतिशृंगाग्रविभिन्नमेघजालः
॥१०७॥ज्वलदग्निशिखाभदीर्घजिह्वापरिलीढोन्नतशैलशृंगभागः ॥
अवनिं दलयन्खुराभिघातैरसकृत्पांसुभिरास्वनन्दिगंतान्
॥१०८॥अतिघर्घर दीर्घघोरनादस्फुटदंडभ्रममोहितामरो यः ॥
धृतवालधिदंडताड्यमानप्रतिशीर्णामितशस्त्रवर्षसंघः
॥१०९॥मृतये व्यगमद्बलित्रयाढ्यां मृगराजस्थितिभासुरां भवानीम्
॥११०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे देव्यास्तपश्चर्यायां महिषासुरेण सह युद्धवर्णनंनाम दशमोऽध्यायः ॥ १० ॥