मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अरुणाचलमाहात्म्यम् (पूर्वार्धम्), अध्याय १

3
माहेश्वरखण्डः · अरुणाचलमाहात्म्यम् (पूर्वार्धम्) · 1

लिंगप्रादुर्भाववर्णनम्

श्रीगणेशाय नमः

अथ श्रीमदरुणाचलमाहात्म्यपूर्वार्धः प्रारभ्यते

ललाटे त्रैपुंड्री निटिलकृतकस्तूरितिलकः स्फुरन्मालाधारः स्फुरितकटिकौपीनवसनः ॥

दधानो दुस्तारं शिरसि फणिराजं शशिकलां प्रदीपः सर्वेषामरुणगिरियोगीविजयते

॥१॥

व्यास उवाच

अथाहुर्मुनयः सूतं नैमिषारण्यवासिनः ॥

अरुणाचलमाहात्म्यं त्वत्तः शुश्रूषवो वयम्

॥२॥

तन्माहात्म्यं वदेत्युक्तः सूतः प्रोवाच तान्मुनीन् ॥

श्रीसूत उवाच ॥

एतदर्थं चतुर्वक्त्रं पप्रच्छ सनकः पुरा

॥३॥

शृणुतावहिता यूयं तद्वो वक्ष्यामि सांप्रतम् ॥

यदाकर्णयतां भक्त्या नराणां पापनाशनम्

॥४॥

सत्यलोके स्थितं पूर्वं ब्रह्माणं कमलासनम् ॥

सनकः परिपप्रच्छ प्रणतः प्रांजलिः स्थितः

॥५॥

सनक उवाच

भुवनाधार देवेश वेदवेद्य चतुर्मुख ॥

आसीदशेषविज्ञानं प्रसादाद्भवतो मम

॥६॥

भवद्भक्तिविभूत्या मे शोधिते चित्तदर्पणे ॥

बिंबते सकलं ज्ञानं सकृदेवोपदेशतः

॥७॥

सारार्थं वेदवेदानां शिवज्ञानमनाकुलम् ॥

लब्धवानहमत्यंतं कटाक्षैस्ते जगद्गुरोः

॥८॥

लिंगानि भुवि शैवानि दिव्यानि च कृपानिधे ॥

मानुषाणि च सैद्धानि भौतानि सुरनायक

॥९॥

याल्लिङ्मममलं दिव्यमरिच्छेदनवैभवम् ॥

स्वयम्भु जाम्बवे द्वीपे तैजसं तव्ददस्व मे

॥१०॥

नामस्मरणमात्रेण यत्पातकविनाशनम् ॥

शिवसारूप्यदं नित्यं मह्यं वद दयानिधे

॥११॥

अनादिजगदाधारं यत्तेजः शैवमव्ययम् ॥

यच्च दृष्ट्वा कृतार्थः स्यात्तन्मह्यमुपदिश्यताम्

॥१२॥

इति भक्तिमतस्तस्य कौतूहलसमन्वितम् ॥

वाक्यमाकर्ण्य भगवान्प्रससाद तपोनिधिः

॥१३॥

दध्यौ च सुचिरं शंभुं पंकजासनसंस्थितः ॥

अंतरंगसुखांभोधिमग्नचेताश्चतुर्मुखः

॥१४॥

दृष्ट्वा यदा पुरा दृष्टं तेजःस्तंभमयं शिवम् ॥

उत्तीर्णसकलाधारं न किंचित्प्रत्यबुध्यत

॥१५॥

पुनराज्ञां शिवाल्लब्धामनुपालयितुं प्रभुः ॥

निर्वर्त्त्य हृदयं योगात्सस्मार सुतमानतम्

॥१६॥

शिवदर्शनसंजातपुलकांकितविग्रहः ॥

आनंदवाष्पवन्नेत्रः सगद्गदमभाषत

॥१७॥

ब्रह्मोवाच

अतः संस्मारितः पुत्र भवताऽहं पुरातनम् ॥

शिवयोगमनुध्यायन्नस्मार्षं तव चादरात्

॥१८॥

शिवभक्तिः परा जाता तपोभिर्बहुभिस्तव ॥

तया मदीयं हृदयं व्यावर्त्तितमिव क्षणात्

॥१९॥

पावयंति जगत्सर्वं चरितैस्ते निराकुले ॥

येषां सदाशिवे भक्तिर्वर्द्धते सार्वकालिकी

॥२०॥

संभाषणं सहावासः क्रीडा चैव विमिश्रणम् ॥

दर्शनं शिवभक्तानां स्मरणं चाघनाशनम्

॥२१॥

श्रूयतामद्भुतं शैवमाविर्भूतं यथा पुरा ॥

अव्याजकरुणापूर्णमरुणाद्र्यभिधं महः

॥२२॥

अहं नारायणश्चोभौ जातौ विश्वाधिकोदयात् ॥

बहु स्यामिति संकल्पं वितन्वानात्सदाशिवात्

॥२३॥

स्वभावेन समुद्भूतौ विवदंतौ परस्परम् ॥

न च श्रांतौ नियुध्यंतौ साहंकारौ कदाचन

॥२४॥

परस्परं रणोत्साहमावयोरतिभीषणम् ॥

आलोक्य करुणामूर्तिरचिंतयदथेश्वरः

॥२५॥

किमर्थमनयोर्युद्धं जायते लोकनाशनम् ॥

मया सृष्टमहं पातेति विवादमधितस्थुषोः

॥२६॥

समयेऽस्मिन्स्वयं लक्ष्यो मुग्धयोरनयोर्भृशम् ॥

यदि युद्धं न रोत्स्यामि तदा स्याद्भुवनक्षयः

॥२७॥

वेदेषु मम माहात्म्यं विश्वाधिकतया श्रुतम् ॥

न जानाते इमौ मुग्धौ क्रोधतो गलितस्मृती

॥२८॥

सर्वोपि जंतुरात्मानमधिकं मन्यते भृशम् ॥

अमतान्यसमाधिक्यस्त्वधः पतति दुर्मतिः

॥२९॥

यद्यहं क्वापि भुवने दास्यामि मितिमात्मनः ॥

तदा तद्रूपविज्ञानात्स आत्मा सोपि मामियात्

॥३०॥

इति निश्चित्य मनसा स्वयमेव सदाशिवः ॥

आवयोर्युध्यतोर्मध्ये वह्निस्तंभः समुद्यतः

॥३१॥

अतीत्य सकलाँल्लोकान्सर्वतोऽग्निरिव ज्वलन्

॥३२॥

अनाद्यंततया चाथ दृगार्तौ संव्यतिष्ठताम् ॥

तेजःस्तंभं ज्वलंतं तमालोक्य शिथिलाशयौ

॥३३॥

आवयोः पुरतो जाता वाणी चाप्यशरीरिणी ॥

किमर्थं बालकौ युद्धं कल्प्यते मूढमानसौ

॥३४॥

युवयोर्बलवैषम्यं शिव एव विवेक्ष्यते ॥

तेजःस्तभमयं रूपमिदं शंभोर्व्यवस्थितम्

॥३५॥

आद्यंतयोर्यदि युवामीक्षिषाथां बलाधिकौ ॥

इति तां गिरमाकर्ण्य नियुद्धाद्विरतौ तदा

॥३६॥

अहं विष्णुश्च गतिमान्विचेतुं तद्व्यवस्थितौ ॥

अग्निस्तंभमयं रूपं शंभोराद्यंतवर्जितम्

॥३७॥

आलोकितुं व्यवसितावावामाद्यंतभागतः ॥

बिंबितं व्योमगं चंद्रं यथा बालौ जिघृक्षतः

॥३८॥

तथैवावां समुद्युक्तौ परिच्छेत्तुं च तन्महः ॥

अथ विष्णुर्महोत्साहात्क्रोडोऽभूत्सुमहावपुः

॥३९॥

तन्मूलविचयाऽयाच्च भूमिगर्भं व्यदारयत् ॥

अहं च हंसतां प्राप्तो महावेगं समुत्पतन्

॥४०॥

दिदृक्षुस्तच्छिरोभागं वियदूर्ध्वमगाहिषम् ॥

अधोधोदारयन्क्षोणिमशेषामपि माधवः

॥४१॥

आविर्भूतमिवाधस्तादग्निस्तंभमवैक्षत ॥

अनेककोटिवर्षाणि विचिन्वन्नपि तेजसः

॥४२॥

अपश्यन्नादिमक्षय्यमार्तरूपः स विह्वलः ॥

विशीर्णदंष्ट्रबलयो विगलत्संधिबंधनः

॥४३॥

श्रमातुरस्तृषाक्रांतो नो यातुमशकद्धरिः ॥

वाराहं रूपमतुलं संधारयितुमक्षमः

॥४४॥

विहंतुमपि विश्रांतो विषसाद रमापतिः ॥

अचिंतयदमेयात्मा परिश्रांतशरीरवान्

॥४५॥

गलितश्रीः क्रियाश्रांतः शरण्यं शिवमाश्रयन् ॥

धिङ्ममेदं महन्मौग्ध्यमहंकारसमुद्भवम् ४८ ॥

येनाहमात्मनो नाथमात्मानं नावबुद्धवान् ॥

अयं हि सर्ववेदानां देवानां जगतामपि

॥४७॥

मूलभूतः शिवः साक्षान्मूलमस्य कथं भवेत् ॥

अस्मादेव समुद्भूतोऽस्म्यहमाद्यंतवर्जितात्

॥४८॥

यन्मयान्वेष्टुमारब्धं शिवं पशुवपुर्धृता ॥

अव्याजकरुणाबन्धोः पितुः शंभोः प्रसादतः ॥

पुनरेवेदृशी लब्धा मतिर्मे स्वात्मबोधिना ॥

स्वयमेव महादेवः शंभुर्यं पातुमिच्छति

॥५०॥

तस्य सद्यो भवेज्ज्ञानमनहंकारमात्मजम् ॥

न शक्नोमि पुनः कर्तुं पूजामस्य जगद्गुरोः

॥५१॥

निवेदयामि चात्मानं शरणं यामि शंकरम् ॥

इति दध्यौ शिवं विष्णुः स्तुत्यामर्पितचेतनः

॥५२॥

सत्प्रसादाद्भूतपतेः पुनरेवोद्धुतः क्षितौ ॥

अहं च गगनेऽभ्राम्यमनेकानपि वत्सरान्

॥५३॥

आघूर्णमाननयनः श्लथपक्षः श्रमं गतः ॥

उपर्युपरि चापश्यं ज्वलनं पुरतः स्थितम्

॥५४॥

तेजःस्तम्भं स्थूललिंगाभं शैवं तेजः सुरार्चितम् ॥

आहुः स्म केचिदालोक्य सिद्धास्तेजोंशसंभवाः

॥५५॥

नित्यां शंभोः परां कोटिं दिदृक्षुं मां कृतोद्यमम् ॥

अहोऽयं सत्यमुग्धत्वमद्यापि च चिकीर्षति

॥५६॥

आसन्नदेहपातोऽपि नाहंकारोऽस्य वै गतः ॥

विशीर्यमाणपक्षोऽयं श्रांत्वा विभ्रांतलोचनः

॥५७॥

अपारतेजसि व्यर्थो विमोहोऽयं भविष्यति ॥

एवं व्याकुलचित्तोऽयं क्रोडरूपी जनार्दनः

॥५८॥

व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा ॥

ईदृशां ब्रह्ममुख्यानां सुराणां कोटिसंभवः

॥५९॥

यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते ॥

स्वात्मनो यो गतो ध्यात्वा समये भगवाञ्छिवः

॥६०॥

यदि बुद्धिं ददात्यस्मै तस्य नश्येदहंक्रिया ॥

इत्येवं वदतां तेषां सिद्धानां सदयं वचः

॥६१॥

आकर्ण्य शीर्णाहंकारो ह्यहमात्मन्यचिंतयम् ॥

न वेदराशिविज्ञानात्तपस्तीर्थनिषेवणात्

॥६२॥

संजायते शिवज्ञानमस्यैवानुग्रहादृते ॥

शीर्णेऽपि पक्षयुगले सीदत्यंगे ह्यचंचले

॥६३॥

पुनरुत्सहते चेतः स्वाहंकारस्य संग्रहे ॥

धिङ्मामहं क्रियाक्रांतमनात्मबलवेदिनम्

॥६४॥

शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः ॥

येषां संसर्गलब्धेन तपसा शोधिताशयः

॥६५॥

शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम् ॥

यत्प्रसादोपलब्धेन विभवेन समन्विताः

॥६६॥

देवाः सर्वे भविष्यंति सततं शमितारयः ॥

यस्य वेदा न जानंति परमार्थं महागमैः

॥६७॥

तमेव शरणं यामि शंभुं विश्वविलक्षणम् ॥

अवादिषमथाभाष्यं विष्णुं कमललोचनम्

॥६८॥

लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम् ॥

अहो किमिदमाश्चर्यमागतं शौर्यशालिनाम्

॥६९॥

शंभुना यत्समुद्भूतमहंकारमुपाश्रितौ ॥

आवां परस्परं युद्धमाकर्ण्य विपुलं महत्

॥७०॥

स एव शंकरः सर्वमहंकारमथावयोः ॥

अपाहरदमेयात्मा स्वमाहात्म्यप्रकाशनात्

॥७१॥

इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम् ॥

अभिपूजयितुं प्रवर्तते स भवेद्वै भवसागरस्य नौः

॥७२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये पूर्वार्धे ब्रह्मसनकसंवादे लिंगप्रादुर्भाववर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥