मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — कुमारखण्डः, अध्याय २

3
रुद्रसंहिता · कुमारखण्डः · 2

शिवपुत्रजननवर्णनम्

ब्रह्मोवाच

तदाकर्ण्य महादेवो योगज्ञानविशारदः ।

त्यक्तकामो न तत्याज संभोगं पार्वतीभयात्

॥१॥

आजगाम गृहद्वारि सुराणां निकटं शिवः ।

दैत्येन पीडितानां च शंकरो भक्तवत्सलः

॥२॥

देवास्सर्वे प्रभुं दृष्ट्वा हरिणा च मया शिवम् ।

बभूबुस्सुखिनश्चाति तदा वै भक्तवत्सलम्

॥३॥

इत्याकर्ण्य वचस्तेषां सुराणां भगवान्भवः ।

प्रत्युवाच विषण्णात्मा दूयमानेन चेतसा

॥४॥

प्रणम्य सुमहाप्रीत्या नतस्कंधाश्च निर्जराः ।

तुष्टुवुः शंकरं सर्वे मया च हरिणा मुने

॥५॥

देवा ऊचुः

देवदेव महादेव करुणासागर प्रभो ।

अन्तर्यामी हि सर्वेषां सर्वं जानासि शंकर

॥६॥

देवकार्यं कुरु विभो रक्ष देवान् महेश्वर ।

जहि दैत्यान् कृपां कृत्वा तारकादीन् महाप्रभून्

॥७॥

शिव उवाच

हे विष्णो हे विधे देवास्सर्वेषां वो मनोगतिः ।

यद्भावि तद्भवत्येव कोऽपि नो तन्निवारकः

॥८॥

यज्जातं तज्जातमेव प्रस्तुतं शृणुताऽमराः ।

शिरस्तस्खलितं वीर्यं को ग्रहीष्यति मेऽधुना

॥९॥

स गृह्णीयादिति प्रोच्य पातयामास तद्भुवि ।

अग्निर्भूत्वा कपोतो हि प्रेरितस्सर्वनिर्जरैः

॥१०॥

अभक्षच्छांभवं वीर्यं चंच्वा तु निखिलं तदा ।

एतस्मिन्नंतरे तत्राऽऽजगाम गिरिजा मुने

॥११॥

शिवागमविलंबे च ददर्श सुरपुंगवान् ।

ज्ञात्वा तद्वृत्तमखिलं महाक्रोधयुता शिवा

॥१२॥

उवाच त्रिदशान् सर्वान् हरिप्रभृतिकाँस्तदा

॥१३॥

देव्युवाच

रे रे सुरगणास्सर्वे यूयं दुष्टा विशेषतः ।

स्वार्थसंसाधका नित्यं तदर्थं परदुःखदाः

॥१४॥

स्वार्थहेतोर्महेशानमाराध्य परमं प्रभुम् ।

नष्टं चक्रुर्मद्विहारं वंध्याऽभवमहं सुराः

॥१५॥

मां विरोध्य सुखं नैव केषांचिदपि निर्जराः ।

तस्माद्दुःखं भवेद्वो हि दुष्टानां त्रिदिवौकसाम्

॥१६॥

ब्रह्मोवाच

इत्युक्त्वा विष्णुप्रमुखान् सुरान्सर्वान् शशाप सा ।

प्रज्वलंती प्रकोपेन शैलराजसुता शिवा

॥१७॥

पार्वत्युवाच

अद्यप्रभृति देवानां वंध्या भार्या भवन्त्विति ।

देवाश्च दुःखितास्संतु निखिला मद्विरोधिनः

॥१८॥

ब्रह्मोवाच

इति शप्त्वाखिलान्देवान् विष्ण्वाद्यान्सकलेश्वरी ।

उवाच पावकं क्रुद्धा भक्षकं शिवरेतसः

॥१९॥

पार्वत्युवाच

सर्वभक्षी भव शुचे पीडितात्मेति नित्यशः ।

शिवतत्त्वं न जानासि मूर्खोऽसि सुरकार्यकृत्

॥२०॥

रे रे शठ महादुष्ट दुष्टानां दुष्टबोधवान् ।

अभक्षश्शिववीर्यं यन्नाकार्षीरुचितं हि तत्

॥२१॥

ब्रह्मोवाच

इति शप्त्वा शिवा वह्निं सहेशेन नगात्मजा ।

जगाम स्वालयं शीघ्रमसंतुष्टा ततो मुने

॥२२॥

गत्वा शिवा शिवं सम्यक् बोधयामास यत्नतः ।

अजीजनत्परं पुत्रं गणेशाख्यं मुनीश्वर

॥२३॥

तद्वृत्तांतमशेषं च वर्णयिष्ये मुनेऽग्रतः ।

इदानीं शृणु सुप्रीत्या गुहोत्पत्तिं वदाम्यहम्

॥२४॥

पावकादितमन्नादि भुंजते निर्जराः खलु ।

वेदवाण्येति सर्वे ते सगर्भा अभवन्सुराः

॥२५॥

ततोऽसहंतस्तद्वीर्यं पीडिता ह्यभवन् सुराः ।

विष्ण्वाद्या निखिलाश्चाति शिवाऽऽज्ञा नष्टबुद्धयः

॥२६॥

अथ विष्णुप्रभृतिकास्सर्वे देवा विमोहिताः ।

दह्यमाना ययुः शीघ्रं शरणं पार्वतीपतेः

॥२७॥

शिवालयस्य ते द्वारि गत्वा सर्वे विनम्रकाः ।

तुष्टुवुस्सशिवं शंभुं प्रीत्या सांजलयस्सुराः

॥२८॥

देवा ऊचुः

देवदेव महादेव गिरिजेश महाप्रभो ।

किं जातमधुना नाथ तव माया दुरत्यया

॥२९॥

सगर्भाश्च वयं जाता दह्यमानाश्च रेतसा ।

तव शंभो कुरु कृपां निवारय दशामिमाम्

॥३०॥

ब्रह्मोवाच

इत्याकर्ण्याऽमरनुतिं परमेशश्शिवापतिः ।

आजगाम द्रुतं द्वारि यत्र देवाः स्थिता मुने

॥३१॥

आगतं शंकरं द्वारि सर्वे देवाश्च साच्युताः ।

प्रणम्य तुष्टुवुः प्रीत्या नर्तका भक्तवत्सलम्

॥३२॥

देवा ऊचुः

शंभो शिव महेशान त्वां नतास्स्म विशेषतः ।

रक्ष नश्शरणापन्नान्दह्यमानांश्च रेतसा

॥३३॥

इदं दुःखं हर हर भवामो हि मृता ध्रुवम् ।

त्वां विना कस्समर्थोऽद्य देवदुःखनिवा रणे

॥३४॥

ब्रह्मोवाच

इति दीनतरं वाक्यमाकर्ण्य सुरराट् प्रभुः ।

प्रत्युवाच विहस्याऽथ स सुरान् भक्तवत्सलः

॥३५॥

शिव उवाच

हे हरे हे विधे देवास्सर्वे शृणुत मद्वचः ।

भविष्यति सुखं वोऽद्य सावधाना भवन्तु हि

॥३६॥

एतद्वमत मद्वीर्यं द्रुतमेवाऽखिलास्सुराः ।

सुखिनस्तद्विशेषेण शासनान्मम सुप्रभो

॥३७॥

ब्रह्मोवाच

इत्याज्ञां शिरसाऽधाय विष्ण्वाद्यास्सकलास्सुराः ।

अकार्षुर्वमनं शीघ्रं स्मरंतश्शिवमव्ययम्

॥३८॥

तच्छंभुरेतस्स्वर्णाभं पर्वताकारमद्भुतम् ।

अभवत्पतितं भूमौ स्पृशद् द्यामेव सुप्रभम्

॥३९॥

अभवन्सुखिनस्सर्वे सुरास्सर्वेऽच्युतादयः ।

अस्तुवन् परमेशानं शंकरं भक्तवत्सलम्

॥४०॥

पावकस्त्वभवन्नैव सुखी तत्र मुनीश्वर ।

तस्याज्ञां परमोऽदाद्वै शंकरः परमेश्वरः

॥४१॥

ततस्सवह्निर्विकलस्सांजलिर्नतको मुने ।

अस्तौच्छिवं सुखी नात्मा वचनं चेदमब्रवीत्

॥४२॥

अग्निरुवाच

देवदेव महेशान मूढोऽहं तव सेवकः ।

क्षमस्व मेऽपराधं हि मम दाहं निवारय

॥४३॥

त्वं दीनवत्सल स्वामिञ्शंकरः परमेश्वरः ।

प्रत्युवाच प्रसन्नात्मा पावको दीनवत्सलम्

॥४४॥

ब्रह्मोवाच

इत्याकर्ण्य शुचेर्वाणीं स शंभुः परमेश्वरः ।

प्रत्युवाच प्रसन्नात्मा पावकं दीनवत्सलः

॥४५॥

शिव उवाच

कृतं त्वनुचितं कर्म मद्रेतो भक्षितं हि यत् ।

अतोऽनिवृत्तस्ते दाहः पापाधिक्यान्मदाज्ञया

॥४६॥

इदानीं त्वं सुखी नाम शुचे मच्छरणागतः ।

अतः प्रसन्नो जातोऽहं सर्वं दुःखं विनश्यति

॥४७॥

कस्याश्चित्सुस्त्रियां योनौ मद्रेतस्त्यज यत्नतः ।

भविष्यति सुखी त्वं हि निर्दाहात्मा विशेषतः

॥४८॥

ब्रह्मोवाच

शंभुवाक्यं निशम्येति प्रत्युवाच शनैः शुचिः ।

सांजलिर्नतकः प्रीत्या शंकरं भक्तशंकरम्

॥४९॥

दुरासदमिदं तेजस्तव नाथ महेश्वर ।

काचिन्नास्ति विना शक्त्या धर्तुं योनौ जगत्त्रये

॥५०॥

इत्थं यदाऽब्रवीद्वह्निस्तदा त्वं मुनिसत्तम ।

शंकरप्रेरितः प्रात्थ हृदाग्निमुपकारकः

॥५१॥

नारद उवाच

शृणु मद्वचनं वह्ने तव दाहहरं शुभम् ।

परमानंददं रम्यं सर्वकष्टनिवारकम्

॥५२॥

कृत्वोपायमिमं वह्ने सुखी भव विदाहकः ।

शिवेच्छया मया सम्यगुक्तं तातेदमादरात्

॥५३॥

तपोमासस्नानकर्त्र्यस्त्रियो यास्स्युः प्रगे शुचे ।

तद्देहेषु स्थापय त्वं शिवरेतस्त्विदं महत्

॥५४॥

ब्रह्मोवाच

तस्मिन्नवसरे तत्रा ऽगतास्सप्तमुनिस्त्रियः ।

तपोमासि स्नानकामाः प्रातस्सन्नियमा मुने

॥५५॥

स्नानं कृत्वा स्त्रियस्ता हि महाशीतार्द्दिताश्च षट् ।

गंतुकामा मुने याता वह्निज्वालासमीपतः

॥५६॥

विमोहिताश्च ता दृष्ट्वारुन्धती गिरिशाज्ञया ।

निषिषेध विशेषेण सुचरित्र सुबोधिनी

॥५७॥

ताः षड् मुनिस्त्रियो मोहाद्धठात्तत्र गता मुने ।

स्वशीतविनिवृत्त्यर्थं मोहिताः शिवमायया

॥५८॥

तद्रेतःकणिकास्सद्यस्तद्देहान् विविशुर्मुने ।

रोमद्वाराऽखिला वह्निरभूद्दाहविवर्जितः

॥५९॥

अंतर्धाय द्रुतं वह्निर्ज्वालारूपो जगाम ह ।

सुखी स्वलोकं मनसा स्मरंस्त्वां शंकरं च तम्

॥६०॥

सगर्भास्ताः स्त्रियस्साधोऽभवन् दाहप्रपीडिताः ।

जग्मुस्स्वभवनं तातारुंधती दुःखिताऽग्निना

॥६१॥

दृष्ट्वा स्वस्त्रीगतिं तात नाथाः क्रोधाकुला द्रुतम् ।

तत्यजुस्ताः स्त्रियस्तात सुसंमंत्र्य परस्परम्

॥६२॥

अथ ताः षट् स्त्रियस्सर्वा दृष्ट्वा स्वव्यभिचारकम् ।

महादुःखान्वितास्ताताऽभवन्नाकुलमानसाः

॥६३॥

तत्यजुश्शिव रेतस्तद्गर्भरूपं मुनिस्त्रियः ।

ता हिमाचलपृष्ठेऽथाभवन् दाहविवर्जिताः

॥६४॥

असहञ्शिवरेतस्तद्धिमाद्रिः कंपमुद्वहन् ।

गंगायां प्राक्षिपत्तूर्णमसह्यं दाहपीडितः

॥६५॥

गंगयाऽपि च तद्वीर्यं दुस्सहं परमात्मनः ।

निःक्षिप्तं हि शरस्तंबे तरंगैः स्वैर्मुनीश्वर

॥६६॥

पतितं तत्र तद्रेतो द्रुतं बालो बभूव ह ।

सुन्दरस्सुभगः श्रीमांस्तेजस्वी प्रीतिवर्द्धनः

॥६७॥

मार्गमासे सिते पक्षे तिथौ षष्ठ्यां मुनीश्वर ।

प्रादुर्भावोऽभवत्तस्य शिवपुत्रस्य भूतले

॥६८॥

तस्मिन्नवसरे ब्रह्मन्न कस्माद्धिम शैलजा ।

अभूतः सुखिनौ तत्र स्वगिरौ गिरिशोऽपि च

॥६९॥

शिवाकुचाभ्यां सुस्राव पय आनन्दसंभवम् ।

तत्र गत्वा च सर्वेषां सुखमासीन्मुनेऽधिकम्

॥७०॥

मंगलं चाऽभवत्तात त्रिलोक्यां सुखदं सताम् ।

खलानामभवद्विघ्नो दैत्यानां च विशेषतः

॥७१॥

अकस्मादभवद्व्योम्नि परमो दुंदुभिध्वनिः ।

पुष्पवृष्टिः पपाताऽशु बालकोपरि नारद

॥७२॥

विष्ण्वादीनां समस्तानां देवानां मुनिसत्तम ।

अभूदकस्मात्परम आनन्दः परमोत्सवः

॥७३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे शिवपुत्रजननवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥