एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने
ब्रह्मोवाच
एतस्मिन्नंतरे तत्र क्रौञ्चनामाचलो मुने ।
आजगाम कुमारस्य शरणं बाणपीडित
॥१॥पलायमानो यो युद्धादसोढा तेज ऐश्वरम् ।
तुतोदातीव स क्रौञ्चं कोट्यायुतबलान्वितः
॥२॥प्रणिपत्य कुमारस्य स भक्त्या चरणाम्बुजम् ।
प्रेमनिर्भरया वाचा तुष्टाव गुहमादरात्
॥३॥क्रौंच उवाच
कुमार स्कंद देवेश तारकासुरनाशक ।
पाहि मां शरणापन्नं बाणासुरनिपीडितम्
॥४॥संगरात्ते महासेन समुच्छिन्नः पलायितः ।
न्यपीडयच्च मागत्य हा नाथ करुणाकर
॥५॥तत्पीडितस्ते शरणमागतोऽहं सुदुःखितः ।
पलायमानो देवेश शरजन्मन्दयां कुरु
॥६॥दैत्यं तं नाशय विभो बाणाह्वं मां सुखीकुरु ।
दैत्यघ्नस्त्वं विशेषेण देवावनकरस्स्वराट्
॥७॥ब्रह्मोवाच
इति क्रौंचस्तुतस्स्कन्दः प्रसन्नो भक्तपालकः ।
गृहीत्वा शक्तिमतुलां स्वां सस्मार शिवो धिया
॥८॥चिक्षेप तां समुद्दिश्य स बाणं शंकरात्मजः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः
॥९॥सबलं भस्मसात्कृत्वासुरं तं क्षणमात्रतः ।
गुहोपकंठं शक्तिस्सा जगाम परमा मुने ।
ततः कुमार प्रोवाच क्रौंचं गिरिवरं प्रभुः ।
निर्भयस्स्वगृहं गच्छ नष्टस्स सबलोऽसुरः
॥११॥तच्छुत्वा स्वामिवचनं मुदितो गिरिराट् तदा ।
स्तुत्वा गुहं तदारातिं स्वधाम प्रत्यपद्यत
॥१२॥ततः स्कन्दो महेशस्य मुदा स्थापितवान्मुने ।
त्रीणि लिंगानि तत्रैव पापघ्नानि विधानतः
॥१३॥प्रतिज्ञेश्वरनामादौ कपालेश्वरमादरात् ।
कुमारेश्वरमेवाथ सर्वसिद्धिप्रदं त्रयम्
॥१४॥पुनस्सर्वेश्वरस्तत्र जयस्तंभसमीपतः ।
स्तंभेश्वराभिधं लिंगं गुहः स्थापितवान्मुदा
॥१५॥ततस्सर्वे सुरास्तत्र विष्णुप्रभृतयो मुदा ।
लिंगं स्थापितवंतस्ते देवदेवस्य शूलिनः
॥१६॥सर्वेषां शिवलिंगानां महिमाभूत्तदाद्भुतः ।
सर्वकामप्रदश्चापि मुक्तिदो भक्तिकारिणाम्
॥१७॥ततस्सर्वे सुरा विष्णुप्रमुखाः प्रीतमानसाः ।
ऐच्छन्गिरिवरं गंतुं पुरस्कृत्य गुहं मुदा
॥१८॥तस्मिन्नवसरे शेषपुत्रः कुमुद नामकः ।
आजगाम कुमारस्य शरणं दैत्यपीडितः
॥१९॥प्रलंबाख्योऽसुरो यो हि रणादस्मात्पलायितः ।
स तत्रोपद्रवं चक्रे प्रबलस्तारकानुगः
॥२०॥सोऽथ शेषस्य तनयः कुमुदोऽहिपतेर्महान् ।
कुमारशरणं प्राप्तस्तुष्टाव गिरिजात्मजम्
॥२१॥कुमुद उवाच
देवदेव महादेव वरतात महाप्रभो ।
पीडितोऽहं प्रलंबेन त्वाहं शरणमागतः
॥२२॥पाहि मां शरणापन्नं प्रलंबा सुरपीडितम् ।
कुमार स्कन्द देवेश तारकारे महाप्रभो
॥२३॥त्वं दीनबंधुः करुणासिन्धुरानतवत्सलः ।
खलनिग्रहकर्ता हि शरण्यश्च सतां गतिः
॥२४॥कुमुदेनस्तुतश्चेत्थं विज्ञप्तस्तद्वधाय हि ।
स्वाश्च शक्तिं स जग्राह स्मृत्वा शिवपदांबुजौ
॥२५॥चिक्षेप तां समुद्दिश्य प्रलंबं गिरिजासुतः ।
महाशब्दो बभूवाथ जज्वलुश्च दिशो नभः
॥२६॥तं सायुतबलं शक्तिर्द्रुतं कृत्वा च भस्मसात् ।
गुहोपकंठं सहसाजगामाक्लिष्टवारिणी
॥२७॥ततः कुमारः प्रोवाच कुमुदं नागबालकम् ।
निर्भयः स्वगृहं गच्छ नष्टस्स सबलोऽसुरः
॥२८॥तच्छुत्वा गुहवाक्यं स कुमुदोहिपतेस्सुतः ।
स्तुत्वा कुमारं नत्वा च पातालं मुदितो ययौ
॥२९॥एवं कुमारविजयं वर्णितं ते मुनीश्वर ।
चरितं तारकवधं परमाश्चर्यकारकम्
॥३०॥सर्वपापहरं दिव्यं सर्वकामप्रदं नृणाम् ।
धन्यं यशस्यमायुष्यं भुक्तिमुक्तिप्रदं सताम्
॥३१॥ये कीर्तयंति सुयशोऽमितभाग्ययुता नराः ।
कुमारचरितं दिव्यं शिव लोकं प्रयांति ते
॥३२॥श्रोष्यंति ये च तत्कीर्तिं भक्त्या श्रद्धान्विता जनाः ।
मुक्तिं प्राप्स्यन्ति ते दिव्यामिह भुक्त्वा परं सुखम्
॥३३॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे बाणप्रलंबवध कुमारविजयवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥