स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनम्
ब्रह्मोवाच
निहतं तारकं दृष्ट्वा देवा विष्णुपुरोगमाः ।
तुष्टुवुश्शांकरिं भक्त्या सर्वेऽन्ये मुदिताननाः
॥१॥देवा ऊचुः
नमः कल्याणरूपाय नमस्ते विश्वमंगल ।
विश्वबंधो नमस्तेऽस्तु नमस्ते विश्वभावन
॥२॥नमोस्तु ते दानववर्यहंत्रे बाणासुरप्राणहराय देव ।
प्रलंबनाशाय पवित्ररूपिणे नमोनमश्शंकरतात तुभ्यम्
॥३॥त्वमेव कर्त्ता जगतां च भर्त्ता त्वमेव हर्त्ता शुचिज प्रसीद ।
प्रपञ्चभूतस्तव लोकबिंबः प्रसीद शम्भ्वात्मज दीनबंधो
॥४॥देवरक्षाकर स्वामिन्रक्ष नस्सर्वदा प्रभो ।
देवप्राणावन कर प्रसीद करुणाकर
॥५॥हत्वा ते तारकं दैत्यं परिवारयुतं विभो ।
मोचितास्सकला देवा विपद्भ्यः परमेश्वर
॥६॥ब्रह्मोवाच
एवं स्तुतः कुमारोऽसौ देवैर्विष्णुमुखैः प्रभुः ।
वरान्ददावभिनवान्सर्वेभ्यः क्रमशो मुने
॥७॥शैलान्निरीक्ष्य स्तुवतस्ततस्स गिरिशात्मजः ।
सुप्रसन्नतरो भूत्वा प्रोवाच प्रददद्वरान्
॥८॥स्कन्द उवाच
यूयं सर्वे पर्वता हि पूजनीयास्तपस्विभिः ।
कर्मिभिर्ज्ञानिभिश्चैव सेव्यमाना भविष्यथ
॥९॥शंभोर्विशिष्टरूपाणि लिंगरूपाणि चैव हि ।
भविष्यथ न संदेहः पर्वता वचनान्मम
॥१०॥योऽयं मातामहो मेऽद्य हिमवान्पर्वतोत्तमः ।
तपस्विनां महाभागः फलदो हि भविष्यति
॥११॥देवा ऊचुः
एवं दत्त्वा वरान्हत्वा तारकं चासुराधिपम् ।
त्वया कृताश्च सुखिनो वयं सर्वे चराचराः
॥१२॥इदानीं खलु सुप्रीत्या कैलासं गिरिशालयम् ।
जननी जनकौ द्रष्टुं शिवाशंभू त्वमर्हसि
॥१३॥ब्रह्मोवाच
इत्युक्त्वा निखिला देवा विष्ण्वाद्या प्राप्तशासनाः ।
कृत्वा महोत्सवं भूरि सकुमारा ययुर्गिरिम्
॥१४॥कुमारे गच्छति विभौ कैलासं शंकरालयम् ।
महामंगलमुत्तस्थौ जयशब्दो बभूव ह
॥१५॥आरुरोह कुमारोऽसौ विमानं परमर्द्धिमत् ।
सर्वतोलंकृतं रम्यं सर्वोपरि विराजितम्
॥१६॥अहं विष्णुश्च समुदौ तदा चामरधारिणौ ।
गुह मूर्ध्नि महाप्रीत्या मुनेऽभूव ह्यतंद्रितौ
॥१७॥इन्द्राद्या अमरास्सर्वे कुर्वंतो गुहसेवनम् ।
यथोचितं चतुर्दिक्षु जग्मुश्च प्रमुदास्तदा
॥१८॥शंभोर्जयं प्रभाषंतः प्रापुस्ते शंभुपर्वतम् ।
सानंदा विविशुस्तत्रोच्चरितो मंगलध्वनिः
॥१९॥दृष्ट्वा शिवं शिवां चैव सर्वे विष्ण्वादयो द्रुतम् ।
प्रणम्य शंकरं भक्त्या करौ बद्ध्वा विनम्रकाः
॥२०॥कुमारोऽपि विनीतात्मा विमानादवतीर्य च ।
प्रणनाम मुदा शंभुं शिवां सिंहासनस्थिताम्
॥२१॥अथ दृष्ट्वा कुमारं तं तनयं प्राणवल्लभम् ।
तौ दंपती शिवौ देवौ मुमुदातेऽति नारद
॥२२॥महाप्रभुस्समुत्थाप्य तमुत्संगे न्यवेशयत् ।
मूर्ध्नि जघ्रौ मुदा स्नेहात्तं पस्पर्श करेण ह
॥२३॥महानंदभरः शंभुश्चकार मुखचुंबनम् ।
कुमारस्य महास्नेहात् तारकारेर्महाप्रभोः
॥२४॥शिवापि तं समुत्थाप्य स्वोत्संगे संन्यवेशयत् ।
कृत्वा मूर्ध्नि महास्नेहात् तन्मुखाब्जं चुचुम्ब हि
॥२५॥तयोस्तदा महामोदो ववृधेऽतीव नारद ।
दंपत्योः शिवयोस्तात भवाचारं प्रकुर्वतोः
॥२६॥तदोत्सवो महानासीन्नानाविधिः शिवालये ।
जयशब्दो नमश्शब्दो बभूवातीव सर्वतः
॥२७॥ततस्सुरगणास्सर्वे विष्ण्वाद्या मुनयस्तथा ।
सुप्रणम्य मुदा शंभुं तुष्टुवुस्सशिवं मुने
॥२८॥देवा ऊचुः
देवदेव महादेव भक्तानामभयप्रद ।
नमो नमस्ते बहुशः कृपाकर महेश्वर
॥२९॥अद्भुता ते महादेव महालीला सुखप्रदा ।
सर्वेषां शंकर सतां दीनबंधो महाप्रभो
॥३०॥एवं मूढधियश्चाज्ञाः पूजायां ते सनातनम् ।
आवाहनं न जानीमो गतिं नैव प्रभोद्भुताम्
॥३१॥गंगासलिलधाराय ह्याधाराय गुणात्मने ।
नमस्ते त्रिदशेशाय शंकराय नमोनमः
॥३२॥वृषांकाय महेशाय गणानां पतये नमः ।
सर्वेश्वराय देवाय त्रिलोकपतये नमः
॥३३॥संहर्त्रे जगतां नाथ सर्वेषां ते नमो नमः ।
भर्त्रे कर्त्रे च देवेश त्रिगुणेशाय शाश्वते
॥३४॥विसंगाय परेशाय शिवाय परमात्मने ।
निष्प्रपंचाय शुद्धाय परमायाव्ययाय च
॥३५॥दण्डहस्ताय कालाय पाशहस्ताय ते नमः ।
वेदमंत्रप्रधानाय शतजिह्वाय ते नमः
॥३६॥भूतं भव्यं भविष्यच्च स्थावरं जंगमं च यत् ।
तव देहात्समुत्पन्नं सर्वथा परमेश्वर
॥३७॥पाहि नस्सर्वदा स्वामिन्प्रसीद भगवन्प्रभो ।
वयं ते शरणापन्नाः सर्वथा परमेश्वर
॥३८॥शितिकण्ठाय रुद्राय स्वाहाकाराय ते नमः ।
अरूपाय सरूपाय विश्वरूपाय ते नमः
॥३९॥शिवाय नीलकंठाय चिताभस्मांगधारिणे ।
नित्यं नीलशिखंडाय श्रीकण्ठाय नमोनमः
॥४०॥सर्वप्रणतदेहाय संयमप्रणताय च ।
महादेवाय शर्वाय सर्वार्चितपदाय च
॥४१॥त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ।
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यसे
॥४२॥पर्वतानां सुमेरुस्त्वं नक्षत्राणां च चन्द्रमा ।
ऋषीणां च वशिष्ठस्त्वं देवानां वासवस्तथा
॥४३॥अकारस्सर्ववेदानां त्राता भव महेश्वर ।
त्वं च लोकहितार्थाय भूतानि परिषिंचसि
॥४४॥महेश्वर महाभाग शुभाशुभनिरीक्षक ।
आप्यायास्मान्हि देवेश कर्तॄन्वै वचनं तव
॥४५॥रूपकोटिसहस्रेषु रूपकोटिशतेषु ते ।
अंतं गंतुं न शक्ताः स्म देवदेव नमोस्तु ते
॥४६॥ब्रह्मोवाच
इति स्तुत्वाखिला देवा विष्ण्वाद्या प्रमुखस्थिताः ।
मुहुर्मुहुस्सुप्रणम्य स्कंदं कृत्वा पुरस्सरम्
॥४७॥देवस्तुतिं समाकर्ण्य शिवस्सर्वेश्वरस्स्वराट् ।
सुप्रसन्नो बभूवाथ विजहास दयापरः
॥४८॥उवाच सुप्रसन्नात्मा विष्ण्वादीन्सुरसत्तमान् ।
शंकरः परमेशानो दीनबंधुस्सतां गतिः
॥४९॥शिव उवाच
हे हरे हे विधे देवा वाक्यं मे शृणुतादरात् ।
सर्वथाहं सतां त्राता देवानां वः कृपानिधिः
॥५०॥दुष्टहंता त्रिलोकेशश्शंकरो भक्तवत्सलः ।
कर्ता भर्ता च हर्ता च सर्वेषां निर्विकारवान्
॥५१॥यदा यदा भवेद्दुःखं युष्माकं देवसत्तमाः ।
तदा तदा मां यूयं वै भजंतु सुखहेतवे
॥५२॥ब्रह्मोवाच
इत्याज्ञप्तस्तदा देवा विष्ण्वाद्यास्समुनीश्वराः ।
शिवं प्रणम्य सशिवं कुमारं च मुदान्विताः
॥५३॥कथयंतो यशो रम्यं शिवयोश्शांकरेश्च तत् ।
आनन्दं परमं प्राप्य स्वधामानि ययु र्मुने
॥५४॥शिवोपि शिवया सार्द्धं सगणः परमेश्वरः ।
कुमारेणयुतः प्रीत्योवास तस्मिन्गिरौ मुदा
॥५५॥इत्येवं कथितं सर्वं कौमारं चरितं मुने ।
शैवं च सुखदं दिव्यं किमन्यच्छ्रोतुमिच्छसि
॥५६॥इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखंडे स्वामिकार्तिकचरितगर्भितशिवाशिवचरितवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥