एवं महाव्रतं तस्याश्चरंत्या गुरुसन्निधौ
सूत उवाच
एवं महाव्रतं तस्याश्चरंत्या गुरुसन्निधौ ॥
संवत्सरो व्यतीयाय नियमासक्तचेतसः
॥१॥संवत्सरांते सा बाला तत्रैव पितृमंदिरे ॥
चकारोद्यापनं सम्यग्विप्रभोजनपूर्वकम्
॥२॥दत्त्वा च दक्षिणां तेभ्यो ब्राह्मणेभ्यो यथार्हतः ॥
विसृज्य तान्नमस्कृत्य पितृभ्यामभिनंदिता
॥३॥उपोषिता स्वयं तस्मिन्दिने नियममाश्रिता ॥
जजाप परमं मंत्रमुपदिष्टं महात्मना
॥४॥अथ प्रदोषसमये प्राप्ते संपूज्य शंकरम् ॥
तस्मिन्गृहांतिकमठे गुरोस्तस्य च सन्निधौ
॥५॥जपार्चनरता साध्वी ध्यायती परमेश्वरम् ॥
तस्मिञ्जागरणे रात्रावुपविष्टा शिवांतिके
॥६॥युग्मम् ॥
तस्यां रात्रौ तया सार्धं स मुनिर्जगदंबिकाम् ॥
जपध्यान तपोभिश्च तोषयामास पार्वतीम्
॥७॥तस्याश्च भक्त्या व्रतभाविताया मुनेस्तपोयोगसमाधिना च ॥
तुष्टा भवानी जगदेकमाता प्रादुर्बभूवा कृतसांद्रमूर्तिः
॥८॥प्रादुर्भूता यदा गौरी तयोरग्रे जगन्मयी ॥
अन्धोऽपि तत्क्षणादेव मुनिः प्राप दृशोर्द्वयम्
॥९॥तां वीक्ष्य जगतां धात्रीमाविर्भूतां पुरःस्थिताम् ॥
निपेततुस्तत्पदयोः स मुनिः सा च कन्यका
॥१०॥तौ भक्तिभावोच्छ्वसितामलाशयावानंदबाष्पोक्षित सर्वगात्रौ ॥
उत्थाप्य देवी कृपया परिप्लुता प्रेम्णा बभाषे मृदुवल्गुभाषिणी
॥११॥देव्युवाच
प्रीतास्मि ते मुनिश्रेष्ठ वत्से प्रीतास्मि तेऽनघे ॥
किं वा ददाम्यभिमतं देवानामपि दुर्लभम्
॥१२॥मुनिरुवाच
एषा तु शारदा नाम कन्या तु गतभतृका ॥
मया प्रतिश्रुतं चास्यै तुष्टेन गतचक्षुषा
॥१३॥सह भर्त्रा चिरं कालं विहृत्य सुतमुत्तमम् ॥
लभस्वेति मया प्रोक्तं सत्यं कुरु नमोऽस्तु ते
॥१४॥श्रीदेव्युवाच
एषा पूर्वभवे बाला द्राविडस्य द्विजन्मनः ॥
आसीद्द्वितीया दयिता भामिनी नाम विश्रुता
॥१५॥सा भर्तृप्रेयसी नित्यं रूपमाधुर्यपेशला ॥
भर्तारं वशमानिन्ये रूपवश्यादिकैतवैः
॥१६॥अस्यां चासक्तहृदयः स विप्रो मोहयंत्रितः ॥
कदाचिदपि नैवागाज्ज्येष्ठपत्नीं पतिव्रताम्
॥१७॥अनभ्यागमनाद्भर्तुः सा नारी पुत्रवर्जिता ॥
सदा शोकेन संतप्ता कालेन निधनं गता
॥१८॥अस्या गृहसमीपस्थो यः कश्चिद्ब्राह्मणो युवा ॥
इमां वीक्ष्याथ चार्वंगीं कामार्तः करमग्रहीत्
॥१९॥अनया रोषताम्राक्ष्या स विप्रस्तु निवारितः ॥
इमां स्मरन्दिवानक्तं निधनं प्रत्यपद्यत
॥२०॥एषा संमोह्य भर्तारं ज्येष्ठपत्न्यां पराङ्मुखम् ॥
चकार तेन पापेन भवेस्मिन्विधवाऽभवत्
॥२१॥याः कुर्वंति स्त्रियो लोके जायापत्योश्च विप्रियम् ॥
तासां कौमारवैधव्यमेकविंशतिजन्मसु
॥२२॥यदेतया पूर्वभवे मत्पूजा महती कृता ॥
तेन पुण्येन तत्पापं नष्टं सर्वं तदैव हि
॥२३॥यो विप्रो विरहार्तः सन्मृतः कामविमोहितः ॥
सोऽस्याः पाणिग्रहं कृत्वा भवेस्मिन्निधनं गतः
॥२४॥प्राग्जन्मपतिरेतस्याः पांड्यराष्ट्रेषु सोऽधुना ॥
जातो विप्रवरः श्रीमान्सदारः सपरिच्छदः
॥२५॥तेन भर्त्रा प्रतिनिशं सैषा प्रेम्णाभिसंगता ॥
स्वप्ने रतिसुखं यातु श्रेष्ठं जागरणादपि
॥२६॥षष्ट्युत्तरत्रिशतयोजनदूरसंस्थो देशादितो द्विजवरः स च कर्मगत्या ॥
एनां वधूं प्रतिनिशं मनसोभिरामां स्वप्नेषु पश्यति चिरं रतिमादधानः
॥२७॥सैषा वै स्वप्नसंगत्या पत्युः प्रतिनिशं सती ॥
कालेन लप्स्यते पुत्रं वेदवेदांगपारगम्
॥२८॥एतस्यां तनयं जातमात्मनश्चिरसंगमात् ॥
सोऽपि विप्रोऽनिशं स्वप्ने द्रक्ष्यति प्रेमभावितम्
॥२९॥अनयाराधिता पूर्वे भवे साहं महामुने ॥
अस्यैव वरदानाय प्रादुर्भूतास्मि सांप्रतम्
॥३०॥सूत उवाच
अथोवाच महादेवी तां बालां प्रति सादरम् ॥
अयि वत्से महाभागे शृणु मे परमं वचः
॥३१॥यदा कदापि भर्त्तारं क्वापि देशे पुरातनम् ॥
द्रक्ष्यसि स्वप्नदृष्टं प्राक्ज्ञास्यसे त्वं विचक्षणा
॥३२॥त्वां द्रक्ष्यति स विप्रोपि सुनयां स्वप्नलक्षणाम् ॥
तदा परस्परालापो युवयोः संभविष्यति
॥३३॥तदा स्वतनयं भद्रे तस्मै देहि बहुश्रुतम् ॥
फलमस्य व्रतस्याग्र्यं तस्य हस्ते समर्पय
॥३४॥ततः प्रभृति तस्यैव वशे तिष्ठ सुमध्यमे ॥
युवयोदैहिकः संगो माभूत्स्वप्नरतादृते
॥३५॥कालात्पंचत्वमापन्ने तस्मिन्ब्राह्मणसत्तमे ॥
अग्निं प्रविश्य तेनैव सह यास्यसि मत्पदम्
॥३६॥पुत्रस्ते भविता सुभ्रु सर्वलोकमनोरमः ॥
संपदश्च भविष्यंति प्राप्स्यते परमं पदम्
॥३७॥सूत उवाच
इत्युक्त्वा त्रिजगन्माता दत्त्वा तस्यै मनोरथम् ॥
तयोः संपश्यतोरेव क्षणेनादर्शनं गता
॥३८॥सापि बाला वरं लब्ध्वा पार्वत्याः करुणानिधेः ॥
अवाप परमानंदं पूजयामास तं गुरुम्
॥३९॥तस्यां रात्र्यां व्यतीतायां स मुनिर्लब्धलोचनः ॥
तस्याः पित्रोश्च तत्सर्वं रहस्याचष्ट धर्मवित्
॥४०॥अथ सर्वानुपामंत्र्य शारदां च यशस्विनीम् ॥
विधायानुग्रहं तेषां ययौ स्वैरगतिर्मुनिः
॥४१॥एवं दिनेषु गच्छत्सु सा बाला च प्रतिक्षणम् ॥
भर्तुः समागमं लेभे स्वप्ने सुख विवर्धनम्
॥४२॥गौर्या वरप्रदानेन शारदा विशदव्रता ॥
दधार गर्भं स्वप्नेपि भर्तुः संगानुभावतः
॥४३॥तां श्रुत्वा भर्तृरहितां शारदां गर्भिणी सतीम् ॥
सर्वे धिगिति प्रोचुस्तां जारिणीति जगुर्जनाः
॥४४॥संपरेतस्य तद्भर्तुर्ये जातिकुलवबांधवाः ॥
तां वार्तां दुःसहां श्रुत्वा ययुस्तत्पितृमंदिरम्
॥४५॥अथ सर्वे समायाता ग्रामवृद्धाश्च पंडिताः ॥
समाजं चक्रिरे तत्र कुलवृद्धैः समन्वितम्
॥४६॥अन्तर्वत्नीं समाहूय शारदां विनताननाम् ॥
अतर्जयन्सुसंक्रुद्धाः केचिदासन्पराङ्मुखाः
॥४७॥अयि जारिणि दुर्बुद्धे किमेतत्ते विचेष्टितम् ॥
अस्मत्कुले सुदुष्कीर्त्तिं कृतवत्यसि बालिशे
॥४८॥इति संतर्जयंतस्ते ग्रामवृद्धा मनीषिणः ॥
सर्वे संमंत्रयामासुः किं कुर्म इति भाषिणः
॥४९॥तत्रोचुः के च वृद्धास्तां बालां प्रति विनिर्दयाः ॥
एषा पापमतिर्बाला कुलद्वयविनाशिनी
॥५०॥कृत्वास्याः केशवपनं छित्त्वा कर्णौ च नासिकाम् ॥
निर्वास्यतां बहिर्ग्रामात्परित्यज्य स्वगोत्रतः
॥५१॥इति सर्वे समालोच्य तां तथा कर्तुमुद्यताः ॥
अथांतरिक्षे संभूता शुश्रुवे वागगोचरा
॥५२॥अनया न कृतं पापं न चैव कुलदूषणम् ॥
व्रतभंगो न चैतस्यास्सुचरित्रेयमंगना
॥५३॥इतः परमियं नारी जारिणीति वदंति ये ॥
तेषां दोषविमूढानां सद्यो जिह्वा विदीर्यते
॥५४॥इत्यंतरिक्षे जनितां वाणीं श्रुत्वाऽशरीरिणीम् ॥
सर्वे प्रजहृषुस्तस्या जननीजनकादयः
॥५५॥ततः ससंभ्रमाः सर्वे ग्रामवृद्धाः सभाजनाः ॥
मुहूर्त्तं मौनमालंब्य भीतास्तस्थुरधोमुखाः
॥५६॥तत्र केचिदविश्वस्ता मिथ्यावाणीत्यवादिषुः ॥
तेषां जिह्वा द्विधा भिन्ना ववमुस्ते कृमीन्क्षणात्
॥५७॥ततः संपूजयामासुस्तां बालां ज्ञातिबांधवाः ॥
बांधवाश्च स्त्रियो वृद्धाः शशंसुः साधुसाध्विति
॥५८॥मुमुचुः केचिदानंदबाष्पबिंदून्कुलोत्तमाः ॥
कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन्
॥५९॥अथ तत्रापरे प्रोचुर्देवो वदति नानृतम् ॥
कथमेषां दधौ गर्भं शीलान्न चलिता ध्रुवम्
॥६०॥इति सर्वान्सभ्यजना न्संशयाविष्टचेतसः ॥
विलोक्य वृद्धस्तत्रैको सर्वज्ञो लोकतत्त्ववित्
॥६१॥मायामयमिदं विश्वं दृश्यते श्रूयते च यत् ॥
किं भाव्यं किमभाव्यं वा संसारेऽस्मिन्क्षणात्मके
॥६२॥अनिरूप्यमभूतार्थं मायया जायते स्फुटम् ॥
ईश्वरस्य वशे माया तस्य को वेद चेष्टितम्
॥२३॥यूपकेतोश्च राजर्षेः शुक्रं निपतितं जले ॥
सशुक्रं तज्जलं पीत्वा वेश्या गर्भं दधौ किल
॥६४॥मुनेर्विभांडकस्यापि शुक्रं पीत्वा सहांभसा ॥
हरिणी गर्भिणी भूत्वा ऋष्यशृंगमसूयत
॥६५॥सुराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगांगना ॥
तत्क्षणाद्गर्भिणी भूत्वा मुनिं प्रासूत तापसम्
॥६६॥तथा सत्यवती नारी शफरीगर्भसंभवा ॥
तथैव महिषीगर्भो जातश्च महिषासुरः
॥६७॥तथा संति पुरा नार्यः कारुण्याद्गर्भसंभवाः ॥
तथा हि वसुदेवेन रोहिण्या स्तनयोऽभवत्
॥६८॥देवतानां महर्षीणां शापेन च वरेण च ॥
अयुक्तमपि यत्कर्म युज्यते नात्र संशयः
॥६९॥सांबस्य जठराज्जातं मुसलं मुनिशापतः ॥
युवनाश्वस्य गर्भोऽभून्मुनीनां मंत्रगौरवात्
॥७०॥नूनमेषापि कल्याणी महर्षेः पादसेवनात् ॥
महाव्रतानुभावाच्च धत्ते गर्भमनिं दिता
॥७१॥अस्मिन्नर्थे रहस्येनां सत्यं पृच्छंतु योषितः ॥
ततो निवृत्तसंदेहो भविष्यति महाजनः
॥७२॥ततस्तद्वचनादेव तामपृच्छन्स्त्रियो मिथः ॥
ताभ्यः शशंस तत्सर्वं सा स्ववृत्तं महाद्भुतम्
॥७३॥विजानंतस्ततः सर्वे मानयित्वा च तां सतीम् ॥
मोदमानाः प्रशंसंतः प्रययुः स्वं स्वमालयम्
॥७४॥अथ काले शुभे प्राप्ते शारदा विमलाशया ॥
असूत तनयं बाला बालार्कसमतेजसम्
॥७५॥स कुमारो महोदारलक्षणः कमलेक्षणः ॥
अवाप्य महतीं विद्यां बाल्य एव महामतिः
॥७६॥अथोपनीतो गुरुणा काले लोकमनोरमः ॥
स शारदेय एवेति लोके ख्याति मवाप ह
॥७७॥ऋग्वेदमष्टमे वर्षे नवमे यजुषां गणम् ।
दशमे सामवेदं च लीलयाध्यगमत्सुधीः
॥७८॥अथ त्रिलोकमहिते संप्राप्ते शिवपर्वणि ॥
गोकर्णं प्रययुः सर्वे जनाः सर्वनिवासिनः
॥७९॥शारदापि स्वपुत्रेण गोकर्णं प्रययौ सती
॥८०॥तत्रापश्यत्समायातं सदा स्वप्नेषु लक्षितम् ॥
पूर्वजन्मनि भर्त्तारं द्विजबंधुजनावृतम्
॥८१॥तं दृष्ट्वा प्रेमनिर्विण्णा पुलकांकितविग्रहा ॥
निरुद्धबाष्पप्रसरा तस्थौ तन्न्यस्तलोचना
॥८२॥स च विप्रोऽपि तां दृष्ट्वा रूपलक्षणलक्षिताम् ॥
स्वप्ने सदा भुज्यमानामात्मनो रतिदायिनीम्
॥८३॥तं कुमारमपि स्वप्ने दृष्ट्वा चात्म शरीरजम् ॥
विलोक्य विस्मयाविष्टस्तदंतिकमुपाययौ
॥८४॥भद्रे त्वां प्रष्टुमिच्छामि यत्किंचिन्मनसि स्थितम् ॥
इति प्रथममाभाष्य रहः स्थानं निनाय ताम्
॥८५॥का त्वं कथय वामोरु कस्य भार्यासि सुव्रते ॥
को देशः कस्य वा पुत्री किन्नामेत्यब्रवीच्च ताम्
॥८६॥इति तेन समापृष्टा सा नारी बाष्पलोचना ॥
व्याजहारात्मनोवृत्तं बाल्ये वैधव्यकारणम्
॥८७॥पुनः पप्रच्छ तां बालां पुत्रः कस्यायमुत्तमः ॥
कथं धृतो वा जठरे बालोऽयं चंद्रसन्निभः
॥८८॥शारदोवाच
एष मे तनयः स्वामिन्सर्वविद्याविशारदः ॥
शारदेय इति प्रोक्तो मम नाम्नैव कल्पितः
॥६९॥इति तस्या वचः श्रुत्वा विहस्य ब्राह्मणोत्तमः ॥
प्रोवाच कष्टात्कष्टं हि चरितं तव भामिनि
॥९०॥पाणिग्रहणमात्रं ते कृत्वा भर्त्ता मृतः किल ॥
कथं चायं सुतो जातस्तस्य कारणमुच्यताम्
॥९१॥इति तेनोदितां वाणीमाकर्ण्यातीव लज्जिता ॥
क्षणं चाश्रुमुखी भूत्वा धैर्यादित्थमभाषत
॥९२॥शारदोवाच
तदलं परिहासोक्त्या त्वं मां वेत्सि महामते ॥
त्वामहं वेद्मि चार्थेऽस्मिन्प्रमाणं मन आवयोः
॥९३॥इत्युक्त्वा सर्वमावेद्य देव्या दत्तं वरादिकम् ॥
व्रतस्यार्धं कुमारं तं ददौ तस्मै धृतव्रतम्
॥९४॥सोऽपि प्रमुदितो विप्रः कुमारं प्रतिगृह्य तम् ॥
पित्रोरनुमतेनैव तां निनाय निजालयम्
॥९५॥सापि स्थित्वा बहून्मासांस्तस्य विप्रस्य मंदिरे ॥
तस्मिन्कालवशं प्राप्ते प्रविश्याग्निं तमन्वगात्
॥९६॥ततस्तौ दंपती भूत्वा विमानं दिव्यमास्थितौ ॥
दिव्यभोगसमायुक्तौ जग्मतुः शिवमंदिरम्
॥९७॥इत्येततत्पुण्यमाख्यानं मया समनुवर्णितम् ॥
पठतां शृण्वतां सम्यग्भुक्तिमुक्तिफलप्रदम्
॥९८॥आयुरारोग्यसंपत्तिधनधत्यविवर्द्धनम् ॥
स्त्रीणां मंगलसौभाग्यसंतानसुखसाधनम्
॥९९॥एतन्महाख्यानमघौघनाशनं गौरीमहेशव्रतपुण्यकीर्तनम् ॥
भक्त्या सकृद्यः शृणुयाच्च कीर्त्तयेद्भुक्त्वा स भोगान्पदमेति शाश्वतम्
॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे शारदाख्यानवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥