भद्रायुशिवप्रसादकथनम्
सूत उवाच
प्राप्तसिंहासनो वीरो भद्रायुः स महीपतिः ॥
प्रविवेश वनं रम्यं कदाचिद्भार्यया सह
॥१॥तस्मिन्विकसिताशोकप्रसूननवपल्लवे ॥
प्रोत्फुल्लमल्लिकाखंडकूजद्भ्रमरसंकुले
॥२॥नवकेसरसौरभ्यबद्धरागिजनोत्सवे ॥
सद्यः कोरकिताशोकतमालगहनांतरे
॥३॥प्रसूनप्रकरानम्र माधवीवनमंडपे ॥
प्रवालकुसुमोद्द्योतचूतशाखिभिरञ्चिते
॥४॥पुन्नागवनविभ्रांतपुंस्कोकिलविराविणि ॥
वसन्तसमये रम्ये विजहार स्त्रिया सह
॥५॥अथाविदूरे क्रोशंतौ धावंतौ द्विजदंपती ॥
अन्वीयमानौ व्याघ्रेण ददर्श नृपसत्तमः
॥६॥पाहि पाहि महाराज हा राजन्करुणानिधे ॥
एष धावति शार्दूलो जग्धुमावां महारयः
॥७॥एष पर्वतसंकाशः सर्वप्राणिभयंकरः ॥
यावन्न खादति प्राप्य तावन्नौ रक्ष भूपते
॥८॥इत्थमाक्रंदितं श्रुत्वा स राजा धनुराददे ॥
तावदागत्य शार्दूलो मध्ये जग्राह तां वधूम्
॥९॥हा नाथ नाथ हा कांत हा शंभो जगतः पते ॥
इति रोरूयमाणां तां यावज्जग्राह भीषणः
॥१०॥तावत्स राजा निशितैर्भल्लैर्व्याघ्रमताडयत् ॥
न च तैर्विव्यथे किंचिद्गिरींद्र इव वृष्टिभिः
॥११॥स शार्दूलो महासत्त्वो राज्ञोस्त्रैरकृतव्यथः ॥
बलादाकृष्य तां नारीमपाक्रामत सत्वरः
॥१२॥व्याघ्रेणापहृतां पत्नीं वीक्ष्य विप्रोऽतिदुःखितः ॥
रुरोद हा प्रिये बाले हा कांते हा पतिव्रते
॥१३॥एकं मामिह संत्यज्य कथं लोकांतरं गता ॥
प्राणेभ्योपि प्रियां त्यक्त्वा कथं जीवितुमुत्सहे
॥१४॥राजन्क्व ते महास्त्राणि क्व ते श्लाघ्यं महद्धनुः ॥
क्व ते द्वादशसाहस्रमहानागातिगं बलम्
॥१५॥किं ते शंखेन खङ्गेन किं ते मंत्रास्त्रविद्यया ॥
किं च तेन प्रयत्नेन किं प्रभावेण भूयसा
॥१६॥तत्सर्वं विफलं जातं यच्चान्यत्त्वयि तिष्ठति ॥
यस्त्वं वनौकसं जंतुं निवारयितुमक्षमः
॥१७॥क्षात्त्रस्यायं परो धर्मः क्षताद्यत्परिरक्षणम् ॥
तस्मात्कुलोचिते धर्मे नष्टे त्वज्जीवितेन किम्
॥१८॥आर्तानां शरणार्तानां त्राणं कुर्वंति पार्थिवाः ॥
प्राणैरर्थैश्च धर्मज्ञास्तद्विहीना मृतोपमाः
॥१९॥धनिनां दानहीनानां गार्हस्थ्याद्भिक्षुता वरा ॥
आर्तत्राणविहीनानां जीवितान्मरणं वरम्
॥२०॥वरं विषादनं राज्ञो वरमग्नौ प्रवेशनम् ॥
अनाथानां प्रपन्नानां कृपणानामरक्षणात्
॥२१॥इत्थं विलपितं तस्य स्ववीर्यस्य च गर्हणम् ॥
निशम्य नृपतिः शोकादात्मन्येवमचिंतयत्
॥२२॥अहो मे पौरुषं नष्टमद्य दैवविपर्ययात् ॥
अद्य कीर्तिश्च मे नष्टा पातकं प्राप्तमुत्क टम्
॥२३॥धर्मः कालोचितो नष्टो मन्दभाग्यस्य दुर्मतेः ॥
नूनं मे संपदो राज्यमायुष्यं क्षयमेष्यति
॥२४॥अपुंसां संपदो भोगाः पुत्रदारधनानि च ॥
दैवेन क्षणमुद्यंति क्षणादस्तं व्रजंति च
॥२५॥अत एनं द्विजन्मानं हतदारं शुचार्दितम् ॥
गतशोकं करिष्यामि दत्त्वा प्राणानपि प्रियान्
॥२६॥इति निश्चित्य मनसा भद्रायुर्नृपसत्तमः ॥
पतित्वा पादयोस्त्वस्य बभाषे परिसांत्वयन्
॥२७॥कृपां कुरु मयि ब्रह्मन्क्षत्रबंधौ हतौजसि ॥
शोकं त्यज महाबुद्धे दास्याम्यर्थं तवेप्सितम्
॥२८॥इदं राज्यमियं राज्ञी ममेदं च कलेवरम् ॥
त्वधीनमिदं सर्वं किं तेऽभिलषितं वद
॥२९॥ब्राह्मण उवाच
किमादर्शेन चांधस्य किं गृहैर्भैक्ष्यजीविनः ॥
किं पुस्तकेन मूर्खस्य ह्यस्त्रीकस्य धनेन किम्
॥३०॥अतोऽहं गतपत्नीको भुक्तभोगो न कर्हिचित् ॥
इमां तवाग्रमहिषीं कामार्थं दीयतां मम
॥३१॥राजोवाच
ब्रह्मन्किमेष धर्मस्ते किमेतद्गुरुशासनम् ॥
अस्वर्ग्यमयशस्यं च परदाराभिमर्शनम्
॥३२॥दातारः संति वित्तस्य राज्यस्य गजवाजिनाम् ॥
आत्मदेहस्य वा क्वापि न कलत्रस्य कर्हिचित्
॥३३॥परदारोपभोगेन यत्पापं समुपार्जितम् ॥
न तत्क्षालयितुं शक्यं प्रायश्चित्तशतैरपि
॥३४॥ब्राह्मण उवाच
अपि ब्रह्मवधं घोरमपि मद्यनिषेवणम् ॥
तपसा नाशयिष्यामि कि पुनः पारदारिकम् ॥
तस्मात्प्रयच्छ मे भार्यामिमां त्वं ध्रुवमन्यथा
॥३५॥अरक्षणाद्भयार्तानां गंतासि निरयं ध्रुवम् ॥
इति विप्रगिरा भीतश्चिंतयामास पार्थिवः ॥
अरक्षणान्महत्पापं पत्नीदानं ततो वरम्
॥३६॥अतः पत्नीं द्विजाग्र्याय दत्त्वा निर्मुक्तकिल्विषः ॥
सद्यो वह्निं प्रवेक्ष्यामि कीर्तिश्च निहिता भवेत्
॥३७॥इति निश्चित्य मनसा समुज्ज्वाल्य हुताशनम् ॥
तं ब्राह्मणं समाहूय ददौ पत्नीं सहोदकाम्
॥३८॥स्वयं स्नातः शुचिर्भूत्वा प्रणम्य विबुधेश्वरान् ॥
तमग्निं द्विः परिक्रम्य शिवं दध्यौ समाहितः
॥३९॥तमथाग्नौ पतिष्यंतं स्वपदासक्तचेतसम् ॥
प्रत्यदृश्यत विश्वेशः प्रादुर्भूतो जगत्पतिः
॥४०॥तमीश्वरं पंचवक्त्रं त्रिनेत्रं पिनाकिनं चन्द्रकलावतंसम् ॥
आलंबितापिंगजटाकलापं मध्यंगतं भास्करकोटितेजसम्
॥४१॥मृणालगौरं गजचर्मवाससं गंगातरंगो क्षितमौलिदेशम् ॥
नागेंद्रहारावलिकंकणोर्मिकाकिरीटकोट्यंगदकुंडलोज्ज्वलम्
॥४२॥त्रिशूलखट्वांगकुठारचर्ममृगाभयेष्टार्थपिनाकहस्तम् ॥
वृषोपरिस्थं शितिकंठमीशं प्रोद्भूतमग्रे नृपतिर्ददर्श
॥४३॥अथांबराद्द्रुतं पेतुर्दिव्याः कुसुमवृष्टयः ॥
प्रणेदुर्देवतूर्याणि देवाश्च ननृतुर्जगुः
॥४४॥तत्राजग्मुर्नारदाद्याः सनकाद्या सुरर्षयः ॥
इन्द्रादयश्च लोकेशास्तथाब्रह्मर्षयोऽमलाः
॥४५॥तेषां मध्ये समासीनो महादेवः सहोमया ॥
ववर्ष करुणासारं भक्तिनम्रे महीपतौ
॥४६॥तद्दर्शनानंदविजृंभिताशयः प्रवृद्धबाष्पांबुपरिप्लुतांगः ॥
प्रहृष्टरोमा गलगद्गदाक्षरं तुष्टाव गीर्भिर्मुकुलीकृतांजलिः
॥४७॥राजोवाच
नतोस्म्यहं देवमनाथमव्ययं प्रधानमव्यक्तगुणं महांतम् ॥
अकारणं कारणकारणं परं शिवं चिदानंदमयं प्रशांतम्
॥४८॥त्वं विश्वसाक्षी जगतोऽस्यकर्त्ता विरूढधामा हृदि सन्निविष्टः ॥
अतो विचिन्वंति विधौ विपश्चितो योगैरनेकैः कृतचित्तरोधैः
॥४९॥एकात्मतां भावयतां त्वमेको नानाधियां यस्त्वमनेकरूपः ॥
अतींद्रियं साक्ष्युदयास्तविभ्रमं मनःपथात्संह्रियते पदं ते
॥५०॥तं त्वां दुरापं वचसो धियाश्च व्यपेतमोहं परमात्मरूपम् ॥
गुणैकनिष्ठाः प्रकृतौ विलीनाः कथं वपुः स्तोतुमलंगिरो मे
॥५१॥तथापि भक्त्याश्रयतामुपेयुस्तवांघ्रिपद्मं प्रणतार्तिभंजनम् ॥
सुघोरसंसारदवाग्निपीडितो भजामि नित्यं भवभीतिशांतये
॥५२॥नमस्ते देव देवाय महादेवाय शंभवे ॥
नमस्त्रिमूर्तिरूपाय सर्गस्थित्यंतकारिणे
॥५३॥नमो विश्वादिरूपाय विश्वप्रथमसाक्षिणे ॥
नमः सन्मात्रतत्त्वाय बोधानंदघनाय च
॥५४॥सर्वक्षेत्रनिवासाय क्षेत्रभिन्नात्मशक्तये ॥
अशक्ताय नमस्तुभ्यं शक्ताभासाय भूयसे
॥५५॥निराभासाय नित्याय सत्यज्ञानांतरात्मने ॥
विशुद्धाय विदूराय विमुक्ताशेषकर्मणे
॥५६॥नमो वेदांतवेद्याय वेदमूलनिवासिने ॥
नमो विविक्तचेष्टाय निवृत्तगुण वृत्तये
॥५७॥नमः कल्याणवीर्याय कल्याणफलदायिने ॥
नमोऽनंताय महते शांताय शिवरूपिणे
॥५८॥अघोराय सुघोराय घोराघौघ विदारिणे ॥
भर्गाय भवबीजानां भंजनाय गरीयसे ॥
नमो विध्वस्तमोहाय विशदात्मगुणाय च
॥५९॥पाहि मां जगतां नाथ पाहि शंकर शाश्वत ॥
पाहि रुद्र विरूपाक्ष पाहि मृत्युंजयाव्यय
॥६०॥शम्भो शशांककृतशेखर शांतमूर्ते गौरीश गोपतिनिशापहुताशनेत्र ॥
गंगाधरांधकविदारण पुण्यकीर्ते भूतेश भूधरनिवास सदा नमस्ते
॥६१॥सूत उवाच
एवं स्तुतः स भगवान्राज्ञा देवो महेश्वरः ॥
प्रसन्नः सह पार्वत्या प्रत्युवाच दयानिधिः
॥६२॥ईश्वर उवाच
राजंस्ते परितुष्टोऽस्मि भक्त्या पुण्यस्तवेन च ॥
अनन्यचेता यो नित्यं सदा मां पर्यपूजयः
॥६३॥तव भावपरीक्षार्थं द्विजो भूत्वाहमागतः ॥
व्याघ्रेण या परिग्रस्ता सैषा दैवी गिरींद्रजा
॥६४॥व्याघ्रो मायामयो यस्ते शरैरक्षतविग्रहः ॥
धीरतां द्रष्टुकामस्ते पत्नीं याचितवानहम्
॥६५॥अस्याश्च कीर्तिमालिन्यास्तव भक्त्या च मानद ॥
तुष्टोऽहं संप्रयच्छामि वरं वरय दुर्लभम्
॥६६॥राजोवाच
एष एव वरो देव यद्भवान्परमेश्वरः ॥
भवतापपरीतस्य मम प्रत्यक्षतां गतः
॥६७॥नान्यं वरं वृणे देव भवतो वरदर्षभात् ॥
अहं च सेयं सा राज्ञी मम माता च मत्पिता
॥६८॥वैश्यः पद्माकरो नाम तत्पुत्रः सुनयाभिधः ॥
सर्वानेतान्महादेव सदा त्वत्पार्श्वगान्कुरु
॥६९॥सूत उवाच
अथ राज्ञी महाभागा प्रणता कीर्तिमालिनी ॥
भक्त्या प्रसाद्य गिरिशं ययाचे वरमुत्तमम्
॥७०॥राज्ञ्युवाच
चंद्रांगदो मम पिता माता सीमंतिनी च मे ॥
तयोर्याचे महादेव त्वत्पार्श्वे सन्निधिं सदा
॥७१॥एवमस्त्विति गौरीशः प्रसन्नो भक्तवत्सलः ॥
तयोः कामवरं दत्त्वा क्षणादंतर्हितोऽभवत्
॥७२॥सोपि राजा सुरैः सार्धं प्रसादं प्राप्य शूलिनः ॥
सहितः कीर्तिमालिन्या बुभुजे विषयान्प्रियान्
॥७३॥कृत्वा वर्षायुतं राज्यमव्याहतबलोन्नतिः ॥
राज्यं पुत्रेषु विन्यस्य भेजे शंभोः परं पदम्
॥७४॥चंद्रांगदोपि राजेंद्रो राज्ञी सीमंतिनी च सा ॥
भक्त्या संपूज्य गिरिशं जग्मतुः शांभवं पदम्
॥७५॥एतत्पवित्रमघनाशकरं विचित्रं शम्भोर्गुणानुकथनं परमं रहस्यम् ॥
यः श्रावयेद्बुधजनान्प्रयतः पठेद्वा संप्राप्य भोगविभवं शिव मेति सोंते
॥७६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्रायुशिवप्रसादकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥