मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ८

3
रुद्रसंहिता · सतीखण्डः · 8

इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः

सूत उवाच

इत्याकर्ण्य वचस्तस्य ब्रह्मणो हि प्रजापतेः ।

प्रसन्नमानसो भूत्वा तं प्रोवाच स नारदः

॥१॥

नारद उवाच

ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।

धन्यस्त्वं शिवभक्तो हि परतत्त्वप्रदर्शकः

॥२॥

श्राविता सुकथा दिव्या शिवभक्तिविवर्द्धिनी ।

अरुंधत्यास्तथा तस्याः स्वरूपायाः परे भवे

॥३॥

इदानीं ब्रूहि धर्मज्ञ पवित्रं चरितं परम् ।

शिवस्य परपापघ्नं मंगलप्रदमुत्तमम्

॥४॥

गृहीतदारे कामे च दृष्टे तेषु गतेषु च ।

संध्यायां किं तपस्तप्तुं गतायामभवत्ततः

॥५॥

सूत उवाच

इति श्रुत्वा वचस्तस्य ऋषेर्वै भावितात्मनः ।

सुप्रसन्नतरो भूत्वा ब्रह्मा वचनमब्रवीत्

॥६॥

ब्रह्मोवाच

शृणु नारद विप्रेन्द्र तदैव चरितं शुभम् ।

शिवलीलान्वितं भक्त्या धन्यस्त्वं शिवसेवकः

॥७॥

अहं विमोहितस्तात यदैवांतर्हितः पुरा ।

अचिंतयं सदाहं तच्छंभुवाक्यविषार्दितः

॥८॥

चिंतयित्वा चिरं चित्ते शिवमायाविमोहितः ।

शिवे चेर्ष्यामकार्षं हि तच्छ्ृवृणुष्व वदामि ते

॥९॥

अथाहमगमं तत्र यत्र दक्षादयः स्थिताः ।

सरतिं मदनं दृष्ट्वा समदोह हि किञ्चन

॥१०॥

दक्षमाभाष्य सुप्रीत्या परान्पुत्रांश्च नारद ।

अवोचं वचनं सोहं शिवमायाविमोहितः

॥११॥

ब्रह्मोवाच

हे दक्ष हे मरीच्याद्यास्सुताः शृणुत मद्वचः ।

श्रुत्वोपायं विधेयं हि मम कष्टापनुत्तये

॥१२॥

कांताभिलाषमात्रं मे दृष्ट्वा शम्भुरगर्हयत् ।

मां च युष्मान्महायोगी धिक्कारं कृतवान्बहु

॥१३॥

तेन दुःखाभितप्तोहं लभेहं शर्म न क्वचित् ।

यथा गृह्णातु कांतां स स यत्नः कार्य एव हि

॥१४॥

यथा गृह्णातु कांतां स सुखी स्यां दुःखवर्जितः ।

दुर्लभस्य तु कामो मे परं मन्ये विचारतः

॥१५॥

कांताभिलाषमात्रं मे दृष्ट्वा शंभुरगर्हयत् ।

मुनीनां पुरतः कस्मात्स कांतां संग्रहीष्यति

॥१६॥

का वा नारी त्रिलोकेस्मिन् या भवेत्तन्मनाः स्थिता ।

योगमार्गमवज्ञाप्य तस्य मोहं करिष्यति

॥१७॥

मन्मथोपि समर्थो नो भविष्यत्यस्य मोहने ।

नितांतयोगी रामाणां नामापि सहते न सः

॥१८॥

अगृहीतेषुणा चैव हरेण कथमादिना ।

मध्यमा च भवेत्सृष्टिस्तद्वाचा नान्यवारिता

॥१९॥

भुवि केचिद्भविष्यंति मायाबद्धा महासुराः ।

बद्धा केचिद्धरेर्नूनं केचिच्छंभोरुपायतः

॥२०॥

संसारविमुखे शंभौ तथैकांतविरागिणि ।

अस्मादृते न कर्मान्यत् करिष्यति न संशयः

॥२१॥

इत्युक्त्वा तनयांश्चाहं दक्षादीन् सुनिरीक्ष्य च ।

सरतिं मदनं तत्र सानंदमगदं ततः

॥२२॥

ब्रह्मोवाच

मत्पुत्र वर काम त्वं सर्वथा सुखदायकः ।

मद्वचश्शृणु सुप्रीत्या स्वपत्न्या पितृवत्सल

॥२३॥

अनया सहचारिण्या राजसे त्वं मनोभव ।

एषा च भवता पत्या युक्ता संशोभते भृशम्

॥२४॥

यथा स्त्रिया हृषीकेशो हरिणा सा यथा रमा ।

क्षणदा विधुना युक्ता तया युक्तो यथा विधुः

॥२५॥

तथैव युवयोश्शोभा दांपत्यं च पुरस्कृतम् ।

अतस्त्वं जगतः केतुर्विश्वकेतुर्भविष्यसि

॥२६॥

जगद्धिताय वत्स त्वं मोहयस्व पिनाकिनम् ।

यथाशु सुमनश्शंभुः कुर्य्याद्दारप्रतिग्रहम्

॥२७॥

विजने स्निग्धदेशे तु पर्वतेषु सरस्सु च ।

यत्रयत्र प्रयातीशस्तत्र तत्रानया सह

॥२८॥

मोहय त्वं यतात्मानं वनिताविमुखं हरम् ।

त्वदृते विद्यते नान्यः कश्चिदस्य विमोहकः

॥२९॥

भूते हरे सानुरागे भवतोपि मनोभव ।

शापोपशांतिर्भविता तस्मादात्महितं कुरु

॥३०॥

सानुरागो वरारोहां यदीच्छति महेश्वरः ।

तदा भवोपि योग्यार्यस्त्वां च संतारयिष्यति

॥३१॥

तस्माज्जायाद्वितीयस्त्वं यतस्व हरमोहने ।

विश्वस्य भव केतुस्त्वं मोहयित्वा महेश्वरम्

॥३२॥

ब्रह्मोवाच

इति श्रुत्वा वचो मे हि जनकस्य जगत्प्रभोः ।

उवाच मन्मथस्तथ्यं तदा मां जगतां पतिम्

॥३३॥

मन्मथ उवाच

करिष्येहं तव विभो वचनाच्छंभुमोहनम् ।

किं तु योषिन्महास्त्रं मे तत्कांतां भगवन् सृज

॥३४॥

मया संमोहिते शंभो यया तस्यानुमोहनम् ।

कर्तव्यमधुना धातस्तत्रोपायं परं कुरु

॥३५॥

ब्रह्मोवाच

एवंवादिनि कंदर्पे धाताहं स प्रजापतिः ।

कया संमोहनीयोसाविति चिंतामयामहम्

॥३६॥

चिंताविष्टस्य मे तस्य निःश्वासो यो विनिस्सृतः ।

तस्माद्वसंतस्संजातः पुष्पव्रातविभूषितः

॥३७॥

शोणराजीवसंकाशः फुल्लतामरसेक्षणः ।

संध्योदिताखंडशशिप्रतिमास्यस्सुनासिकः

॥३८॥

शार्ङ्गवच्चरणावर्त्तश्श्यामकुंचितमूर्द्धजः ।

संध्यांशुमालिसदृशः कुडलद्वयमंडितः

॥३९॥

प्रमत्तेभगतिः पीनायतदोरुन्नतांसकः ।

कंबुग्रीवस्सुविस्तीर्णहृदयः पीनसन्मुखः

॥४०॥

सर्वांगसुन्दरः श्यामस्सम्पूर्णस्सर्वलक्षणैः ।

दर्शनीयतमस्सर्वमोहनः कामवर्द्धनः

॥४१॥

एतादृशे समुत्पन्ने वसंते कुसुमाकरे ।

ववौ वायुस्सुसुरभिः पादपा अपि पुष्पिताः

॥४२॥

पिका विनेदुश्शतशः पंचमं मधुरस्वनाः ।

प्रफुल्लपद्मा अभवन्सरस्यः स्वच्छपुष्कराः

॥४३॥

तमुत्पन्नमहं वीक्ष्य तदा तादृशमुत्तमम् ।

हिरण्यगर्भो मदनमगदं मधुरं वचः

॥४४॥

ब्रह्मोवाच

एवं स मन्मथनिभस्सदा सहचरोभवत् ।

आनुकूल्यं तव कृतः सर्वं देव करिष्यति

॥४५॥

यथाग्नेः पवनो मित्रं सर्वत्रोपकरिष्यति ।

तथायं भवतो मित्रं सदा त्वामनुयास्यति

॥४६॥

वसंतेरंतहेतुत्वाद्वसंताख्यो भवत्वयम् ।

तवानुगमनं कर्म तथा लोकानुरञ्जनम्

॥४७॥

असौ वसंतशृंगारो वासंतो मलयानिलः ।

भवेत्तु सुहृदो भावस्सदा त्वद्वशवर्त्तिनः

॥४८॥

विष्वोकाद्यास्तथा हावाश्चतुष्षष्टिकलास्तथा ।

रत्याः कुर्वंतु सौहृद्यं सुहृदस्ते यथा तव

॥४९॥

एभिस्सहचरैः काम वसंत प्रमुखैर्भवान् ।

मोहयस्व महादेवं रत्या सह महोद्यतः

॥५०॥

अहं तां कामिनीं तात भावयिष्यामि यत्नतः ।

मनसा सुविचार्यैव या हरं मोहयिष्यति

॥५१॥

ब्रह्मोवाच

एवमुक्तो मया कामः सुरज्येष्ठेन हर्षितः ।

ननाम चरणौ मेऽपि स पत्नी सहितस्तदा

॥५२॥

दक्षं प्रणम्य तान् सर्वान्मानसानभिवाद्य च ।

यत्रात्मा गतवाञ्शंभुस्तत्स्थानं मन्मथो ययौ

॥५३॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीचरित्रे द्वितीये सतीखंडे वसंतस्वरूपवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥