मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — सतीखण्डः, अध्याय ५

3
रुद्रसंहिता · सतीखण्डः · 5

संध्याचरित्रवर्णनः

सूत उवाच

इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।

स मुदोवाच संस्मृत्य शंकरं प्रीतमानसः

॥१॥

नारद उवाच

ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।

अद्भुता कथिता लीला त्वया च शशिमौलिनः

॥२॥

गृहीतदारे मदने हृष्टे हि स्वगृहे गते ।

दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि

॥३॥

मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।

संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः

॥४॥

किं चकार च केनैव पुरुषेण विवाहिता ।

एतत्सर्वं विशेषेण संध्यायाश्चरितं वद

॥५॥

सूत उवाच

इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रश्च धीमतः ।

संस्मृत्य शंकरं सक्त्या ब्रह्मा प्रोवाच तत्त्ववित्

॥६॥

ब्रह्मोवाच

शृणु त्वं च मुने सर्वं संध्यायाश्चरितं शुभम् ।

यच्छ्रुत्वा सर्वकामिन्यस्साध्व्यस्स्युस्सर्वदा मुने

॥७॥

सा च संध्या सुता मे हि मनोजाता पुराऽ भवत् ।

तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुंधती

॥८॥

मेधातिथेस्सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।

ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता

॥९॥

वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।

पतिव्रता च मुख्याऽभूद्वंद्या पूज्या त्वभीषणा

॥१०॥

नारद उवाच

कथं तया तपस्तप्तं किमर्थं कुत्र संध्यया ।

कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता ।

कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम्।

वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम्

॥१२॥

एतन्मे श्रोष्यमाणाय विस्तरेण पितामह ।

कौतूहलमरुंधत्याश्चरितं ब्रूहि तत्त्वतः

॥१३॥

ब्रह्मोवाच

अहं स्वतनयां संध्यां दृष्ट्वा पूर्वमथात्मनः ।

कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा

॥१४॥

संध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।

ऋषीणामपि संरुद्धमानसानां महात्मनाम्

॥१५॥

भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।

आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति

॥१६॥

कामस्य तादृशं भावं मुनिमोहकरं मुहुः ।

दृष्ट्वा संध्या स्वयं तत्रोपयमायातिदुःखिता

॥१७॥

ततस्तु ब्रह्मणा शप्ते मदने च मया मुने ।

अंतर्भूते मयि शिवे गते चापि निजास्पदे

॥१८॥

आमर्षवशमापन्ना सा संध्या मुनिसत्तम ।

मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत्

॥१९॥

ध्यायंती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।

इदं विममृशे संध्या तस्मिन्काले यथोचितम्

॥२०॥

संध्योवाच

उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।

अकार्षित्सानुरागोयमभिलाषं पिता मम

॥२१॥

पश्यतां मानसानां च मुनीनां भावितात्मनाम् ।

दृष्ट्वैव माममर्यादं सकाममभवन्मनः

॥२२॥

ममापि मथितं चित्तं मदनेन दुरात्मना ।

येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम्

॥२३॥

फलमेतस्य पापस्य मदनस्स्वयमाप्तवान् ।

यस्तं शशाप कुपितः शंभोरग्रे पितामहः

॥२४॥

प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।

तच्छोधनफलमहमाशु नेच्छामि साधनम्

॥२५॥

यन्मां पिता भ्रातरश्च सकाममपरोक्षतः ।

दृष्ट्वा चक्रुस्स्पृहां तस्मान्न मत्तः पापकृत्परा

॥२६॥

ममापि कामभावोभूदमर्यादं समीक्ष्य तान् ।

पत्या इव स्वकेताते सर्वेषु सहजेष्वषि

॥२७॥

करिष्यारम्यस्य पापस्य प्रायश्चित्तमहं स्वयम् ।

आत्मानमग्नौ होष्यामि वेदमार्गानुसारत

॥२८॥

किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।

उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः

॥२९॥

एतदर्थमहं कृत्वा तपः परम दारुणम् ।

मर्यादां स्थापयिष्यामि पश्चात्त्यक्षामि जीवितम्

॥३०॥

यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषस्स्वयं कृतः ।

भातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम्

॥३१॥

मया येन शरीरेण तातेषु सहजेषु च ।

उद्भावितः कामभावो न तत्सुकृतसाधनम्

॥३२॥

इति संचित्य मनसा संध्या शैलवरं ततः ।

जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः

॥३३॥

अथ तत्र गतां ज्ञात्वा संध्यां गिरिवरं प्रति ।

तपसे नियतात्मानं ब्रह्मावोचमहं सुतम्

॥३४॥

वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ।

समीपे स्वे समासीनं वेदवेदाङ्गपारगम्

॥३५॥

ब्रह्मोवाच

वसिष्ठ पुत्र गच्छ त्वं संध्यां जातां मनस्विनीम् ।

तपसे धृतकामां च दीक्षस्वैनां यथा विधि

॥३६॥

मंदाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान् ।

युष्मान्मां च तथात्मानं सकामां मुनिसत्तम

॥३७॥

अभूतपूर्वं तत्कर्म पूर्व मृत्युं विमृश्य सा ।

युष्माकमात्मनश्चापि प्राणान्संत्यक्तुमिच्छति

॥३८॥

समर्यादेषु मर्यादां तपसा स्थापयिष्यति ।

तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे

॥३९॥

न भावं तपसस्तात सानुजानाति कंचन ।

तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु

॥४०॥

इदं रूपं परित्यज्य निजं रूपांतरं मुने ।

परिगृह्यांतिके तस्यास्तपश्चर्यां निदर्शयन्

॥४१॥

इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ।

नाप्नुयात्साऽथ किंचिद्वै ततो रूपांतरं कुरु

॥४२॥

ब्रह्मोवाच

नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयावता ।

यथाऽस्विति च मां प्रोच्य ययौ संध्यांतिकं मुनिः

॥४३॥

तत्र देवसरः पूर्णं गुणैर्मानससंमितम् ।

ददर्श स वसिष्टोथ संध्यां तत्तीरगामपि

॥४४॥

तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।

उद्यदिंदुसुनक्षत्र प्रदोषे गगनं यथा

॥४५॥

मुनिर्दृष्ट्वाथ तां तत्र सुसंभावां स कौतुकी ।

वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम्

॥४६॥

चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणांबुधिम् ।

यांती सा चैव ददृशे तेन सानुगिरेर्महत्

॥४७॥

निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ।

यथा हिमवतो गंगा तथा गच्छति सागरम्

॥४८॥

तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।

संध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठस्सादरं तदा

॥४९॥

वशिष्ठ .उवाच

किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ।

कस्य वा तनया किं वा भवत्यापि चिकीर्षितम्

॥५०॥

एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ।

वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव

॥५१॥

ब्रह्मोवाच

तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।

दृष्ट्वा च तं महात्मानं ज्वलंतमिव पावकम्

॥५२॥

शरीरधृग्ब्रह्मचर्यं विलसंतं जटाधरम् ।

सादरं प्रणिपत्याथ संध्योवाच तपोधनम्

॥५३॥

संध्योवाच

यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ।

तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो

॥५४॥

तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।

ब्रह्मणोहं सुता जाता नाम्ना संध्येति विश्रुता

॥५५॥

यदि ते युज्यते सह्यं मां त्वं समुपदेशय ।

एतच्चिकीर्षितं गुह्यं नान्यैः किंचन विद्यते

॥५६॥

अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।

चिंतया परिशुष्येहं वेपते हि मनो मम

॥५७॥

ब्रह्मोवाच

आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ।

स्वयं च सर्वकृत्यज्ञो नान्यत्किंचन पृष्टवान्

॥५८॥

अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ।

प्रोवाच मनसा स्मृत्वा शंकरं भक्तवत्सलम्

॥५९॥

वसिष्ठ उवाच

परमं यो महत्तेजः परमं यो महत्तपः ।

परमः परमाराध्यः शम्भुर्मनसि धार्यताम्

॥६०॥

धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।

तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम्

॥६१॥

मंत्रेणानेन देवेशं शम्भुं भज शुभानने ।

तेन ते सकला वाप्तिर्भविष्यति न संशयः

॥६२॥

ॐ नमश्शंकरायेति ॐमित्यंतेन सन्ततम् ।

मौनतपस्याप्रारंम्भं तन्मे निगदतः शृणु

॥६३॥

स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ।

द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः

॥६४॥

तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ।

एवं तपस्समाप्तौ वा षष्ठे काले क्रिया भवेत्

॥६५॥

एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ।

सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः

॥६६॥

एवं चित्ते समुद्दिश्य कामं चिंतय शंकरम् ।

स ते प्रसन्न इष्टार्थमचिरादेव दास्यति

॥६७॥

ब्रह्मोवाच

उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ।

तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः

॥६८॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे संध्याचरित्रवर्णनो नाम पंचमोऽध्यायः ॥ ५ ॥

सन्ध्ययोपरि टिप्पणी