मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — एकादशस्कन्धः, अध्याय ५

3
एकादशस्कन्धः · 5

भक्तिहीनपुरुषाणां निष्ठायाः प्रतियुगं पूजाविधानस्य च भेदवर्णनम्

श्रीराजोवाच

भगवन्तं हरिं प्रायो न भजन्त्यात्मवित्तमाः ।

तेषामशान्तकामानां का निष्ठाविजितात्मनाम्

॥१॥

श्रीचमस उवाच

( अनुष्टुप् ) मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह ।

चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयः पृथक्

॥२॥

य एषां पुरुषं साक्षात् आत्मप्रभवमीश्वरम् ।

न भजन्त्यवजानन्ति स्थानाद्भ्रष्टाः पतन्त्यधः

॥३॥

दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः ।

स्त्रियः शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम्

॥४॥

विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् ।

श्रौतेन जन्मनाथापि मुह्यन्त्याम्नायवादिनः

॥५॥

कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।

वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः

॥६॥

रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः ।

दाम्भिका मानिनः पापा विहसन्त्यच्युतप्रियान्

॥७॥

( मिश्र ) वदन्ति तेऽन्योन्यमुपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः ।

यजन्त्यसृष्टानविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्विदः

॥८॥

श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा ।

जातस्मयेनान्धधियः सहेश्वरान् सतोऽवमन्यन्ति हरिप्रियान्खलाः

॥९॥

सर्वेषु शश्वत् तनुभृत्स्ववस्थितं यथा खमात्मानमभीष्टमीश्वरम् ।

वेदोपगीतं च न श्रृण्वतेऽबुधा मनोरथानां प्रवदन्ति वार्तया

॥१०॥

लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्न हि तत्र चोदना ।

व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा

॥११॥

धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानमनुप्रशान्ति ।

गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम्

॥१२॥

यद् घ्राणभक्षो विहितः सुरायाः तथा पशोरालभनं न हिंसा ।

एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम्

॥१३॥

( अनुष्टुप् ) ये तु अनेवंविदोऽसन्तः स्तब्धाः सदभिमानिनः ।

पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान्

॥१४॥

द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।

मृतके सानुबन्धेऽस्मिन् बद्धस्नेहाः पतन्त्यधः

॥१५॥

ये कैवल्यं असम्प्राप्ता ये चातीताश्च मूढताम् ।

त्रैवर्गिका ह्यक्षणिका आत्मानं घातयन्ति ते

॥१६॥

एत आत्महनोऽशान्ता अज्ञाने ज्ञानमानिनः ।

सीदन्त्यकृतकृत्या वै कालध्वस्तमनोरथाः

॥१७॥

हित्वा अत्यायारचिता गृहापत्यसुहृत् स्त्रियः ।

तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाः

॥१८॥

श्री राजोवाच

कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः ।

नाम्ना वा केन विधिना पूज्यते तदिहोच्यताम्

॥१९॥

श्रीकरभाजन उवाच

कृतं त्रेता द्वापरं च कलिरित्येषु केशवः ।

नानावर्णाभिधाकारो नानैव विधिनेज्यते

॥२०॥

कृते शुक्लश्चतुर्बाहुः जटिलो वल्कलाम्बरः ।

कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू

॥२१॥

मनुष्यास्तु तदा शान्ता निर्वैराः सुहृदः समाः ।

यजन्ति तपसा देवं शमेन च दमेन च

॥२२॥

हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरोऽमलः ।

ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते

॥२३॥

त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ।

हिरण्यकेशः त्रय्यात्मा स्रुक् स्रुवाद्युपलक्षणः

॥२४॥

तं तदा मनुजा देवं सर्वदेवमयं हरिम् ।

यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः

॥२५॥

विष्णुर्यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः ।

वृषाकपिर्जयन्तश्च उरुगाय इतीर्यते

॥२६॥

द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।

श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः

॥२७॥

तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् ।

यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप

॥२८॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।

प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः

॥२९॥

नारायणाय ऋषये पुरुषाय महात्मने ।

विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः

॥३०॥

इति द्वापर उर्वीश स्तुवन्ति जगदीश्वरम् ।

नानातन्त्रविधानेन कलावपि तथा श्रृणु

॥३१॥

कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र पार्षदम् ।

यज्ञैः सङ्कीर्तनप्रायैः यजन्ति हि सुमेधसः

॥३२॥

( वसंततिलका ) ध्येयं सदा परिभवघ्नमभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् ।

भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम्

॥३३॥

त्यक्त्वा सुदुस्त्यजसुरेप्सित राज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यदगात् अरण्यम् ।

मायामृगं दयितयेप्सितमन्वधावद् वन्दे महापुरुष ते चरणारविन्दम्

॥३४॥

( अनुष्टुप् ) एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।

मनुजैरिज्यते राजन् श्रेयसा्मीश्वरो हरिः

॥३५॥

कलिं सभाजयन्त्यार्या गुणज्ञाः सारभागिनः ।

यत्र सङ्कीर्तनेनैव सर्वस्वार्थोऽभिलभ्यते

॥३६॥

न ह्यतः परमो लाभो देहिनां भ्राम्यतामिह ।

यतो विन्देत परमां शान्तिं नश्यति संसृतिः

॥३७॥

कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।

कलौ खलु भविष्यन्ति नारायणपरायणाः

॥३८॥

क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।

ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी

॥३९॥

कावेरी च महापुण्या प्रतीची च महानदी ।

ये पिबन्ति जलं तासां मनुजा मनुजेश्वर ।

प्रायो भक्ता भगवति वासुदेवेऽमलाशयाः

॥४०॥

( मिश्र ) देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायमृणी च राजन् ।

सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम्

॥४१॥

स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः ।

विकर्म यच्चोत्पतितं कथञ्चित् धुनोति सर्वं हृदि सन्निविष्टः

॥४२॥

श्रीनारद उवाच

( अनुष्टुप् ) धर्मान् भागवतानित्थं श्रुत्वाथ मिथिलेश्वरः ।

जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्यपूजयत्

॥४३॥

ततोऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः ।

राजा धर्मानुपातिष्ठन् अवाप परमां गतिम्

॥४४॥

त्वमप्येतान् महाभाग धर्मान् भागवतान् श्रुतान् ।

आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम्

॥४५॥

युवयोः खलु दम्पत्योः यशसा पूरितं जगत् ।

पुत्रतामगमद् यद् वां भगवानीश्वरो हरिः

॥४६॥

दर्शनालिङ्गनालापैः शयनासनभोजनैः ।

आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः

॥४७॥

( वसंततिलका ) वैरेण यं नृपतयः शिशुपालपौण्ड्र- शाल्वादयो गतिविलास-विलोकनाद्यैः ।

ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमापुरनुरक्तधियां पुनः किम्

॥४८॥

( अनुष्टुप् ) मापत्यबुद्धिमकृथाः कृष्णे सर्वात्मनीश्वरे ।

मायामनुष्यभावेन गूढैश्वर्ये परेऽव्यये

॥४९॥

भूभारासुरराजन्य हन्तवे गुप्तये सताम् ।

अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते

॥५०॥

श्रीशुक उवाच

एतत् श्रृत्वा महाभागो वसुदेवोऽतिविस्मितः ।

देवकी च महाभागा जहतुः मोहमात्मनः

॥५१॥

इतिहासमिमं पुण्यं धारयेद् यः समाहितः ।

स विधूयेह शमलं ब्रह्मभूयाय कल्पते

॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु