मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — एकादशस्कन्धः, अध्याय १४

3
एकादशस्कन्धः · 14

भक्तेर्महत्त्वं ध्यानयोगवर्णनं च

श्रीउद्धव उवाच

( अनुष्टुप् ) वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः ।

तेषां विकल्पप्राधान्यं उताहो एकमुख्यता

॥१॥

भवता उदाहृतः स्वामिन् भक्तियोगोऽनपेक्षितः ।

निरस्य सर्वतः सङ्गं येन त्वय्याविशेन्मनः

॥२॥

श्रीभगवानुवाच

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता ।

मयाऽऽदौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मदात्मकः

॥३॥

तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा ।

ततो भृग्वादयोऽगृह्णन् सप्त ब्रह्ममहर्षयः

॥४॥

तेभ्यः पितृभ्यः तत्पुत्रा देवदानवगुह्यकाः ।

मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः

॥५॥

किन्देवाः किन्नरा नागा रक्षः किम्पुरुषादयः ।

बह्व्यस्तेषां प्रकृतयो रजःसत्त्वतमोभुवः

॥६॥

याभिर्भूतानि भिद्यन्ते भूतानां मतयस्तथा ।

यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि

॥७॥

एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।

पारम्पर्येण केषाञ्चित् पाषण्डमतयोऽपरे

॥८॥

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।

श्रेयो वदंति अनेकांतं यथाकर्म यथारुचि

॥९॥

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।

अन्ये वदंति स्वार्थं वा ऐश्वर्यं त्यागभोजनम्

॥१०॥

केचिद् यज्ञतपो दानं व्रतानि नियमान् यमान् ।

आद्यंतवंत एवैषां लोकाः कर्मविनिर्मिताः ।

दुःखोदर्काः तमोनिष्ठाः क्षुद्रानंदाः शुचार्पिताः

॥११॥

मय्यर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः ।

मयाऽऽत्मना सुखं यत्तत् कुतः स्याद् विषयात्मनाम्

॥१२॥

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ।

मया सन्तुष्टमनसः सर्वाः सुखमया दिशः

॥१३॥

( उपेंद्रवज्रा ) न पारमेष्ठ्यं न महेंद्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीः अपुनर्भवं वा मय्यर्पितात्मेच्छति मद् विनान्यत्

॥१४॥

( अनुष्टुप् ) न तथा मे प्रियतम आत्मयोनिर्न शङ्करः ।

न च सङ्कर्षणो न श्रीः नैवात्मा च यथा भवान्

॥१५॥

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।

अनुव्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभिः

॥१६॥

( इंद्रवंशा ) निष्किञ्चना मय्यनुरक्तचेतसः शांता महांतोऽखिलजीववत्सलाः ।

कामैरनालब्धधियो जुषन्ति यत् नैरपेक्ष्यं न विदुः सुखं मम

॥१७॥

( अनुष्टुप् ) बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ।

प्रायः प्रगल्भया भक्त्या विषयैर्नाभिभूयते

॥१८॥

यथाग्निः सुसमृद्धार्चिः करोत्येधांसि भस्मसात् ।

तथा मद्विषया भक्तिः उद्धवैनांसि कृत्स्नशः

॥१९॥

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव ।

न स्वाध्यायः तपस्त्यागो यथा भक्तिर्ममोर्जिता

॥२०॥

भक्त्याहमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ।

भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि संभवात्

॥२१॥

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ।

मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि

॥२२॥

कथं विना रोमहर्षं द्रवता चेतसा विना ।

विनाऽऽनन्दाश्रुकलया शुध्येद् भक्त्या विनाऽऽशयः

॥२३॥

( मिश्र ) वाग्-गद्-गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचित्-च ।

विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति

॥२४॥

यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् ।

आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम्

॥२५॥

यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथा श्रवणाभिधानैः ।

तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसंप्रयुक्तम्

॥२६॥

( अनुष्टुप् ) विषयान् ध्यायतश्चित्तं विषयेषु विषज्जते ।

मां अनुस्मरतश्चित्तं मय्येव प्रविलीयते

॥२७॥

तस्मात् असदभिध्यानं यथा स्वप्नमनोरथम् ।

हित्वा मयि समाधत्स्व मनो मद्भावभावितम्

॥२८॥

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।

क्षेमे विविक्त आसीनः चिन्तयेत् मां अतन्द्रितः

॥२९॥

न तथास्य भवेत्क्लेशो बन्धश्चान्यप्रसङ्गतः ।

योषित् सङ्गात् यथा पुंसो यथा तत् सङ्गिसङ्गतः

॥३०॥

श्रीउद्धव उवाच

यथा त्वां अरविन्दाक्ष यादृशं वा यदात्मकम् ।

ध्यायेत् मुमुक्षुः एतन्मे ध्यानं त्वं वक्तुमर्हसि

॥३१॥

श्रीभगवानुवाच

सम आसन आसीनः समकायो यथासुखम् ।

हस्तौ उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः

॥३२॥

प्राणस्य शोधयेत् मार्गं पूरकुम्भकरेचकैः ।

विपर्ययेणापि शनैः अभ्यसेत् निर्जितेन्द्रियः

॥३३॥

हृद्यविच्छिन्न-मोंकारं घण्टानादं विसोर्णवत् ।

प्राणेन-उदीर्य तत्राथ पुनः संवेशयेत् स्वरम्

॥३४॥

एवं प्रणवसंयुक्तं प्राणमेव समभ्यसेत् ।

दशकृत्वस्त्रिषवणं मासाद्-अर्वाग् जितानिलः

॥३५॥

हृत्पुण्डरीकमन्तस्थं ऊर्ध्वनालमधोमुखम् ।

ध्यात्वोर्ध्वमुखमुन्निद्रं अष्टपत्रं सकर्णिकम्

॥३६॥

कर्णिकायां न्यसेत् सूर्य सोमाग्नीन् उत्तरोत्तरम् ।

वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम्

॥३७॥

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् ।

सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम्

॥३८॥

समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् ।

हेमाम्बरं घनश्यामं श्रीवत्स श्रीनिकेतनम्

॥३९॥

शङ्खचक्रगदापद्म वनमालाविभूषितम् ।

नूपुरैः विलसत्पादं कौस्तुभप्रभया युतम्

॥४०॥

द्युमत् किरीटकटक कटिसूत्राङ्गदायुतम् ।

सर्वाङ्गसुन्दरं हृद्यं प्रसाद सुमुखेक्षणम् ।

सुकुमारमभिध्यायेत् सर्वाङ्गेषु मनो दधत्

॥४१॥

इन्द्रियाणीन्द्रियार्थेभ्यो मनसाऽऽकृष्य तन्मनः ।

बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः

॥४२॥

तत्सर्वव्यापकं चित्तमाकृष्यैकत्र धारयेत् ।

नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेत् मुखम्

॥४३॥

तत्र लब्धपदं चित्तं आकृष्य व्योम्नि धारयेत् ।

तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत्

॥४४॥

एवं समाहितमतिः मां एवात्मानमात्मनि ।

विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम्

॥४५॥

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः ।

संयास्यत्याशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः

॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु