श्रीशङ्करभगवत्पादकृता
छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते ।
तथा शिष्टेन सर्वेण येन येन विशेष्यते ॥
॥१॥तस्मात् त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् ।
अनात्मत्वेन तस्माज् ज्ञो मुक्तः सर्वविशेषणैः ॥
॥२॥विशेषणमिदं सर्वं ज्ञात आत्मन्यसद् भवेत् ।
अविद्यास्तमतः सर्वं ज्ञात आत्मन्यसद् भवेत् ॥
॥३॥ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः ।
अहमित्यपि यद् ग्राह्यं व्यपेताङ्गसमं हि तत् ॥
॥४॥यावान् स्यादिदमंशो यः स स्वतोऽन्यो विशेषणम् ।
विशेषप्रक्षयो यत्र सिद्धो ज्ञश्चित्रगुर्यथा ॥
॥५॥इदमंशोऽहमित्यत्र त्याज्यो नात्मेति पण्डितैः ।
अहं ब्रह्मेति शिष्टोऽंशो भूतपूर्वगतेर्भवेत् ॥
॥६॥