श्रीशङ्करभगवत्पादकृता
प्रयुज्य तृष्णाज्वरनाशकारणं चिकित्सितं ज्ञानविरागभेषजम् ।
न याति कामज्वरसन्निपातजां शरीरमालाशतयोगदुःखिताम् ॥
॥१॥अहं ममेति त्वमनर्थमीहसे परार्थमिच्छन्ति तवान्य ईहितम् ।
न तेऽर्थबोधो न हि मेऽस्ति चार्थिता ततश्च युक्तः शम एव ते मनः ॥
॥२॥यतो न चान्यः परमात् सनातनात् सदैव तृप्तोऽहमतो न मेऽर्थिता ।
सदैव मुक्तश्च न कामये हितं यतस्व चेतः प्रशमाय तेऽधिकम् ॥
॥३॥षडूर्मिमालाभ्यतिवृत्त एव यः स एव चात्मा जगतश्च नः श्रुतेः ।
प्रमाणतश्चापि मया प्रवेद्यते मुधैव तस्माच् च मनस्तवेहितम् ॥
॥४॥त्वयि प्रशान्ते न हि सास्ति भेदधीर्यतो जगन् मोहमुपैति मायया ।
ग्रहो हि मायाप्रभवस्य कारणं ग्रहाद् विमोके न हि सास्ति कस्यचित् ॥
॥५॥न मेऽस्ति मोहस्तव चैष्टितेन हि प्रबुद्धतत्त्वस्त्वसितो ह्यविक्रियः ।
न पूर्वतत्त्वोत्तरभेदता हि नो वृथैव तस्माच् च मनस्तवेहितम् ॥
॥६॥यतश्च नित्योऽहमतो न चान्यथा विकारयोगे हि भवेदनित्यता ।
सदा प्रभातोऽहमतो हि चाद्वयो विकल्पितं चाप्यसदित्यवस्थितम् ॥
॥७॥अभावरूपं त्वमसीह हे मनो निरीक्ष्यमाणे न हि युक्तितोऽस्तिता ।
सतो ह्यनाशादसतोऽप्यजन्मतो द्वयं च तेऽतस्तव नास्तितेष्यते ॥
॥८॥द्रष्टा च दृश्यं च तथा च दर्शनं भ्रमः स सर्वस्तव कल्पितो हि सः ।
दृशेश्च भिन्नं न हि दृश्यमीक्ष्यते स्वपन् विबोधे च तथा न भिद्यते ॥
॥९॥विकल्पना चापि तथाद्वया भवेदवस्तुयोगात् तदलातचक्रवत् ।
न शक्तिभेदोऽस्ति यतो न चात्मनां ततोऽद्वयत्वं श्रुतितोऽवसीयते ॥
॥१०॥मिथश्च भिन्ना यदि ते हि चेतनाः क्षयस्तु तेषां परिमाणयोगतः ।
ध्रुवो भवेद् भेदवतां हि दृष्टतो जगत्क्षयश्चापि समस्तमोक्षतः ॥
॥११॥न मेऽस्ति कश्चिन् न च सोऽस्मि कस्यचिद् यतोऽद्वयोऽहं न हि चास्ति कल्पितम् ।
अकल्पितश्चास्मि पुरा प्रसिद्धितो विकल्पनाया द्वयमेव कल्पितम् ॥
॥१२॥विकल्पना चाप्यभवे न विद्यते सदन्यदित्येवमतो न नास्तिता ।
यतः प्रवृत्ता तव चापि कल्पना पुरा प्रसिद्धेर्न च तद् विकल्पितम् ॥
॥१३॥असद् द्वयं तेऽपि हि यद् यदीक्षते न दृष्टमित्येव न चैव नास्तिता ।
यतः प्रवृत्ता सदसद्विकल्पना विचारवच् चापि तथाद्वयं च सत् ॥
॥१४॥सदभ्युपेतं भवतोपकल्पितं विचारहेतोर्यदि तस्य नास्तिता ।
विचारहानाच् च तहैव संस्थितं न चेत् तदिष्टं नितरां सदिष्यते ॥
॥१५॥असत्समं चैव सदित्यपीति चेदनर्थवत्त्वात् खरशृङ्गतुल्यतः ।
अनर्थवत्त्वं त्वसति ह्यकारणं न चैव तस्मान् न विपर्ययेऽन्यथा ॥
॥१६॥असिद्धतश्चापि विचारकारणाद् द्वयं च तस्मात् प्रसृतं हि मायया ।
श्रुतेः स्मृतेश्चापि तथा हि युक्तितः प्रसिद्ध्यतीत्थं न तु युज्यतेऽन्यथा ॥
॥१७॥विकल्पनाच् चापि विधर्मकं श्रुतेः पुरा प्रसिद्धेश्च विकल्पितंऽद्वयम् ।
न चेति नेतीति तथा विकल्पितं निषिध्यतेऽत्राप्यवशेषसिद्धये ॥
॥१८॥अकल्पितेऽप्येवमजाद्वयाक्षरे विकल्पयन्तः सदसच् च जन्मभिः ।
स्वचित्तमायाप्रभवं च ते भवं जरां च मृत्युं च नियान्ति संततम् ॥
॥१९॥भवाभवत्वं तु न चेदवस्थितिर्न तस्य चान्यस्त्विति जन्म नान्यथा ।
सतो ह्यसत्त्वादसतश्च सत्त्वतो न च क्रिया कारकमित्यतोऽप्यजम् ॥
॥२०॥अकुर्वदिष्टं यदि वास्य कारकं न किंचिदन्यन् ननु नास्त्यकारकम् ।
सतो विशेषादसतश्च सच्च्युतौ तुलान्तयोर्यद्वदनिश्चयान् न हि ॥
॥२१॥न चेत् स इष्टः सदसद्विपर्ययः कथं भवः स्यात् सदसद्व्यवस्थितौ ।
विभक्तमेतद् द्वयमप्यवस्थितं न जन्म तस्माच् च मनो हि कस्यचित् ॥
॥२२॥अथाभ्युपेत्यापि भवं तवेच्छतो ब्रवीमि नार्थस्तव चेष्टितेन मे ।
न हानवृद्धी न यतः स्वतोऽसतो भवोऽन्यतो वा यदि वास्तिता तयोः ॥
॥२३॥ध्रुवा ह्यनित्याश्च न चान्ययोगिनो मिथश्च कार्यं न च तेषु युज्यते ।
अतो न कस्यापि हि किंचिदिष्यते स्वयं हि तत्त्वं न निरुक्तिगोचरम् ॥
॥२४॥समं तु तस्मात् सततं विभातवद् द्वयाद् विमुक्तं सदसद्विकल्पितात् ।
निरीक्ष्य युक्त्या श्रुतितश्च बुद्धिमानशेषनिर्वाणमुपैति दीपवत् ॥
॥२५॥अवेद्यमेकं यदनन्यवेदिनां कुतार्किकाणां च सुवेद्यमन्यथा ।
निरीक्ष्य चेत्थं त्वगुणग्रहोऽगुणं न याति मोहं ग्रहदोषमुक्तितः ॥
॥२६॥अतोऽन्यथा न ग्रहनाश इष्यते विमोहबुद्धेर्ग्रह एव कारणम् ।
ग्रहोऽप्यहेतुर्ह्यनलस्त्वनिन्धनो यथा प्रशान्तिं परमां तथा व्रजेत् ॥
॥२७॥विमथ्य वेदोदधितः समुद्धृतं सुरैर्महाब्धेस्तु यथा महात्मभिः ।
तथाऽमृतं ज्ञानमिदं हि यैः पुरा नमो गुरुभ्यः परमिक्षितं च यैः ॥
॥२८॥इति श्रीमत्परमहंसपरिव्राजकाचार्याश्रीगोविन्दभगवत्पादपूज्यशिष्यस्य श्रीशंकरभगवतः कृतिः सकलवेदोपनिषत्सारोपदेशसाहस्री समाप्ता ॥ ॐ तत्सत्