पारम्परिकम्
ध्यानम्
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
॥१॥स्तोत्रम्
सरस्वती महाभद्रा महामाया वरप्रदा ।
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रका ॥
॥२॥शिवानुजा पुस्तकभृज्ज्ञानमुद्रा रमा परा ।
कामरूपा महाविद्या महापातकनाशिनी ॥
॥३॥महाश्रया मालिनी च महाभोगा महाभुजा ।
महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥
॥४॥महाकाली महापाशा महाकारा महाङ्कुशा ।
पीता च विमला विश्वा विद्युन्माला च वैष्णवी ॥
॥५॥चन्द्रिका चन्द्रवदना चन्द्रलेखविभूषिता ।
सावित्री सुरसा देवी दिव्यालङ्कारभूषिता ॥
॥६॥वाग्देवी वसुदा तीव्रा महाभद्रा महाबला ।
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥
॥७॥जटिला विन्ध्यवासा च विन्ध्याचलविराजिता ।
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥
॥८॥सौदामिनी सुधामूर्तिः सुभद्रा सुरपूजिता ।
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥
॥९॥विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला ।
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥
॥१०॥शुम्भासुरप्रमथिनी शुभदा च स्वरात्मिका ।
रक्तबीजनिहन्त्री च चामुण्डा चाम्बिका तथा ॥
॥११॥मुण्डकायप्रहरणा धूम्रलोचनमर्दना ।
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥
॥१२॥कालरात्रिः कलाधारा रूपसौभाग्यदायिनी ।
वाग्देवी च वरारोहा वाराही वारिजासना ॥
॥१३॥चित्राम्बरा चित्रगन्धा चित्रमाल्यविभूषिता ।
कान्ता कामप्रदा वन्द्या विद्याधरसुपूजिता ॥
॥१४॥श्वेतानना नीलभुजा चतुर्वर्गफलप्रदा ।
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ॥
॥१५॥हंसासना नीलजङ्घा ब्रह्मविष्णुशिवात्मिका ।
एवं सरस्वतीदेव्या नाम्नामष्टोत्तरं शतम् ॥
॥१६॥इति श्री-सरस्वत्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्