मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

राम अष्टोत्तरशत नाम स्तोत्रम्

Also spelled: Rama Ashtottarashata Nama Stotram · Rama Ashtottarashatha Nama Sthothram

3

पद्मपुराणम्

ध्यानम्

श्रीराघवं दशरथात्मजमप्रमेयं

सीतापतिं रघुकुलान्वयरत्नदीपम् ।

आजानुबाहुमरविन्ददलायताक्षं

रामं निशाचरविनाशकरं नमामि ॥

॥१॥

स्तोत्रम्

श्रीरामो रामचन्द्रश्च रामभद्रश्च शाश्वतः ।

राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥

॥२॥

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।

विश्वामित्रप्रियो दान्तः शरण्यत्राणतत्परः ॥

॥३॥

वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।

सत्यव्रतो व्रतधरः सदा हनुमदाश्रयः ॥

॥४॥

कौसलेयः खरध्वंसी विराधवधपण्डितः ।

विभीषणपरित्राता हरकोदण्डखण्डनः ॥

॥५॥

सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।

जामदग्न्यमहादर्पदलनस्ताडकान्तकृत् ॥

॥६॥

वेदान्तपारो वेदात्मा भवबन्धैकभेषजः ।

दूषणत्रिशिरोरिश्च त्रिमूर्तिस्त्रिगुणस्त्रयी ॥

॥७॥

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।

त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ॥

॥८॥

अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।

जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ॥

॥९॥

ऋक्षवानरसङ्घाती चित्रकूटसमाश्रयः ।

जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥

॥१०॥

सर्वदेवाधिदेवश्च मृतवानरजीवनः ।

मायामारीचहन्ता च महाभोगो महाभुजः ॥

॥११॥

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः ।

महायोगो महोदारः सुग्रीवस्थिरराज्यदः ॥

॥१२॥

सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः ।

आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ॥

॥१३॥

पुण्योदयो महासारः पुराणः पुरुषोत्तमः ।

स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ॥

॥१४॥

अनन्तगुणगम्भीरो धीरो दान्तगुणोत्तमः ।

मायामानुषचारित्रो महादेवाभिपूजितः ॥

॥१५॥

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।

श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥

॥१६॥

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।

शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः ॥

॥१७॥

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।

परञ्ज्योतिः परन्धाम पराकाशः परात्परः ॥

॥१८॥

परेशः पारगः पारः सर्वभूतात्मकः शिवः ।

इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ॥

॥१९॥

फलश्रुतिः

गुह्याद् गुह्यतरं देवि तव स्नेहात् प्रकीर्तितम् ।

यः पठेच्छृणुयाद् वाऽपि भक्तियुक्तेन चेतसा ॥

॥२०॥

स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः ।

जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् ॥

॥२१॥

राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् ।

आनुकूल्यं च भूतानि स्थैर्यं यान्ति चलाः श्रियः ॥

॥२२॥

अनुग्रहं ग्रहा यान्ति शान्तिमायान्त्युपद्रवाः ।

पठतो भक्तिभावेन नरस्य गिरिसम्भवे ॥

॥२३॥

यः पठेत् परया भक्त्या तस्य वश्यं जगत्त्रयम् ।

यं यं कामं प्रकुरुते तं तमाप्नोति कीर्तनात् ॥

॥२४॥

कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।

वैकुण्ठे मोदते नित्यं दशपूर्वैर्देशापरैः ॥

॥२५॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो जनाः ॥

॥२६॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥

॥२७॥

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् ।

सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥

॥२८॥

इति श्री-पाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे रामचन्द्राष्टोत्तरशतनामकथनं नामैकाशीत्यधिकद्विशततमेऽध्याये श्रीरामचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्