मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — मार्गशीर्षमासमाहात्म्यम्, अध्याय ६

3
वैष्णवखण्डः · मार्गशीर्षमासमाहात्म्यम् · 6

तुलसीकाष्ठचंदनार्पणफलकथनम्

ब्रह्मोवाच

घण्टानादस्य माहात्म्यं चंदनस्य तथाऽच्युत ॥

यत्फलं लभते स्वामिंस्तत्सर्वं ब्रूहि तत्त्वतः

॥१॥

श्रीभगवानुवाच

स्नानार्चनक्रियाकाले घंटानादं करोति यः ॥

पुरतो मम देवेश तस्य पुण्यफलं शृणु

॥२॥

वर्षकोटिसहस्राणि वर्षकोटिशतानि च ॥

वसते मामके लोके अप्सरोगणसेवितः

॥३॥

सर्ववाद्यमयी घण्टा सर्वदेवमयी यतः ॥

तस्मात्सर्वप्रयत्नेन घण्टानादं तु कारयेत्

॥४॥

सर्ववाद्यमयी घण्टा सर्वदा मम वल्लभा ॥

वादनाल्लभते पुण्यं यज्ञकोटिशतोद्भवम्

॥५॥

घंटानादः सदा कार्यः पूजाकाले विशेषतः ॥

मन्वंतरसहस्राणि मन्वतरशतानि च

॥६॥

प्रीतो भवामि सततं घंटानादेन पुत्रक ॥

भेरीशंखनिनादेन घंटानादान्वितेन च

॥७॥

मृदंगशंखेन युतं प्रणवेन समन्वितम् ॥

अर्चनं मम देवेश सततं मोक्षदं नृणाम्

॥८॥

यत्र तिष्ठेत पुरतो घंटा नादान्विता मम ॥

अर्चिता वैष्णवैर्यत्र तत्र मां विद्धि पुत्रक

॥९॥

वैनतेयांऽकिता घंटा सुदर्शनयुताऽथवा ॥

ममाग्रे स्थापयेद्यस्तु तस्य पापं हराम्यहम्

॥१०॥

मदीयार्चनवेलायां घंटानादं करोति यः ॥

नश्यंति तस्य पापानि शतजन्मार्जितान्यपि

॥११॥

स्वापकाले प्रकुर्वीत घण्टानादं स्वभक्तितः ॥

ममैवार्चनवेलायां फलं कोटिगुणोद्भवम्

॥१२॥

ये मामर्चंति देवेश सुपर्णोपरिसंस्थितम् ॥

शंखपद्मगदायुक्तं सचक्रं च श्रिया युतम्

॥१३॥

किं करिष्यंति ते तीर्थैर्देवतानां च दर्शनैः ॥

किं यज्ञैः किं व्रतैर्वापि किं दानैः किमुपोषणैः

॥१४॥

मूर्तिर्नारायणी यैश्च मामकी गरुडोपरि ॥

स्थापिता ते कलौ यांति कल्पकोटिं पदं मम

॥१५॥

ममाऽग्रे स्थापयेद्यस्तु प्रासादेऽथ गृहेऽथवा ॥

तीर्थकोटिसहस्राणि तत्र तिष्ठंति देवताः

॥१६॥

यस्तु पूजयते धन्यो गरुडोपरिसंस्थितम् ॥

एकादश्यां तथा रात्रौ वासनासंयुतो मम ॥

कृत्वा गीतं च नृत्यं च तारयेन्नरकात्पितॄन्

॥१७॥

पुनश्च कथयिष्यामि शृणु घंटामहं सुत

॥१८॥

मम नामांकिता घण्टा पुरतो या च तिष्ठति ॥

अर्चिता वैष्णवी यत्र तत्र मां विद्धि पुत्रक

॥१९॥

यस्तु वादयते घंटां वैनतेयविचिह्निताम् ॥

धूपे नीराजने स्नाने पूजाकाले विलेपने

॥२०॥

ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् ॥

मखायुतं गोऽयुतं च चांद्रायणशतोद्भवम्

॥२१॥

विधिबाह्यकृता पृजा सफला जायते नृणाम् ॥

घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्

॥२२॥

नागाऽरिचिह्निता घंटा रथांगेन समन्विता ॥

वादनात्कुरुते नाशं जन्मकोटिभयस्य वै

॥२३॥

गरुडेनांऽकितां घंटां दृष्ट्वाहं प्रत्यहं मुदा ॥

प्रीतिं करोमि देवेश लक्ष्मीं प्राप्य यथाऽधनः

॥२४॥

घंटादण्डस्य शिरसि सुचक्रं स्थापयेत्तु यः ॥

मत्प्रियं वैनतेयं वा स्थापितं भुवनत्रयम्

॥२५॥

घंटानादं सचक्रं च अंतकाले शृणोति यः ॥

पापकोटियुतस्याऽपि नश्यंति यमकिंकराः

॥२६॥

सर्वदोषाः प्रणश्यंति घंटानादेन वै सुत ॥

देवतानां सरुद्राणां पितॄणामुत्सवो भवेत्

॥२७॥

अभावे वैनतेयस्य चक्रस्याऽपि न संशयः ॥

घंटानादेन भक्तानां प्रसादं प्रकरोम्यहम्

॥२८॥

गृहे यस्मिन्भवेन्नित्यं घण्टा नागारिसंयुता ॥

सर्पाणां न भयं तत्र नाग्निविद्युत्समुद्भवम्

॥२९॥

यस्य घंटा गृहे नास्ति शंखो न पुरतो मम ॥

कथं भागवतो ज्ञेयः कथं भवति वल्लभः

॥३०॥

चंदनस्य प्रवक्ष्याम माहात्म्यं तव पुत्रक ॥

यस्मिन्कृते भवेत्प्रीतिर्ममात्यंतं न संशयः

॥३१॥

सचंदनं सकुसुमं कर्पूरागरुमिश्रितम् ॥

मृगनाभिसमायुक्तं जातीफलसमन्वितम्

॥३२॥

तुलसीचंदनोपेतं ममात्यंतसुखावहम् ॥

यो ददाति हि मां नित्यं तुलसीकाष्ठसंभवम्

॥३३॥

युगानि वसते स्वर्गे ह्यनंतानि नरोत्तमः ॥

महाविष्णोः कलौ भक्त्या दत्त्वा तुलसिचंदनम्

॥३४॥

अर्चयेन्मालतीपुष्पैर्न भूयः स्तनपो भवेत् ॥

तुलसीकाष्ठसंभूतं चंदनं यच्छते मम

॥३५॥

दहामि पातकं सर्वं पूर्वजन्मशतैः कृतम् ॥

सर्वेषामेव देवानां तुलसीकाष्ठचंदनम्

॥३६॥

पितॄणां च विशेषेण सदाऽभीष्टं यथा मम

॥३७॥

श्रीखंडं चंदनं तावच्छ्रेष्ठं कृष्णागुरुं तथा ॥

यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम्

॥३८॥

तावत्कस्तूरिकाऽऽमोदः कर्पूरस्य सुगंधिता ॥

यावन्न दीयते मह्यं तुलसीकाष्ठचंदनम्

॥३९॥

कलौ यच्छंति ये मह्यं तुलसीकाष्ठचंदनम् ॥

मार्गशीर्षशुभेमासे ते कृतार्था न संशयः

॥४०॥

यो हि भागवतो भूत्वा कलौ तुलसिचंदनम् ॥

नार्पयेद्वै सहोमासे नाऽसौ भागवतो नरः

॥४१॥

कुंकुमागुरुश्रीखण्डकर्दमैर्मम विग्रहम् ॥

आलिपेद्वै सहोमासे कल्पकोटिं वसेद्दिवि

॥४२॥

कर्पूरागुरुमिश्रेण चंदनेनाऽनुलिंपयेत् ॥

मृगदर्पं विशेषेण अभीष्टं च सदा मम

॥४३॥

विलेपयति यो मां वै शंखे कृत्वा तु चंदनम् ॥

मार्गशीर्षे तदा प्रीतिं करोमि शतवार्षिकीम्

॥४४॥

सेवते तुलसीपत्रैर्नित्यमामलकैश्च यः ॥

मार्गशीर्षे सदा भक्त्या स लभेद्वांछितं फलम्

॥४५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये भगवते तुलसीकाष्ठचंदनार्पणफलकथनंनाम षष्ठोऽध्यायः ॥ ६ ॥