ख्यातोऽवंत्यां चतुर्थोऽसौ देवो डमरुकेश्वरः
श्रीमहादेव उवाच
ख्यातोऽवंत्यां चतुर्थोऽसौ देवो डमरुकेश्वरः ॥
दृष्टे यस्मिञ्जगन्नाथे याति पापं च संक्षयम्
॥१॥पुरा वैवस्वते कल्पे रुरुर्नाम महासुरः ॥
तस्य पुत्रो महाबाहुर्वज्रोनाम महाबलः ॥
बभूव सुमहाकायस्तीक्ष्णदंष्ट्रो भयंकरः
॥२॥तेन देवाः स्वाधिकाराच्चालितास्त्रिदशाल यात्
॥३॥ततो नीतं धनं तेषां ब्रह्माणं ते ततो ययुः ॥
ब्रह्मापि भयसंविग्नो बभूवाकुलितेंद्रियः
॥४॥ज्ञात्वावध्यं सुरैः सार्धं सर्वैः सोऽथमहा बलः ॥
तेषु नष्टेषु ये विप्रा यज्वानोऽथ तपस्विनः ॥
ताञ्जघान स दुष्टात्मा ये चान्ये धर्मचारिणः
॥५॥निःस्वाध्यायवषट्कारं तदासीद्धरणीत तलम् ॥
नष्टयज्ञोत्सवं देवि हाहाभूतमचेतनम्
॥६॥ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥
समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः
॥७॥ततः कायोऽभवत्सद्यः सर्वेषां पुरतस्तदा ॥
तेषां चिंतयतां देवि तेजःपुंजेन चावृतः
॥८॥तस्मात्कृत्या समुत्पन्ना दिव्या कमललोचना ॥
द्योतयंती दिशः सर्वाः स्वतेजोभिः समंततः
॥९॥साब्रवीत्त्रिदशान्सर्वान्कस्मात्सृष्टा ह्यहं सुराः ॥
यत्कर्तव्यं मया कर्म तच्छीघ्रं संनिवेद्यताम्
॥१०॥ततस्तु त्रिदशाः सर्वे श्रुत्वा तस्याः शुभा गिरः ॥
आचख्युः सकलं तस्यै तदा वज्रस्य चेष्टितम्
॥११॥श्रुत्वा जहास सा देवी साट्टहासं मुहुर् मुहुः ॥
तस्या हसंत्या निःसस्रुः कन्याः कमललोचनाः
॥१२॥पाशांकुशधरा रौद्रा ज्वालामालावृताननाः ॥
फेत्कारेण च संनादैश्चालयंत्यश्चराचरम्
॥१३॥गताः सर्वा महादेवि यत्र वज्रो महासुरः ॥
युद्धं तु तुमुलं जातं ताभिस्तस्य भयावहम्
॥१४॥शस्त्रास्त्रैर्बहुधा मुक्तैर्व्याप्तं चैव दिगंतरम् ॥
संनद्धाखिलसैन्यास्ते युयुधुः समरे भृशम्
॥१५॥ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥
ततो मातृगणं क्रुद्धं मर्द्दयन्तं महासु रान् ॥
पराङ्मुखं बलं दृष्ट्वा वज्रो मायामथासृजत्
॥१६॥तामसींनाम दुःसाध्यां यया मुह्यति कन्यकाः
॥१७॥तमोभूते ततस्तस्मिन्सा देवी भयविह्वला ॥
ताभिः सार्द्धं समायाता महाकालवनोत्तमम्
॥१८॥कपालवान्हरो यत्र लिंगाकारेण संस्थितः ॥
ज्ञात्वा मातृगणं नष्टं ततो मायाप्रभावतः
॥१९॥वज्रोऽपि त्रिदशाञ्ज्ञात्वा देव्या सार्द्धमथोपि(षि?)तान् ॥
आजगाम तमुद्देशं स्वसैन्यपरिवारितः
॥२०॥महाकालवने दिव्ये रथकोटिशतैर्वृतः ॥
समंताच्च वनं देवि तत्क्रुद्धो वाक्यमब्रवीत्
॥२१॥अद्य देवान्हनिष्यामि तया साकं सुदुष्टया ॥
कन्याभिः सह या नष्टा तमोमायाबलेन तु
॥२२॥एतस्मिन्नंतरे काले नारदो मुनिसत्तमः ॥
सोत्सुकस्तु समायातो मंदरे चारुकंदरे
॥२३॥कथयामास देवनां वज्राद्देवपराभवम्
॥२४॥महाकालवने देव ताडितास्त्त्रिदशाः प्रभो ॥
वज्रेण रुरुपुत्रेण तस्माद्याहि महेश्वर
॥२५॥नारदस्य वचः श्रुत्वा ततोऽहं परमेश्वरि ॥
मंदरादागतस्तूर्णं कृत्वा रूपं सुभैरवम्
॥२६॥सर्पैर्लसद्भिरत्युग्रैर्भीषणैर्गणसंवृतः ॥
अग्रे दृष्टं महत्सैन्यं दानवानां भयावहम्
॥२७॥महाकालवनं रुद्धं समंतादसुरेण तु ॥
वज्रेण रुरुपुत्रेण दुःसहेन यशस्विनि
॥२८॥तदागत्य मया ताड्य रौद्रं डमरुकं तथा ॥
मोहितं सहसा सैन्यं वज्रस्यैव दुरात्मनः
॥२९॥डमरुकस्य नादेन ह्युत्थितं लिंगमुत्तमम् ॥
विदार्य वसुधां देवि ज्वालामालाकुलं तदा
॥३०॥तस्य लिंगस्य च तदा महाज्वाला विनिर्गता ॥
एकदेशाद्वरारोहे ब्रह्मांडव्यापिनी तथा
॥३१॥लिंगस्यान्यप्रदेशात्तु वायुः समभवन्महान्
॥३२॥तेजोज्वालासमूहेन वातेन प्रेरितेन च ॥
सह चक्रेण तत्सैन्यं दग्धं भस्मत्वमागतम्
॥३३॥ततो देवगणाः सर्वे हर्षनिर्भरमानसाः ॥
नमश्चक्रुर्ह ते तस्मिन्रुरुपुत्रे महाबले
॥३४॥अस्य देवस्य माहात्म्याद्दग्धो वज्रो महाबलः ॥
ससैन्योभूत्ततस्तस्मादेष डमरुकेश्वरः ॥
ख्यातिं यास्यति लोकेस्मिन्सर्वकामफलप्रदः
॥३५॥डमरुकस्य तु नादेन जातो यस्मान्महीतले ॥
अतः पूज्यवरो देवो भविष्यति न संशयः
॥३६॥दृष्ट्वा ये पूजयिष्यंति देवं डमरुकेश्वरम् ॥
ते सर्वे दुःखनिर्मुक्ता भविष्यंति गतज्वराः
॥३७॥चांद्रायणानां विधिवच्छतानामथ यत्फलम् ॥
तत्फलं समवाप्नोति डमरुकेश्वरपूजनात्
॥३८॥अस्मिन्स्थाने स्थितं लिंगं भक्त्या डमरुकेश्वरम् ॥
प्रसंगादपि पश्यंति ह्यपि पापपरा नराः
॥३९॥तेऽप्यवश्यं तु यास्यंति रुद्रलोकं सनातनम् ॥
भक्ताः स्तोष्यंति ये लिंगं ख्यातं डमरुकेश्वरम्
॥४०॥मानसैः पातकैर्मुक्ता यास्यंति परमं पदम् ॥
अश्वमेधसहस्रं तु वाजपेयशतं भवेत् ॥
गोसहस्रफलं चात्र दृष्ट्वा प्राप्स्यंति मानवाः
॥४१॥यो याति संगरे धीरो दृष्ट्वा डमरुकेश्वरम् ॥
जयेद्रिपूनथांते स रुद्रलोके महीयते
॥४२॥एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्तुतस्तु कीर्तितश्चैव सर्वाभीष्टफलप्रद
॥४३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये डमरुकेश्वरूमाहात्म्यवर्णनंनाम चतुर्थोऽ ध्यायः ॥ ४ ॥