मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय १०

3
अम्बिकाखण्डः · 10

सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः

सनत्कुमार उवाच

सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः ।

निराहारा कदाचिच्च एकपर्णाशना पुनः ।

वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च

॥१॥

तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् ।

उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते

॥२॥

साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् ।

विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव

॥३॥

ब्रह्मोवाच

न हि येन शरीरेण क्रियते परमं तपः ।

तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते

॥४॥

तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः ।

जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि

॥५॥

ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी ।

दक्षस्य दुहिता जज्ञे सती नामातियोगिनी

॥६॥

तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् ।

ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान्

॥७॥

आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् ।

अनेकानि सहस्राणि रुद्राणाममितौजसाम्

॥८॥

तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् ।

मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः

॥९॥

अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः ।

तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः

॥१०॥

देव उवाच

न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन ।

स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः

॥११॥

ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः ।

चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः

॥१२॥

सनत्कुमार उवाच

अथ काले गते व्यास स दक्षः शापकारणात् ।

अन्यानाहूय जामातॄन्सदारानर्चयद्गृहे

॥१३॥

सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः ।

सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत्

॥१४॥

अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत ।

मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम्

॥१५॥

क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः ।

निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव

॥१६॥

मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः ।

न त्वं तथा पूजयसे सह भर्त्रा महाव्रते

॥१७॥

गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः ।

श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम्

॥१८॥

तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् ।

पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते

॥१९॥

सनत्कुमार उवाच

ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता ।

पूजामसम्मतां हीनामिदं चोवाच तं शुभा

॥२०॥

यस्मादसम्मतामेतां पूजां त्वं कुरुषे मयि ।

श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः

॥२१॥

तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा ।

असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह

॥२२॥

सनत्कुमार उवाच

ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह ।

उवाचेदं सुसंरब्धा वचनं वचनारणिः

॥२३॥

यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया ।

एवं तत्राप्यसम्मूढा सम्भूता धार्मिका सती ।

गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः

॥२४॥

ततः सा धारणां कृत्वा आग्नेयीं सहसा सती ।

ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना

॥२५॥

तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः ।

उवाच दक्षं संगम्य इदं वचनकोविदः

॥२६॥

यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् ।

जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे ।

उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे

॥२७॥

त्वं चैव मम शापेन क्षत्रियो भविता नृपः ।

प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः ।

धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः

॥२८॥

सनत्कुमार उवाच

तमुवाच तदा दक्षो दूयता हृदयेन वै ।

मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः ।

किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा

॥२९॥

यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर ।

भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन

॥३०॥

भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः ।

अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते

॥३१॥

सनत्कुमार उवाच

ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः ।

सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते

॥३२॥

तमहं धारयाम्येको लोकानां हितकाम्यया ।

भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः ।

तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया

॥३३॥

भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः ।

अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः ।

दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये

॥३४॥

यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत ।

अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च

॥३५॥

देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः ।

भागानपः स्पृशन्ति स्म तत्र का परिदेवना

॥३६॥

त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः ।

स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि

॥३७॥

सनत्कुमार उवाच

एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः ।

विरराम महातेजा जगाम च यथागतम्

॥३८॥

चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् ।

गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः

॥३९॥

य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम् ।

शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः ।

सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्

॥४०॥

इति स्कन्दपुराणे दशमोऽध्यायः ॥