मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

शिवपुराणम् — विद्येश्वरसंहिता, अध्याय २५

3
विद्येश्वरसंहिता · 25

शौनकर्षे महाप्राज्ञ शिवरूपमहापते

सूत उवाच

शौनकर्षे महाप्राज्ञ शिवरूपमहापते ।

शृणु रुद्रा क्षमाहात्म्यं समासात्कथयाम्यहम् १ ।

शिवप्रियतमो ज्ञेयो रुद्रा क्षः परपावनः ।

दर्शनात्स्पर्शनाज्जाप्यात्सर्वपापहरः स्मृतः २ ।

पुरा रुद्रा क्षमहिमा देव्यग्रे कथितो मुने ।

लोकोपकरणार्थाय शिवेन परमात्मना ३ ।

शिव उवाच ।

शृणु देविमहेशानि रुद्रा क्षमहिमा शिवे ।

कथयामि तवप्रीत्या भक्तानां हितकाम्यया ४ ।

दिव्यवर्षसहस्राणि महेशानि पुनः पुरा ।

तपः प्रकुर्वतस्त्रस्तं मनः संयम्य वै मम ५ ।

स्वतंत्रेण परेशेन लोकोपकृतिकारिणा ।

लीलया परमेशानि चक्षुरुन्मीलितं मया ६ ।

पुटाभ्यां चारुचक्षुर्भ्यां पतिता जलबिंदवः ।

तत्राश्रुबिन्दवो जाता वृक्षा रुद्रा क्षसंज्ञकाः ७ ।

स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ।

ते दत्ता विष्णुभक्तेभ्यश्चतुर्वर्णेभ्य एव च ८ ।

भूमौ गौडोद्भवांश्चक्रे रुद्रा क्षाञ्छिववल्लभान् ।

मथुरायामयोध्यायां लंकायां मलये तथा ९ ।

सह्याद्रौ च तथा काश्यां दशेष्वन्येषु वा तथा ।

परानसह्यपापौघभेदनाञ्छ्रुतिनोदनात् 1.25.१० ।

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा जाता ममाज्ञया ।

रुद्रा क्षास्ते पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ११ ।

श्वेतरक्ताः पीतकृष्णा वर्णाज्ञेयाः क्रमाद्बुधैः ।

स्वजातीयं नृभिर्धार्यं रुद्रा क्षं वर्णतः क्रमात् १२ ।

वर्णैस्तु तत्फलं धार्यं भुक्तिमुक्तिफलेप्सुभिः ।

शिवभक्तैर्विशेषेण शिवयोः प्रीतये सदा १३ ।

धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ।

बदरीफलमात्रं तु मध्यमं संप्रकीर्त्तितम् १४ ।

अधमं चणमात्रं स्यात्प्रक्रियैषा परोच्यते ।

शृणु पार्वति सुप्रीत्या भक्तानां हितकाम्यया १५ ।

बदरीफलमात्रं च यत्स्यात्किल महेश्वरि ।

तथापि फलदं लोके सुखसौभाग्यवर्द्धनम् १६ ।

धात्रीफलसमं यत्स्यात्सर्वारिष्टविनाशनम् ।

गुंजया सदृशं यत्स्यात्सर्वार्थफलसाधनम् १७ ।

यथा यथा लघुः स्याद्वै तथाधिकफलप्रदम् ।

एकैकतः फलं प्रोक्तं दशांशैरधिकं बुधैः १८ ।

रुद्रा क्षधारणं प्रोक्तं पापनाशनहेतवे ।

तस्माच्च धारणी यो वै सर्वार्थसाधनो ध्रुवम् १९ ।

यथा च दृश्यते लोके रुद्रा क्षफलदः शुभः ।

न तथा दृश्यतेऽन्या च मालिका परमेश्वरि 1.25.२० ।

समाः स्निग्धा दृढाः स्थूलाः कंटकैः संयुताः शुभाः ।

रुद्रा क्षाः कामदा देवि भुक्तिमुक्तिप्रदाः सदा २१ ।

क्रिमिदुष्टं छिन्नभिन्नं कंटकैर्हीनमेव च ।

व्रणयुक्तमवृत्तं च रुद्रा क्षान्षड्विवर्जयेत् २२ ।

स्वयमेव कृतद्वारं रुद्रा क्षं स्यादिहोत्तमम् ।

यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् २३ ।

रुद्रा क्षधारणं प्राप्तं महापातकनाशनम् ।

रुद्र संख्याशतं धृत्वा रुद्र रूपो भवेन्नरः २४ ।

एकादशशतानीह धृत्वा यत्फलमाप्यते ।

तत्फलं शक्यते नैव वक्तुं वर्षशतैरपि २५ ।

शतार्द्धेन युतैः पंचशतैर्वै मुकुटं मतम् ।

रुद्रा क्षैर्विरचेत्सम्यग्भक्तिमान्पुरुषो वरः २६ ।

त्रिभिः शतैः षष्टियुक्तैस्त्रिरावृत्त्या तथा पुनः ।

रुद्रा क्षैरुपवीतं व निर्मीयाद्भक्तितत्परः २७ ।

शिखायां च त्रयं प्रोक्तं रुद्र क्षाणां महेश्वरि ।

कर्णयोः षट् च षट्चैव वामदक्षिणयोस्तथा २८ ।

शतमेकोत्तरं कंठे बाह्वोर्वै रुद्र संख्यया ।

कूर्परद्वारयोस्तत्र मणिबंधे तथा पुनः २९ ।

उपवीते त्रयं धार्यं शिवभक्तिरतैर्नरैः ।

शेषानुर्वरितान्पंच सम्मितान्धारयेत्कटौ 1.25.३० ।

एतत्संख्या धृता येन रुद्रा क्षाः परमेश्वरि ।

तद्रू पं तु प्रणम्यं हि स्तुत्यं सर्वैर्महेशवत् ३१ ।

एवंभूतं स्थितं ध्याने यदा कृत्वासनैर्जनम् ।

शिवेति व्याहरंश्चैव दृष्ट्वा पापैः प्रमुच्यते ३२ ।

शतादिकसहस्रस्य विधिरेष प्रकीर्तितः ।

तदभावे प्रकारोन्यः शुभः संप्रोच्यते मया ३३ ।

शिखायामेकरुद्रा क्षं शिरसा त्रिंशतं वहेत् ।

पंचाशच्च गले दध्याद्बाह्वोः षोडश षोडश ३४ ।

मणिबंधे द्वादशद्विस्कंधे पंचशतं वहेत् ।

अष्टोत्तरशतैर्माल्यमुपवीतं प्रकल्पयेत् ३५ ।

एवं सहस्ररुद्रा क्षान्धारयेद्यो दृढव्रतः ।

तं नमंति सुराः सर्वे यथा रुद्र स्तथैव सः ३६ ।

एकं शिखायां रुद्रा क्षं चत्वारिंशत्तु मस्तके ।

द्वात्रिंशत्कण्ठदेशे तु वक्षस्यष्टोत्तरं शतम् ३७ ।

एकैकं कर्णयोः षट्षड्बाह्वोः षोडश षोडश ।

करयोरविमानेन द्विगुणेन मुनीश्वर ३८ ।

संख्या प्रीतिर्धृता येन सोपि शैवजनः परः ।

शिववत्पूजनीयो हि वंद्यस्सर्वैरभीक्ष्णशः ३९ ।

शिरसीशानमंत्रेण कर्णे तत्पुरुषेण च ।

अघोरेण गले धार्यं तेनैव हृदयेपि च 1.25.४० ।

अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः ।

पंचदशाक्षग्रथितां वामदेवेन चोदरे ४१ ।

पंच ब्रह्मभिरंगश्च त्रिमालां पंचसप्त च ।

अथवा मूलमंत्रेण सर्वानक्षांस्तुधारयेत् ४२ ।

मद्यं मांसं तु लशुनं पलाण्डुं शिग्रुमेव च ।

श्लेष्मांतकं विड्वराहं भक्षणे वर्जयेत्ततः ४३ ।

वलक्षं रुद्रा क्षं द्विजतनुभिरेवेह विहितं सुरक्तं क्षत्त्राणां प्रमुदितमुमे पीतमसकृत् ४४ ।

छिन्नं खंडितं भिन्नं विदीर्ण ।

ततो वैश्यैर्धार्यं प्रतिदिवसभावश्यकमहो तथा कृष्णं शूद्रै ः! श्रुतिगदितमार्गोयमगजे ४४ ।

वर्णी वनी गृहयतीर्नियमेन दध्यादेतद्र हस्यपरमो न हि जातु तिष्ठेत् ।

रुद्रा क्षधारणमिदं सुकृतैश्च लभ्यं त्यक्त्वेदमेतदखिलान्नरकान्प्रयांति ४५ ।

आदावामलकात्स्वतो लघुतरा रुग्णास्ततः कंटकैः संदष्टाः कृमिभिस्तनूपकरणच्छिद्रे ण हीनास्तथा ।

धार्या नैव शुभेप्सुभिश्चणकवद्रुद्रा क्षमप्यंततो रुद्रा क्षोमम लिंगमंगलमुमे सूक्ष्मं प्रशस्तं सदा ४६ ।

सर्वाश्रमाणां वर्णानां स्त्रीशूद्रा णां शिवाज्ञया ।

धार्याः सदैव रुद्रा क्षा यतीनां प्रणवेन हि ४७ ।

दिवा बिभ्रद्रा त्रिकृतै रात्रौ विभ्रद्दिवाकृतैः ।

प्रातर्मध्याह्नसायाह्ने मुच्यते सर्वपातकैः ४८ ।

ये त्रिपुण्ड्रधरा लोके जटाधारिण एव ये ।

ये रुद्रा क्षधरास्ते वै यमलोकं प्रयांति न ४९ ।

रुद्रा क्षमेकं शिरसा बिभर्ति तथा त्रिपुण्ड्रं च ललाटमध्ये ।

पंचाक्षरं ये हि जपंति मंत्रं पूज्या भवद्भिः खलु ते हि साधवः 1.25.५० ।

यस्याण्गे नास्ति रुद्रा क्षस्त्रिपुण्ड्रं भालपट्टके ।

मुखे पंचाक्षरं नास्ति तमानय यमालयम् ५१ ।

ज्ञात्वा ज्ञात्वा तत्प्रभावं भस्मरुद्रा क्षधारिणः ।

ते पूज्याः सर्वदास्माकं नो नेतव्याः कदाचन ५२ ।

एवमाज्ञापयामास कालोपि निजकिण्करान् ।

तथेति मत्त्वा ते सर्वे तूष्णीमासन्सुविस्मिताः ५३ ।

अत एव महादेवि रुद्रा क्षोत्यघनाशनः ।

तद्धरो मत्प्रियः शुद्धोऽत्यघवानपि पार्वति ५४ ।

हस्ते बाहौ तथा मूर्ध्नि रुद्रा क्षं धारयेत्तु यः ।

अवध्यः सर्वभूतानां रुद्र रूपी चरेद्भुवि ५५ ।

सुरासुराणां सर्वेषां वंदनीयः सदा स वै ।

पूजनीयो हि दृष्टस्य पापहा च यथा शिवः ५६ ।

ध्यानज्ञानावमुक्तोपि रुद्रा क्षं धारयेत्तु यः ।

सर्वपापविनिर्मुक्तः स याति परमां गतिम् ५७ ।

रुद्रा क्षेण जपन्मन्त्रं पुण्यं कोटिगुणं भवेत् ।

दशकोटिगुणं पुण्यं धारणाल्लभते नरः ५८ ।

यावत्कालं हि जीवस्य शरीरस्थो भवेत्स वै ।

तावत्कालं स्वल्पमृत्युर्न तं देवि विबाधते ५९ ।

त्रिपुंड्रेण च संयुक्तं रुद्रा क्षाविलसांगकम् ।

मृत्युंजयं जपंतं च दृष्ट्वा रुद्र फलं लभेत् 1.25.६० ।

पंचदेवप्रियश्चैव सर्वदेवप्रियस्तथा ।

सर्वमन्त्राञ्जपेद्भक्तो रुद्रा क्षमालया प्रिये ६१ ।

विष्ण्वादिदेवभक्ताश्च धारयेयुर्न संशयः ।

रुद्र भक्तो विशेषेण रुद्रा क्षान्धारयेत्सदा ६२ ।

रुद्रा क्षा विविधाः प्रोक्तास्तेषां भेदान्वदाम्यहम् ।

शृणु पार्वति सद्भक्त्या भुक्तिमुक्तिफलप्रदान् ६३ ।

एकवक्त्रः शिवः साक्षाद्भुक्तिमुक्तिफलप्रदः ।

तस्य दर्शनमात्रेण ब्रह्महत्या व्यपोहति ६४ ।

यत्र संपूजितस्तत्र लक्ष्मीर्दूरतरा न हि ।

नश्यंत्युपद्र वाः सर्वे सर्वकामा भवंति हि ६५ ।

द्विवक्त्रो देवदेवेशस्सर्वकामफलप्रदः ।

विशेषतः स रुद्रा क्षो गोवधं नाशयेद्द्रुतम् ६६ ।

त्रिवक्त्रो यो हि रुद्रा क्षः साक्षात्साधनदस्सदा ।

तत्प्रभावाद्भवेयुर्वै विद्याः सर्वाः प्रतिष्ठिताः ६७ ।

चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ।

दर्शनात्स्पर्शनात्सद्यश्चतुर्वर्गफलप्रदः ६८ ।

पंचवक्त्रः स्वयं रुद्र ः! कालाग्निर्नामतः प्रभुः ।

सर्वमुक्तिप्रदश्चैव सर्वकामफलप्रदः ६९ ।

अगम्यागमनं पापमभक्ष्यस्य च भक्षणम् ।

इत्यादिसर्वपापानि पंचवक्त्रो व्यपोहति 1.25.७० ।

षड्वक्त्रः कार्तिकेयस्तुधारणाद्दक्षिणे भुजे ।

ब्रह्महत्यादिकैः पापैर्मुच्यते नात्र संशयः ७१ ।

सप्तवक्त्रो महेशानि ह्यनंगो नाम नामतः ।

धारणात्तस्य देवेशिदरिद्रो पीश्वरो भवेत् ७२ ।

रुद्रा क्षश्चाष्टवक्त्रश्च वसुमूर्तिश्च भैरवः ।

धारणात्तस्य पूर्णायुर्मृतो भवति शूलभृत् ७३ ।

भैरवो नववक्त्रश्च कपिलश्च मुनिः स्मृतः ।

दुर्गा वात दधिष्ठात्री नवरूपा महेश्वरी ७४ ।

तं धारयेद्वामहस्ते रुद्रा क्षं भक्तितत्परः ।

सर्वेश्वरो भवेन्नूनं मम तुल्यो न संशयः ७५ ।

दशवक्त्रो महेशानि स्वयं देवो जनार्दनः ।

धारणात्तस्य देवेशि सर्वान्कामानवाप्नुयात् ७६ ।

एकादशमुखो यस्तु रुद्रा क्षः परमेश्वरि ।

स रुद्रो धारणात्तस्य सर्वत्र विजयी भवेत् ७७ ।

द्वादशास्यं तु रुद्रा क्षं धारयेत्केशदेशके ।

आदित्याश्चैव ते सर्वेद्वादशैव स्थितास्तथा ७८ ।

त्रयोदशमुखो विश्वेदेवस्तद्धारणान्नरः ।

सर्वान्कामानवाप्नोति सौभाग्यं मंगलंलभेत् ७९ ।

चतुर्दशमुखो यो हि रुद्रा क्षः परमः शिवः ।

धारयेन्मूर्ध्नि तं भक्त्या सर्वपापं प्रणश्यति 1.25.८० ।

इति रुद्रा क्षभेदा हि प्रोक्ता वै मुखभेदतः ।

तत्तन्मंत्राञ्छृणु प्रीत्या क्रमाच्छैल्लेश्वरात्मजे ८१ ।

ॐ ह्रीं नमः १ ॐ नमः २ ॐ क्लीं नमः ३ ॐ ह्रीं नमः ४ ॐ ह्रीं नमः ५ ॐ ह्रीं हुं नमः ६ ॐ हुंनमः ७ ॐ हुं नमः ८ ॐ ह्रीं हुं नमः ९ ॐ ह्रीं नमः नमः १० ॐ ह्रीं हुं नमः ११ ॐ क्रौं क्षौं रौं नमः १२ ॐ ह्रीं नमः १३ ॐ नम १४।

भक्तिश्रद्धा युतश्चैव सर्वकामार्थसिद्धये ।

रुद्रा क्षान्धारयेन्मंत्रैर्देवनालस्य वर्जितः ८२ ।

विना मंत्रेण हो धत्ते रुद्रा क्षं भुवि मानवः ।

स याति नरकं घोरं यावदिन्द्रा श्चतुर्दश ८३ ।

रुद्रा क्षमालिनं दृष्ट्वा भूतप्रेतपिशाचकाः ।

डाकिनीशाकिनी चैव ये चान्ये द्रो हकारकाः ८४ ।

कृत्रिमं चैव यत्किंचिदभिचारादिकं च यत् ।

तत्सर्वं दूरतो याति दृष्ट्वा शंकितविग्रहम् ८५ ।

रुद्रा क्षमालिनं दृष्ट्वा शिवो विष्णुः प्रसीदति ।

देवीगणपतिस्सूर्यः सुराश्चान्येपि पार्वति ८६ ।

एवं ज्ञात्वा तु माहात्म्यं रुद्रा क्षस्य महेश्वरि ।

सम्यग्धार्यास्समंत्राश्च भक्त्याधर्मविवृद्धये ८७ ।

इत्युक्तं गिरिजाग्रे हि शिवेन परमात्मना ।

भस्मरूद्रा क्षमाहात्म्यं भुक्तिमुक्तिफलप्रदम् ८८ ।

शिवस्यातिप्रियौ ज्ञेयौ भस्मरुद्रा क्षधारिणौ ।

तद्धारणप्रभावद्धि भुक्तिर्मुक्तिर्न संशयः ८९ ।

भस्मरुद्रा क्षधारी यः शिवभक्तस्स उच्यते ।

पंचाक्षरजपासक्तः परिपूर्णश्च सन्मुखे 1.25.९० ।

विना भस्मत्रिपुंड्रेण विना रुद्रा क्षमालया ।

पूजितोपि महादेवो नाभीष्टफलदायकः ९१ ।

तत्सर्वं च समाख्यातं यत्पृष्टं हि मुनीश्वर ।

भस्मरुद्रा क्षमाहात्म्यं सर्वकामसमृद्धिदम् ९२ ।

एतद्यः शृणुयान्नित्यं माहात्म्यपरमं शुभम् ।

रुद्रा क्षभस्मनोर्भक्त्यासर्वान्कामानवाप्नुयात् ९३ ।

इह सर्वसुखं भुक्त्वा पुत्रपौत्रादिसंयुतः ।

लभेत्परत्र सन्मोक्षं शिवस्यातिप्रियो भवेत् ९४ ।

विद्येश्वरसंहितेयं कथिता वो मुनीश्वराः ।

सर्वसिद्धिप्रदा नित्यं मुक्तिदा शिवशासनात् ९५

॥१॥

इति श्रीशिवमहापुराणे प्रथमायां विद्येश्वरसंहितायां साध्यसाधनखण्डे रुद्रा क्षमहात्म्यवर्णनोनाम पञ्चविंशोऽध्यायः २५। इति श्रीशिवमहापुराणे प्रथमा विद्येश्वरसंहिता समाप्ता।