- १ॐ रामाय नमः
- २ॐ रावण-संहार-कृत-मानुष-विग्रहाय नमः
- ३ॐ कौसल्या-सुकृत-व्रात-फलाय नमः
- ४ॐ दशरथात्मजाय नमः
- ५ॐ लक्ष्मणार्चित-पादाब्जाय नमः
- ६ॐ सर्व-लोक-प्रियङ्कराय नमः
- ७ॐ साकेत-वासि-नेत्राब्ज-सम्प्रीणन-दिवाकराय नमः
- ८ॐ विश्वामित्र-प्रियाय नमः
- ९ॐ शान्ताय नमः
- १०ॐ ताटका-ध्वान्त-भास्कराय नमः
- ११ॐ सुबाहु-राक्षस-रिपवे नमः
- १२ॐ कौशिकाध्वर-पालकाय नमः
- १३ॐ अहल्या-पाप-संहर्त्रे नमः
- १४ॐ जनकेन्द्र-प्रियातिथये नमः
- १५ॐ पुरारि-चाप-दलनाय नमः
- १६ॐ वीर-लक्ष्मी-समाश्रयाय नमः
- १७ॐ सीता-वरण-माल्याढ्याय नमः
- १८ॐ जामदग्न्य-मदापहाय नमः
- १९ॐ वैदेही-कृत-शृङ्गाराय नमः
- २०ॐ पितृ-प्रीति-विवर्धनाय नमः
- २१ॐ ताताज्ञोत्सृष्ट-हस्त-स्थ-राज्याय नमः
- २२ॐ सत्य-प्रतिश्रवाय नमः
- २३ॐ तमसा-तीर-संवासिने नमः
- २४ॐ गुहानुग्रह-तत्पराय नमः
- २५ॐ सुमन्त्र-सेवित-पदाय नमः
- २६ॐ भरद्वाज-प्रियातिथये नमः
- २७ॐ चित्रकूट-प्रिय-स्थानाय नमः
- २८ॐ पादुका-न्यस्त-भू-भराय नमः
- २९ॐ अनसूया-अङ्गरागाङ्क-सीता-साहित्य-शोभिताय नमः
- ३०ॐ दण्डकारण्य-सञ्चारिणे नमः
- ३१ॐ विराध-स्वर्ग-दायकाय नमः
- ३२ॐ रक्षः-कालान्तकाय नमः
- ३३ॐ सर्व-मुनि-सङ्घ-मुदावहाय नमः
- ३४ॐ प्रतिज्ञात-आशर-वधाय नमः
- ३५ॐ शरभङ्ग-गति-प्रदाय नमः
- ३६ॐ अगस्त्यार्पित-बाणास-खड्ग-तूणीर-मण्डिताय नमः
- ३७ॐ प्राप्त-पञ्चवटी-वासाय नमः
- ३८ॐ गृध्रराज-सहायवते नमः
- ३९ॐ कामि-शूर्पणखा-कर्ण-नास-च्छेद-नियामकाय नमः
- ४०ॐ खरादि-राक्षस-त्रातखण्डनावितसज्जनाय नमः
- ४१ॐ सीता-संश्लिष्ट-कायाभा-जित-विद्युद्-युताम्बुदाय नमः
- ४२ॐ मारीच-हन्त्रे नमः
- ४३ॐ मायाढ्याय नमः
- ४४ॐ जटायुर्-मोक्ष-दायकाय नमः
- ४५ॐ कबन्ध-बाहु-लवनाय नमः
- ४६ॐ शबरी-प्रार्थितातिथये नमः
- ४७ॐ हनुमद्-वन्दित-पदाय नमः
- ४८ॐ सुग्रीव-सुहृदेऽव्ययाय नमः
- ४९ॐ दैत्य-कङ्काल-विक्षेपिणे नमः
- ५०ॐ सप्त-साल-प्रभेदकाय नमः
- ५१ॐ एकेषु-हत-वालिने नमः
- ५२ॐ तारा-संस्तुत-सद्गुणाय नमः
- ५३ॐ कपीन्द्री-कृत-सुग्रीवाय नमः
- ५४ॐ सर्व-वानर-पूजिताय नमः
- ५५ॐ वायु-सूनु-समानीत-सीता-सन्देश-नन्दिताय नमः
- ५६ॐ जैत्र-यात्रोद्यताय नमः
- ५७ॐ जिष्णवे नमः
- ५८ॐ विष्णु-रूपाय नमः
- ५९ॐ निराकृतये नमः
- ६०ॐ कम्पिताम्भोनिधये नमः
- ६१ॐ सम्पत्-प्रदाय नमः
- ६२ॐ सेतु-निबन्धनाय नमः
- ६३ॐ लङ्का-विभेदन-पटवे नमः
- ६४ॐ निशाचर-विनाशकाय नमः
- ६५ॐ कुम्भकर्णाख्य-कुम्भीन्द्र-मृगराज-पराक्रमाय नमः
- ६६ॐ मेघनाद-वधोद्युक्त-लक्ष्मणास्त्र-बलप्रदाय नमः
- ६७ॐ दशग्रीवान्धतामिस्र-प्रमापण-प्रभाकराय नमः
- ६८ॐ इन्द्रादि-देवता-स्तुत्याय नमः
- ६९ॐ चन्द्राभ-मुख-मण्डलाय नमः
- ७०ॐ विभीषणार्पित-निशाचर-राज्याय नमः
- ७१ॐ वृष-प्रियाय नमः
- ७२ॐ वैश्वानर-स्तुत-गुणावनिपुत्री-समागताय नमः
- ७३ॐ पुष्पक-स्थान-सुभगाय नमः
- ७४ॐ पुण्यवत्-प्राप्य-दर्शनाय नमः
- ७५ॐ राज्याभिषिक्ताय नमः
- ७६ॐ राजेन्द्राय नमः
- ७७ॐ राजीव-सदृशेक्षणाय नमः
- ७८ॐ लोक-तापापहर्त्रे नमः
- ७९ॐ धर्म-संस्थापनोद्यताय नमः
- ८०ॐ शरण्याय नमः
- ८१ॐ कीर्तिमते नमः
- ८२ॐ नित्याय वदान्याय नमः
- ८३ॐ करुणार्णवाय नमः
- ८४ॐ संसार-सिन्धु-सम्मग्न-तारकाख्या-महोज्ज्वलाय नमः
- ८५ॐ मधुराय नमः
- ८६ॐ मधुरोक्तये नमः
- ८७ॐ मधुरा-नायकाग्रजाय नमः
- ८८ॐ शम्बूक-दत्त-स्वर्लोकाय नमः
- ८९ॐ शम्बराराति-सुन्दराय नमः
- ९०ॐ अश्वमेध-महायाजिने नमः
- ९१ॐ वाल्मीकि-प्रीतिमते नमः
- ९२ॐ वशिने नमः
- ९३ॐ स्वयं रामायण-श्रोत्रे नमः
- ९४ॐ पुत्र-प्राप्ति-प्रमोदिताय नमः
- ९५ॐ ब्रह्मादि-स्तुत-माहात्म्याय नमः
- ९६ॐ ब्रह्मर्षि-गण-पूजिताय नमः
- ९७ॐ वर्णाश्रम-रताय नमः
- ९८ॐ वर्णाश्रम-धर्म-नियामकाय नमः
- ९९ॐ रक्षा-पराय नमः
- १००ॐ राज-वंश-प्रतिष्ठापन-तत्पराय नमः
- १०१ॐ गन्धर्व-हिंसा-संहारिणे नमः
- १०२ॐ धृतिमते नमः
- १०३ॐ दीन-वत्सलाय नमः
- १०४ॐ ज्ञानोपदेष्ट्रे नमः
- १०५ॐ वेदान्त-वेद्याय नमः
- १०६ॐ भक्त-प्रियङ्कराय नमः
- १०७ॐ वैकुण्ठ-वासिने नमः
- १०८ॐ चराचर-विमुक्ति-दाय नमः
इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-राम-अष्टोत्तरशत-नामावलिः सम्पूर्णा