- १ॐ हनुमते नमः
- २ॐ अञ्जना-सूनवे नमः
- ३ॐ धीमते नमः
- ४ॐ केसरि-नन्दनाय नमः
- ५ॐ वातात्मजाय नमः
- ६ॐ वर-गुणाय नमः
- ७ॐ वानरेन्द्राय नमः
- ८ॐ विरोचनाय नमः
- ९ॐ सुग्रीव-सचिवाय नमः
- १०ॐ श्रीमते नमः
- ११ॐ सूर्य-शिष्याय नमः
- १२ॐ सुख-प्रदाय नमः
- १३ॐ ब्रह्म-दत्त-वराय नमः
- १४ॐ ब्रह्म-भूताय नमः
- १५ॐ ब्रह्मर्षि-सन्नुताय नमः
- १६ॐ जितेन्द्रियाय नमः
- १७ॐ जितारातये नमः
- १८ॐ राम-दूताय नमः
- १९ॐ रणोत्कटाय नमः
- २०ॐ सञ्जीवनी-समाहर्त्रे नमः
- २१ॐ सर्व-सैन्य-प्रहर्षकाय नमः
- २२ॐ रावणाकम्प्य-सौमित्रि-नयन-स्फुट-भक्तिमते नमः
- २३ॐ अशोक-वनिका-च्छेदिने नमः
- २४ॐ सीता-वात्सल्य-भाजनाय नमः
- २५ॐ विषीदद्-भूमि-तनयार्पित-रामाङ्गुलीयकाय नमः
- २६ॐ चूडामणि-समानेत्रे नमः
- २७ॐ राम-दुःखापहारकाय नमः
- २८ॐ अक्ष-हन्त्रे नमः
- २९ॐ विक्षतारये नमः
- ३०ॐ तृणीकृत-दशाननाय नमः
- ३१ॐ कुल्या-कल्प-महाम्भोधये नमः
- ३२ॐ सिंहिका-प्राण-नाशनाय नमः
- ३३ॐ सुरसा-विजयोपाय-वेत्त्रे नमः
- ३४ॐ सुर-वरार्चिताय नमः
- ३५ॐ जाम्बवन्नुत-माहात्म्याय नमः
- ३६ॐ जीविताहत-लक्ष्मणाय नमः
- ३७ॐ जम्बुमालि-रिपवे नमः
- ३८ॐ जम्भ-वैरि-साध्वस-नाशनाय नमः
- ३९ॐ अस्त्रावध्याय नमः
- ४०ॐ राक्षसारये नमः
- ४१ॐ सेनापति-विनाशनाय नमः
- ४२ॐ लङ्कापुर-प्रदग्ध्रे नमः
- ४३ॐ वालानल-सुशीतलाय नमः
- ४४ॐ वानर-प्राण-सन्दात्रे नमः
- ४५ॐ वालि-सूनु-प्रियङ्कराय नमः
- ४६ॐ महारूप-धराय नमः
- ४७ॐ मान्याय नमः
- ४८ॐ भीमाय नमः
- ४९ॐ भीम-पराक्रमाय नमः
- ५०ॐ भीम-दर्प-हराय नमः
- ५१ॐ भक्त-वत्सलाय नमः
- ५२ॐ भर्त्सिताशराय नमः
- ५३ॐ रघु-वंश-प्रिय-कराय नमः
- ५४ॐ रण-धीराय नमः
- ५५ॐ रयाकराय नमः
- ५६ॐ भरतार्पित-सन्देशाय नमः
- ५७ॐ भगवच्छ्लिष्ट-विग्रहाय नमः
- ५८ॐ अर्जुन-ध्वज-वासिने नमः
- ५९ॐ तर्जिताशर-नायकाय नमः
- ६०ॐ महते नमः
- ६१ॐ महा-मधुर-वाचे नमः
- ६२ॐ महात्मने नमः
- ६३ॐ मातरिश्व-जाय नमः
- ६४ॐ मरुन्नुताय नमः
- ६५ॐ महोदार-गुणाय नमः
- ६६ॐ मधु-वन-प्रियाय नमः
- ६७ॐ महा-धैर्याय नमः
- ६८ॐ महा-वीर्याय नमः
- ६९ॐ मिहिराधिक-कान्तिमते नमः
- ७०ॐ अन्नदाय नमः
- ७१ॐ वसुदाय नमः
- ७२ॐ वाग्मिने नमः
- ७३ॐ ज्ञान-दाय नमः
- ७४ॐ वत्सलाय नमः
- ७५ॐ वशिने नमः
- ७६ॐ वशीकृताखिल-जगते नमः
- ७७ॐ वरदाय नमः
- ७८ॐ वानराकृतये नमः
- ७९ॐ भिक्षु-रूप-प्रतिच्छन्नाय नमः
- ८०ॐ अभीति-दाय नमः
- ८१ॐ भीति-वर्जिताय नमः
- ८२ॐ भूमी-धर-हराय नमः
- ८३ॐ भूति-दायकाय नमः
- ८४ॐ भूत-सन्नुताय नमः
- ८५ॐ भुक्ति-मुक्ति-प्रदाय नमः
- ८६ॐ भूम्ने नमः
- ८७ॐ भुज-निर्जित-राक्षसाय नमः
- ८८ॐ वाल्मीकि-स्तुत-माहात्म्याय नमः
- ८९ॐ विभीषण-सुहृदे नमः
- ९०ॐ विभवे नमः
- ९१ॐ अनुकम्पा-निधये नमः
- ९२ॐ पम्पा-तीर-चारिणे नमः
- ९३ॐ प्रतापवते नमः
- ९४ॐ ब्रह्मास्त्र-हत-रामादि-जीवनाय नमः
- ९५ॐ ब्रह्म-वत्सलाय नमः
- ९६ॐ जय-वार्ताहराय नमः
- ९७ॐ जेत्रे नमः
- ९८ॐ जानकी-शोक-नाशनाय नमः
- ९९ॐ जानकी-राम-साहित्य-कारिणे नमः
- १००ॐ जन-सुख-प्रदाय नमः
- १०१ॐ बहु-योजन-गन्त्रे नमः
- १०२ॐ बल-वीर्य-गुणाधिकाय नमः
- १०३ॐ रावणालय-मर्दिने नमः
- १०४ॐ राम-पादाब्ज-वाहकाय नमः
- १०५ॐ राम-नाम-लसद्-वक्त्राय नमः
- १०६ॐ रामायण-कथादृताय नमः
- १०७ॐ राम-स्वरूप-विलसन्मानसाय नमः
- १०८ॐ राम-वल्लभाय नमः
इत्थम् अष्टोत्तर-शतं नाम्नां वातात्मजस्य यः
अनुसन्ध्यं पठेत् तस्य मारुतिः सम्प्रसीदति
प्रसन्ने मारुतौ रामो भुक्ति-मुक्ती प्रयच्छति ॥
इति ब्रह्मयामले रामरहस्ये प्रोक्ता श्री-हनुमद्-अष्टोत्तरशत-नामावलिः सम्पूर्णा